Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 54
________________ Re-ऋषिभाषितानि - सेवंतो दवओ विरुद्धंपि। सद्धागुणेण एसो न भावचरणं अइक्कमइ - इति । इत्थं च णाणावग्गहसंबंधे धितिमं पणिहितिदिए। सुत्तमेत्तर्गती चेव तधा साधू णिरंगणे।।६-८।। नानावग्रहाः - मनआदिगुप्तिलक्षणाः, ज्ञानावग्रहो वा, तेनाविष्वग्भावलक्षणः सम्बन्धो यस्यासौ नानावग्रहसम्बन्धः, रत्नत्रयान्वयितालक्षणात्मपरिणाम इत्यर्थः। तथा धृतिः - व्यसनाशनिसन्निपातेऽप्यविचलितप्रकृतिभावः, तद्वान्। तमेव विशेषयति प्रणिहितानि इन्द्रियाणि यस्यासौ प्रणिहितेन्द्रियः - मनोज्ञामनोज्ञविषयेषु रागद्वेषविरहितचित्तवृत्तिविभूषितः, तथा च पारमर्षम्सद्देसु य रूवेसु य गंधेसु रसेसु तह फासेसु। न वि रज्जइ न वि दुस्सइ, एसा खलु इंदियप्पणिही ।। शेषगुणसन्निपातमतिदेष्टि - सूत्रमात्रगतिः सर्वत्र विहितक्रियागतावितथभावसम्पन्नः। मूकत्वेनास्य गतिप्रयोजकभावासम्भव इति चेत् ? न, सूत्रग्रहणेनार्थसङ्ग्रहणात्, कथञ्चित्तदभिन्नत्वात्। अत एवोक्तम् - सुत्तस्स मग्गेण चरिज भिक्खू, सुत्तस्स अत्थो जह आणवेइ - इति । चैव - अवधारणे। मात्रग्रहणेनैवोक्तत्वात्पुनरुक्तमिति चेत् ? न, तेनान्ययोगव्यवच्छेदः, अनेन त्वत्यन्तायोगव्यवच्छेद इति विशेषात्। तथा- उक्तप्रकारेण साधुः - कृत्स्नकर्मक्षयात्मकसिद्धिसाधकः, १. धर्मरत्ने।।९१-९३ ।। २. प-क-ख-ण-ट-फ-ठ-ध-न- णाणापग्गह । त- णाणप्पग्गह । च- णाणा-पग्गह। ह-थ- णाणापयह। ज- णाणावग्गह। ३. झ-त-च- गती। पगी। क-ह-ण-फ-ठ-ध-न- गतिं । ट- गति। ४. दशवैकालिकनियुक्तौ ।।२९५ ।। ५. दशवकालिके ।। चूलिका ।।२-११।। आर्षोपनिषद् - निरङ्गणः - नारीगणप्रसक्तिप्रमुखरागविकारविरहितः। तथाभिधानं साभिप्रायम्, यथा प्रसक्तस्तथोपरतो द्वावपि सूत्रमात्रगती, किन्तु तदर्थभेदप्रयुक्तफलभेदभाजाविति। उपरतिफलं त्वादावेवोदितं त्रैलोक्यवशीकारलक्षणम्, इतरमाह सच्छंदगतिपयारा जीवा संसारसागरे। कम्मसंताणसंबद्धा हिंडंति विविहं भवं।।६-९।। स्वच्छन्दा - निजमतिसमर्पितमुख्यभावतयावगणितप्रवचनोपदेशा गतिः षट्कायारम्भप्रयोजिका या काचित् क्रिया, प्रचारश्च - इन्द्रियाणामुच्छृखलतया विषयप्रवृत्तिः, येषां ते स्वच्छन्दगतिप्रचाराः, जीवाः संसारसागरे, कर्मसन्तानः सङ्क्लेशातिशयानुभावेन सानुबन्धा कर्मपरम्परा, तेन - सुतरां बद्धाः सम्बद्धाः। किल द्विर्बद्धमपि सुबद्धं भवति, किं पुनः सानुबन्धतया यावदनन्तशो बद्धमिति हृदयम्। हिण्डन्ते - परिवर्तन्ते, विविधम् - जन्ममरणाद्यावर्त - क्रोधादिनक्रचक्र - विषयतृष्णावाडवाग्न्याद्यवच्छेदेनानेकप्रकारं भवम् - संसारम्। संसारसागर इत्यनेनैव गतार्थमिदमिति चेत् ? न, अभिप्रायापरिज्ञानात्, तत्र जीवाधिकरणमुक्तमत्र तु हिण्डनफलम्। तथाऽत्र जीवा हिण्डन्ते, यथा संसार एव तक्रियाफलम्, ततस्तद्वृद्धिभावादित्याशयः। पुनरप्येतादृशदुःखहेतूपदर्शनेन तद्विरागमापादयति इत्थीऽणुगिद्धे वसए अप्पणो य अबंधवे। जतो विवज्जती पुरिसे तत्तो वि जुधिरे जणे।

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141