________________
Re-ऋषिभाषितानि - दीपकाङ्गम्, तयोः क्षये - निःशेषतया दीपक उपयुक्ततया समाप्तभावे सति दीपकः सन्ततिम् - प्रतिक्षणमपरापरस्नेहपुद्गलनिर्मितापरापरज्योतिषां परम्परां त्यजति, स्नेहादिक्षये तन्निर्वाणनियमात्, तथाऽऽत्मा - जीवोऽपि, आदीयन्तेऽनेन जातिमरणानीत्यादानम् - कर्म, कम्मं च जाइमरणस्स मूलं - इत्यागमा । तस्य बन्धः-क्षीरनीरवज्जीवप्रदेशैरात्मीकरणम्, तस्य रोधः - निरुद्धभावः, कर्मबन्धविच्छेद इत्यर्थः, तस्मिन् सति भवसन्ततिम् - जन्मपरम्पराम्, त्यजतीत्यनुवर्तते। बन्धनिरोध इषद्मस्वाक्षरपञ्चकोद्गीरणमात्रतुल्यकालीयां शैलेष्यवस्थायां सत्तागताशेषकर्मक्षपणेनात्मनः सिद्धिसौधसमध्यासीनताभावेन भवसन्ततित्यागात्।
एतेन - दीपो यथा निवृत्तिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम्। दिशं न काञ्चिद्विदिशं न काञ्चित्, स्नेहक्षयात् केवलमेति शान्तिम्।। जीवस्तथा निवृत्तिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम्। दिशं न काञ्चिद् विदिशं न काञ्चित् स्नेहक्षयात् केवलमेति शान्तिम् - इति दीपकोदाहरणेनात्मसन्तत्युच्छेदसमर्थनस्यात्रावतारो निरुद्धः। भवसन्तत्या एव त्यागाभिधायकत्वेनैतस्यात्मसन्ततिविच्छेदपरत्वासम्भवात्। अत्र निदर्शनमाह
दोसादाणे णिरुद्धम्मि सम्मं सत्थाणुसारिणा। पुवाउत्ते य विज्जाए खयं वाही णियच्छती।।९-२३।।
दूषयति शरीरं पित्तादिप्रकोपापादनेनेति दोषः - अपथ्या१. उत्तराध्ययने । ।३२-७।। २. सौदरनन्दे ।।१६-२८/२९ ।।
- आर्षोपनिषद् - हारादि, तदादानम् - रोगिकृततद्ग्रहणम्, तस्मिन् निरुद्धे रोगस्थितिपरिपाकादिहेतुना प्रतिबद्धे सति, सम्यक् काले मात्रया पथ्याहारौषधसेवनं यथा स्यात्तथा, शास्त्रानुसारिणा - चिकित्साग्रन्थाभिहितेन विधिना, पूर्वम् - तादृशविधिप्रयोगादक्तिनकाले,
आयुक्ते - अज्ञानादिनाऽपथ्यसेवनजनित आसमन्ताद्वयाप्ते दोषविकारे, विध्याते - पथ्यसेवनादिना विलयमुपगते, व्याधिः - रोगविशेषः, क्षयं नियच्छति-निःशेषतया निवर्तते।
नन्वस्त्वपथ्यसेवनं माऽस्तु व्याधिरित्येतन्निदर्शन एवास्माकमप्रतिपत्तिरित्यदृष्टान्त एष, प्रतिबन्धप्रतिपत्तेरास्पदं दृष्टान्त - इति तल्लक्षणविरहात्, अत एव दुर्नय उपनय इति चेत् ? न, तस्य व्याधिजनकत्वनियमात्, व्यभिचारपदापन्ने तु पुरुषाद्यपेक्षयाऽपथ्यत्वमेव नेति सुव्यवस्थितो नियमः। एतदेव दीपकालङ्कारेणाह
मज्जं दोसा, विसं वण्ही, गहावेसो अणं अरी। धणं धम्मं च जीवाणं, विण्णेयं धुवमेव तं।।९-२४।।
मद्यम्, दोषा:-अपथ्यसेवनादिलक्षणाः, विषम्, वह्निः , ग्रहावेशो भूतादिकृतः, ऋणम्, अरिः - रिपुः, धनम्, धर्मश्च पुण्यजनकानुष्ठानम्। तत् - अनन्तरोक्तं सर्वमपि जीवानां ध्रुवमेव - नियमात् स्वजन्यफलापादकं विज्ञेयम् - अवगन्तव्यम्। १. रोगस्थित्यनुसारेण प्रवृत्ती रोगिणो यथेतिनीत्या । २. प्रमाणनयतत्त्वालोके ।।३-४३ ।। अत्रानुमानप्रयोगः स्वयमूह्यः । ३. येन धर्मविशेषसादृश्येन प्रस्तुताप्रस्तुतानेकविषयवर्णना क्रियते स दीपकालङ्कारः। दृश्यतामस्मत्कृतं छन्दोऽलङ्कारनिरूपणम्। ४. न च लिङ्गव्यवत्ययः, प्राकृते धर्मपदस्योभयलिङ्गत्वात् ।