Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 64
________________ ८४ - Re-ऋषिभाषितानि - - ८३ ननु पापं तु तथाभूतमनुमन्यामहे, तद्धेयत्वेऽविगानात्, पुण्यं तु सर्वतन्त्रसिद्धान्तेनोपादेयमिति कथमस्य तत्त्वम् ? अथ च तत्त्वं कथमुपादेयतेति चेत् ? अत्रोच्यते, काञ्चननिगडोपमत्वात् पुण्यस्य मुक्तिबाधकतैव, उक्तं च - शुद्धा योगा रे यदपि यदात्मनां स्रवन्ति शुभकर्माणि। काञ्चननिगडाँस्तानपि जानीयाद्धतनिर्वृत्तिशर्माणि - इति । तथाप्युपादेयता न सामान्यतः, किन्तु पुण्यानुबन्धविशिष्टस्यैव, पारम्पर्येण तस्यैवोभयक्षयावहतया मुक्तिबीजत्वात्, परम्परकारणानभ्युपगमे त्वा शैलेष्यास्तत्प्रसङ्ग इति निपुणं निभालनीयम्। अत एवाहुराचार्याः - शुभानुबन्ध्यतः पुण्यं कर्तव्यं सर्वदा नरैः। यत्प्रभावादपातिन्यो जायन्ते सर्वसम्पदः - इति। चक्रवर्त्यादिसम्पत्सम्पादनपुरस्सरमस्य सिद्धिसम्पत्सम्पादकत्वात्, अतस्तदुपादेयताऽप्युभयविलयायेति मुख्यप्रयोजनमेवाह- पुण्यपापनिरोधाय शुभाशुभकर्मक्षयाय, मुमुक्षूणां तत्रैव प्रयोजनभावात्, प्राहुश्च - पुण्यापुण्यक्षयान्मुक्तिरिति शास्त्रव्यवस्थितेः । सम्यक् - आगमोदितनीत्या, अन्यथा सम्यक्त्वासम्भवात्, सम्परिव्रजेत् - वीतरागसंयमबद्धलक्ष्यतया परिव्रज्यामनुपालयेत्। भवसन्ततिहेतुतामेव स्पष्टयति पुण्ण-पावस्स आयाणे परिभोगे यावि देहिणं। संतई भोगपाउग्गं पुण्णं पावं सयं कडं।।९-६।। पुण्यपापयोः, वचनव्यत्ययः प्राकृतत्वात्, आदाने स्वाव१. मुक्तिप्रतिबन्धकत्वम् । २. शान्तसुधारसे ।।७-७।। ३. अप्टकप्रकरणे । ।२४-५ ।। ४. अष्टकप्रकरणे।।७-३|| आर्षोपनिषद् - गाहनावगाढकार्मणपुद्गलानामात्मनि कर्मतया परिणमने, परिभोगे चापि - तद्विपाकवेदने चापि, देहिनां - जीवानां सन्ततिःभवपरम्परा, कर्मबन्धोदयानामेवान्योऽन्यप्रयोजकानां संसरणबीजत्वात्। यतः स्वयं कृतं पुण्यं पापं च भोगप्रायोग्यम्, आत्मन एव परिभोगविषयम्। स च स्वरूपयोग्यतया कदाचिनिष्फलमपि स्यादित्यारेकानिरासाय प्रायोग्यमित्युक्तम्, अवश्यं फलावहमिति भावः, कडाण कम्माण न मोक्खु अत्थि - इत्यागमात् । किं तर्हि कर्तव्यमित्याह संवरो निज्जरा चेव पुण्ण-पावविणासणं। संवरं निज्जरं चेव सव्वहा सम्ममायरे।।९-७।। संवरः - जीवद्रोण्यामाश्रवत्कर्मजलानामिन्द्रियछिद्राणां समित्यादिना निरोधनम्, यद्वाऽसौ द्रव्यभावाभ्यां द्विविधः, द्रव्यसंवरः कर्मपुद्गलादानोच्छेदलक्षणः, भावसंवरः भवहेतुक्रियात्यागरूपः । निर्जरा च, साऽपि द्विविधा, द्रव्यनिर्जरा - कर्मणां शाटः, भावनिर्जरा- कर्मनिर्जरणप्रयोजकात्मपरिणामः । एतद्युगलमेव पुण्यपापविनाशनम्, नवादाननिरोध - प्राक्तननिर्गमाभ्यामेव मलशुद्धिरित्यस्य लोकेऽपि सिद्धत्वात्। तस्मात् संवरं निर्जरां चैव, एतेनाश्रवव्यवच्छेदः। सर्वथा - संयमादिसामग्र्येण, यथोक्तम् - येन येन ह्युपायेन रुध्यते यो य आश्रवः। तस्य तस्य निरोधाय स स योज्यो मनीषिभिः।। क्षमया मृदुभावेन ऋजुत्वेनाप्यनीहया। क्रोधं मानं तथा मायां लोभं १. उत्तराध्ययने ।।१३-१०।। २. योगशास्त्रे ||४-८०॥ ३. अध्यात्मसारे ।।१८-१५६।।

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141