Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 53
________________ ऋषिभाषितानि ६१ दैवम्, प्रदीर्घभवभ्रान्तिलक्षणभवितव्यतामित्यर्थः । अनुवर्तमान इति शेषः, भवितव्यताया अलङ्घ्यत्वात्। नन्विदमनुपपन्नतरं यन्निबद्धस्य विहरणमिति चेत् ? न, पराधीनत्वेन यथेच्छविहारविरहात्, एतदेवाह सुत्तमेत्तगतिं चेव गंतुकामे वि से जहा । एवं लद्धा वि सम्मग्गं सभावाओ अकोविते ।। ६-६ ।। सूत्रम् - प्रागुक्तं दृढशुम्बम्, तन्मात्रानधिकगतिर्यस्यासौ सूत्रमात्रगतिः, चैव अवधारणे, अन्यथा तन्निबद्धत्वस्यैवानुपपत्तिरिति भावः। कदाचित्तन्निरोधोद्विग्नतया गन्तुकामोऽपि तन्मात्राधिक सञ्जातस्पृहाविशेषोऽपि स यथा, इतरस्तु महामोहाधीनतया बन्धनप्रियः सुतरां तन्मात्रगतिरित्यपिशब्दार्थः । उपनयमाह एवं लब्ध्वाऽपि अधिगम्यापि सन्मार्गम् जिनप्रवचनपीयूषम्, स्वभावात् प्रदीर्घभवसद्भावमालिन्यातिशयगुरुकर्मताजनितप्रकृतेः, अकोविदः - आत्मीयकल्याणेतरविवेकानभिज्ञः । यद्वा स्वभावाच्च ज्ञानगर्भवैराग्यलक्षणाच्च कोपितः - प्रच्यावितः स्त्र्यादिगृद्धिविकारं प्रापित इत्यर्थः । ततश्च कदाचित् सार्वोपदेशसुधाप्राप्तावपि नास्य गृद्धिविषविकारविमुक्तिः, ब्रह्मदत्तचक्रिवत्, यथोदितम् नागो जहा पंकजलावसन्नो, दट्टु थलं नाभिसमेइ तीरं । एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुव्यामो इति'। तदेषा नारीगणप्रसक्तजीववक्तव्यता। साम्प्रतं तदितरं वर्णयति १. उत्तराध्ययने । ।१३-३०।। - -- - - ६२ जं तु परं णवएहिं, अंबरे वा विहंगमे । दढसुत्तणिबद्धे त्ति० सिलोको ।। ६-७ ।। यत् - वक्ष्यमाणनिर्देशे, तुः पक्षान्तरद्योतकः, नवकाभ्याम्अष्टादशविधब्रह्मचर्येण यथाभिहितम् दुनवविहं बंभचेरपरिसुद्धं - इति । दुवयणे बहुवयणम् - इत्यनुशासनाद् बहुवचनम्। अष्टादशविधता च ब्रह्मचर्यस्यैवम् दिव्यात् कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम्। औदारिकादपि तथा तद् ब्रह्माष्टादशविकल्पम् इति । तदेवंविधेन सर्वप्रकारशुद्धेन ब्रह्मचर्येण, परम् - उत्कृष्टं ब्रह्मचर्यसमाधिपदमभिसम्प्राप्तः, अत एव सर्वत्र निष्कामतया प्रतिबन्धनिर्मुक्तः । अत्रार्थ उपमामाह अम्बरे - आकाशे, विहङ्गम इव पक्षीव, तद्वन्निस्सङ्गतया विहरणशील इत्याशयः । तमेव विशेषयति- दृढसूत्रनिबद्धःअहीवेगंतदिट्ठीए - इत्याद्यनुसारेणात्यन्तं जिनाज्ञाप्रतिबद्धः, इति श्लोकः, पञ्चमवृत्तानुसारेणात्रापि ज्ञातव्यमित्ययं निर्देशः सम्भाव्यते, ततो विहरेद् बलवन्तं विधिम् सर्वत्र विहितक्रियामेव मुख्यभावमर्पयन् संयमचर्यामनुपालयेदित्यर्थः । तन्मुख्यता च तत्पक्षपातयोगात्, यथोदितम् - विहिसारं चिय सेवइ सद्धालू सत्तिमं अणुट्ठाणं । दव्वाइदोसनिहओ वि पक्खवायं वहइ तम्मि।। नीरुओ भोज्जरसन्नू कंवि अवत्थं गओ असुहमन्नं । भुंजंतंमि रज्जइ सुहभोयणलालसो धणियं । । इय सुद्धचरणरसिओ १. ठ-थ-ट-ज-ख- गवाएहिं क-प-ढ-ण-फ-ध-न- गवाहिए। ग.घ.च. छ. झ.त णवएहिं २. फ-ध-न-प-क-ढ-ण णिबद्धे ति ख-ज-ठ-थ-ट- णिबद्धे तु झ-त- णिबद्धे त्ति । ३. पाक्षिकसूत्रे ४. प्रशमरती । । १७७ ।। - आर्षोपनिषद् - - -

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141