Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 44
________________ ऋषिभाषितानि वायुसमूहवत् तन्निन्दा प्रशंसा वा गच्छति, असद्भूतत्वेन निःसारतयाऽत्यन्तं लाघवमुपगतत्वेन तद्वदसौ दिक्षु निर्याति नश्यति चेति भावः । यद्वा जाल इतीक्षुपर्यायो देश्यः शब्दः, ततः पदैकदेशे पदसमुदायोपचारात् सा निन्दा प्रशंसा वेक्षुपुष्पसङ्घातवद्वैफल्यं गच्छतीत्यर्थः । यद्वा 'जल घातने' इति धातुपाठानुसारेण वायुघातवत् - वायौ प्रहारायासवद्वैफल्यं गच्छतीत्यर्थः । तस्मात् ४३ जं च बाला पसंसंति, जं वा णिंदंति कोविदा । शिंदा वा सा पसंसा वा पप्पाति कुरुए जगे ।।४-२० ।। यच्च बालाः- अज्ञाः प्रशंसन्ति, यद्वा निन्दन्ति कोविदाःगूढहृदयाः, को वेत्त्यभिप्रायमस्येति तन्निरुक्तेः । उभयमपीदमसद्भूतम्, एकेषामज्ञानोपहतत्वादन्येषां रागादिसङ्क्लिष्टत्वाच्च । नात्र किञ्चिदपि चित्रम्, यतो निन्दा वा सा प्रशंसा वा प्राप्यत एव कुरुके ै मायाबहुलत्वेन तदात्मके जगति, नात्र किञ्चनाप्राप्तपूर्वमिति कृतं शोकेनालं च हर्षेणेत्यभिप्रायः । शुभाशुभफलाप्त्या हि हर्षशोकौ दृश्येते, अत्र तु तयोरभाव एवेत्याप्रेडितमपि प्रकारान्तरेणाह जो जत्थ विज्जती भावो, जो वा जत्थ ण विज्जती । सो सभावेण सव्वो वि लोकम्मि तु पवत्तती । । ४ - २१ । । १. पाइयसद्दमहण्णवे ।। पृ. ७५५ ।। २. अभिधानचिन्तामणिस्वोपज्ञवृत्ती । । ३-५ ।। * क पप्पीवि, ख पंपाति, ग- पप्पाति, घ-च-झ-पप्पा ति छ पप्पाति (प्राप्यते) ३. मायापर्यायो देश्यः कुरुय शब्दः तत एतद्रूपनिष्पत्तिरिति ज्ञेयम् । ४. प्रतिपाद्यानुरोधेन आ प्रतिपत्तिं प्रतिपादनस्यादुष्टत्वात् । आर्षोपनिषद् यो यत्र विद्यते भाव:, यो वा यत्र न विद्यते सः विद्यमानतेतरताबुद्धिविषयो भाव एव, स्वभावेन सर्वोऽपि लोके तु प्रवर्तते। अत्र प्रवृत्तौ परापेक्षापरिहारार्थं स्वभावेनेत्युक्तम्। देशापेक्षाप्रत्ययनिरासाय निःशेषपदार्थसार्थसङ्ग्रहार्थं च सर्व इत्युक्तम्। एवमात्मनोऽपि स्वत एव स्वकृतकर्मानुरोधेन प्रवृत्तिः, न त्वज्ञादिकृतप्रशंसादिप्रयोज्या सेत्याशयः । स्वरूपस्थितिमेव निदर्शनेन निगदति ४४ विसं वा अमतं वा वि सभावेण उवट्टितं । चंद-सूरा मणी जोती तमो अग्गी दिवं खिती । । ।।४-२२।। विषं वाऽमृतं वाऽपि स्वभावेनोपस्थितम्, चन्द्र-सूर्यौ मणिर्ज्योतिस्तमोऽग्निद्यः क्षितिः । सर्वमप्येतत् स्वस्थितौ नान्यानपेक्षते। अन्यत्रेश्वरादित्यध्याहार्यमिति चेत् ? निरस्तैषामीश्वरकर्तृकताऽन्यत्रेति नात्र प्रतन्यते । एवं मदात्मनोऽपि स्वत एव स्थितिः, न परोदितजन्यविशेषाधिकरणं सेत्युपनयतिवदतु जणे जं से इच्छियं, किं णु कलेमि उदिण्णमप्पणो । भावित मम णत्थि एलिसे, इति संखाए ण संजलामऽहं ।। ।।४-२३।। वदतु जनो यत्तस्येच्छितम् - मत्स्तुत्यादिप्रवृत्तस्य विवक्षितम्, किं नु कलयामि- जानामि, उदीर्णम्- तद्वचनोच्चार १. दृश्यन्तां लोकतत्त्वनिर्णय - शास्त्रवार्तासमुच्चय वीतरागस्तोत्र - सन्मतिप्रकरण - स्याद्वादरत्नाकरप्रभृतिग्रन्थाः २ क-ख-ज-ट-ठ-ढ-ण-ध-ध-फ- कालेमि ग का (क) लेमि घ-च-झ-त-न- कलेमि छ कलेमि-करोमि ।

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141