Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
न-ऋषिभाषितानि - योरन्यतरस्मिन् वर्तमानो नानाविधानृद्धिविशेषान् प्राप्नोति। तद्यथा आमीषधित्वं विपुडौषधित्वं सर्वौषधित्वं शापानुग्रहसामर्थ्यजननीमभिव्याहारसिद्धिमीशित्वं वशित्वमवधिज्ञानं शारीरविकरणाङ्गप्राप्तितामणिमानं लघिमानं महिमानमणुत्वम्। अणिमा-विसच्छिद्रमपि प्रविश्याऽऽसीत। लघुत्वं नाम लधिमावायोरपि लघुतरः स्यात्। महत्त्वं महिमा - मेरोरपि महत्तरं शरीरं विकुर्वीत। प्राप्तिर्भूमिष्ठोऽमुल्यग्रेण मेरुशिखर - भास्करादीनपि स्पृशेत्। प्राकाम्यमप्सु भूमाविव गच्छेत्, भूमावप्स्विव निमज्जेदुन्मज्जेच्च - इति ।
परेषामप्येतदभिमतम्, यथोदितम् - अणिमा महिमा चैव लधिमा गरिमा तथा। प्राप्तिः प्राकाश्यमीशित्वं वशित्वं चाष्टसिद्धयः इति ।
ननु दुष्प्रत्येया इमा ऋद्धयः, परीषहादिकदर्थ्यमानानां श्रमणानां दर्शनादिति चेत् ? अत्राह
विज्जोसहिणिवाणेसु वत्थु-सिक्खागतीसु य। तवसंयमपयुत्ते य विमद्दे होति पच्चओ।।९-१९।।
विद्याः-चारणत्वादिविभूतियोनयः, औषध्यः-आमर्षादयः, तेषां निपाना इव निपानाः, तदधिगमनिबन्धनसमाधय इति हृदयम्, तेषु। तथा वस्तुशिक्षा - विद्याप्रवादादिपूर्वगतप्रकरणप्रकरस्वाध्यायः, तस्या गतिः-तदधिगतं ज्ञानम्, तासु च प्रत्ययो
आर्षोपनिषद् - भवतीत्यग्रे योगः। _कथमित्याह- तपःसंयमौ - अणिमादिलब्धयः, हेतौ फलोपचारात्, ताभ्यां प्रयुक्ते तत्सामर्थ्याद्विहिते विमर्दे - चक्रवर्त्तिसैन्यचूर्णनादिलक्षणे सति। यथोक्तम् - लद्धिपुलाओ पुण जस्स देविंदरिद्धिसरिसा रिद्धि, सो संघाइआण कज्जे समुप्पण्णे चक्कवट्टि पि सबलवाहणं चुन्नेउं समत्थो - इति । एवं कदाचित्पुष्टालम्बने लब्ध्युपजीवने सति प्रत्ययः - श्रमणर्द्धिप्रतीतिर्भवति, परीषहप्रियतया महर्षीणां तेषु तदनुपयुञ्जनात्, तप्रियत्वं च मोक्षेतराकाङ्क्षाविरहितत्वात्, तदाहुःलब्धिनामुपयोगं ते जगृहुर्न कदाचन। मुमुक्षवो निराकाङ्क्षा वस्तूषूपस्थितेष्वपि - इति । इतश्च तदनुपयुञ्जनम्, समाधिपरिपन्थित्वात्, तथाहुः परेऽपि-ते समाधावुपसर्गाः - इति । न चानुपयोगात्तदभाव इति भावनीयम्।
स्यादेतत्, परीषहादिप्रियता तपोधनानां कर्मक्षयाय, कर्म च शुभाशुभोभयविधमित्येष वानराङ्गरक्षकविहितमक्षिकानृपोभयविघातन्यायापात इति चेत् ? न, यतः
दुक्खं खवेति जुत्तप्पा पावं मीसे वि बंधणे। जधा मीसे वि गाहम्मि विसपुष्फाण छड्डणं।।९-२०।।
दुःखम्- नारकादियातनारूपं कष्टम्, क्षपयति-असम्भवदुत्थानतया पराकरोति, युक्तः - तपोयोगानुस्युत आत्मा यस्य स
१. तत्त्वार्थभाष्ये ।।१०-७।। २. मानसोल्लासे ।।१०-८।। ३. वस्तु - पूर्वान्तर्गताध्ययनस्थानीयग्रन्थविशेषः - नन्दीसूत्रवृत्ती ।
१. गुरुतत्त्वविनिश्चये ।।४-८ ।। वृत्तावुद्धरणम् । २. त्रिषष्टिशलाकापुरुषचरिते। ३. पातञ्जलयोगसूत्रे ।।

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141