________________
Re-ऋषिभाषितानि - युक्तात्मा, कथमित्याह- यतः पापम्- दुःखनिबन्धनमशुभं कर्म क्षपयति। ततश्च नाकारणं भवेत् कार्यमितिनीत्या दुःखानुत्थानम्। मिश्रेऽपि शुभाशुभोभयलक्षणेऽपि बन्धने - कर्मात्मके विद्यमाने सति।
अत्रैवार्थे निदर्शनमाह- यथा मिश्रेऽपि ग्राहे - मालिकादिनानाभोगादिना कृते विषकुसुममिश्रितसुमनःसङ्ग्रहे सति विषपुष्पानां छर्दनम् - त्यागो विधीयते, इति न किञ्चिदनुपपन्नम्।
न चैवं पुण्यक्षयासम्भवान्मुक्त्यनुपपत्तिरिति वाच्यम्, दशाविशेषापेक्षत्वात्। समुद्घातादौ पुण्यस्यापि क्षपणगोचरीकरणादिति। तस्मात् पापप्रतिघातेऽभियोगो विधेय एवेत्युपदेष्टि
सम्मत्तं च दयं चेव सम्ममासज्ज दुल्लहं।। ण प्पमाएज्ज मेधावी, मम्मगाहं जहारिओ।।९-२१।।
सम्यक्त्वम् - मिथ्यात्वमोहोपशमाद्याविभूतात्मपरिणामविशेषः, सम्यग्दर्शनमित्यर्थः, एतेन सज्ज्ञानग्रहः, सहभावित्वात्। तच्च दया - पृथिव्याद्यारम्भवर्जनव्यक्तीभवंश्चारित्रमोहक्षयोपशमाविर्भूत आत्मपरिणामविशेषः, चारित्रमित्यर्थः, ताम्, चैव समुच्चये, तदर्थश्च योजित एव। सम्यगासाद्य - परमार्थतः प्रतिपद्य, कीदृशमित्याह दुर्लभम्, मनुष्यत्वादिलब्धीनामुत्तरोत्तरदुष्प्राप्यत्वात्, तथा चागमः - दुल्लभे खलु माणुसे भवे चिरकालेण वि सव्वपाणिणं। गाढा य विवाग कम्मुणो समयं गोयम ! मा पमायए।। लभ्रूण वि माणुसत्तणं आयरियत्तं पुणरावि दुल्लहं। बहवे
९८
आर्षोपनिषद् - दसुया मिलक्खुया समयं गोयम ! मा पमायए।। लभ्रूण वि आयरियत्तणं अहीणपंचिदियता हु दुल्लहा। विगलिंदियता हु दीसई समयं गोयम ! मा पमायए।। अहीणपंचेदियत्तं पि से लभे उत्तमधम्मसुई हु दुल्लहा। कुतित्थिनिसेवए जणे समयं गोयम ! मा पमायए।। लभ्रूण पि उत्तमं सुई सद्दहणा पुणरावि दुल्लहा। मिच्छत्तनिसेवए जणे, समयं गोयम ! मा पमायए।। धम्म पि हु सद्दहतया दुल्लभया काएण फासया इह कामगुणेसु मुच्छिया समयं गोयम ! मा पमायए - इति ।
यत एवं तस्मात् न प्रमाद्येत - प्रतिपन्नगुणस्थानस्थैर्योत्तरगुणाभिलाषादिविधौ नैव प्रमादं कुर्यात्, मेधावी - भवसयसहस्सदुलहे जाइजरामरणसागरुत्तारे। जिणवयणमि गुणायर ! खणमवि मा काहिसि पमायं - इत्यादिप्रवचनपरिपूतप्रेक्षासम्पन्नः।
अप्रमादातिशये निदर्शनमाह- यथाऽरिकः-शत्रुः, स्वार्थे कः, युध्यमानः सन् कथञ्चित् प्रतिपक्षस्य मर्मग्राहम् - मर्मणामेवातिदुःसहं दुर्मोक्षं च ग्रहणं यथा स्यात्तथा गृहीत्वाऽऽसन्नविजयतया नैव प्रमाद्यति, अन्यथा जयेतरव्यत्ययापत्तेः। एवं सम्यक्त्वादेरपि मोहरिपोर्मर्मग्राहनिभतया तत्क्षयमभिवाञ्छता तदासाद्य नैवेषदपि प्रमत्तेन भाव्यमित्याशयः। अप्रमादफलमाह
णेह-वत्तिक्खए दीवो जहा चयति संतति। आयाणबंधरोहम्मि तहऽप्पा भवसंतई।।९-२२।। यथा स्नेहः-तैलम्, वर्तिः - 'वाट' - इति लोकप्रसिद्ध
१. उत्तराध्ययने ।।१०/४, १६-२०।। २. उपदेशमालायाम् । १२३ ।।