Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 67
________________ ८९ Re-ऋषिभाषितानि - तथैवानुपक्रान्तं सर्वमपि कर्म वेद्येत तदा मुक्तिगमनं कस्यापि न स्यात्, तद्भवसिद्धिकानामपि नियमेन सत्तायामन्तःसागरोपमकोटिकोटिस्थितिकस्य कर्मणः सद्भावादित्यालोचनीयम्। अत्राह- ननु यद्यप्राप्तकालमपि बहुकालवेद्यं कर्मेत्थमुपक्रम्यते, इदानीमपि क्षिप्रमेव वेद्यते, तीकृतागमकृतनाशी मोक्षानाश्वासादयो दोषाः प्राप्ताः। तथाहि - यदीदानीमेवोपक्रमकृताल्पस्थित्यादिरूपं कर्म वेद्यते तत्पूर्वमकृतमेवोपगतमित्यकृताभ्यागमः। यत्तु पूर्वं दीर्घस्थित्यादिरूपतया कृतं बद्धं तस्यापवर्तनाकरणेनोपक्रमेण नाशितत्वात् कृतनाशः, ततो मोक्षेऽप्येवमनाश्वासः, सिद्धानामप्येवमकृतकर्माभ्यागमेन प्रतिपातप्रसङ्गाच्चेति। ___अत्रोच्यते - दीर्घकालिकस्यापि कर्मणो दीर्घस्थित्यादिरूपतया बद्धस्याप्युपक्रमेण न नाशः क्रियते, अपि तु शीघ्रमेव सर्वस्यापि तस्याध्यवसायविशेषादनुभवः क्रियते। यदि हि तद् बहुकाले वेद्यं कर्मावेदितमेव नश्येद्यथाल्पस्थित्यादिविशिष्टं वेद्यते तत्ततोऽन्यदेव भवेत्, तदा कृतनाशाकृताभ्यागमौ भवेताम्। यदा तु तदेव दीर्घकालवेद्यमध्यवसायविशेषादुपक्रम्य स्वल्पेनैव कालेन वेद्यते तदा कुतः कृतनाशादिदोषावकाशः ? यथाहि बहुकालभोगयोग्यस्याहारस्य धान्यमूषकदस्युकादेरग्निरोगिणो भस्मकवातव्याधिमतो स्वल्पकालेनैव भोगो भवति, न च तत्र कृतनाशः, नाप्यकृताभ्यागम इति, एवमिहापि भावनीयम्। ननु यद् बद्धं तद्यदि स्वल्पकालेनैव सर्वमपि वेद्यते तर्हि आर्षोपनिषद् - प्रसन्नचन्द्रादिभिः सप्तमनरकपृथ्वीप्रायोग्यमसातवेदनीयादिकं कर्म बद्धं श्रूयते, तद्यदि सर्वमपि तैर्वेदितम्, तर्हि सप्तमनरकपृथ्वीसम्भविदुःखोदयप्रसङ्गः, अथ न सर्वमपि वेदितम्, तर्हि कथं न कृतनाशादिदोषा इति चेत् ? न, द्विविधं हि कर्मेत्यादिपूर्वोक्तेन चोद्यानवकाशात्। प्रदेशापेक्षयैव तस्य सर्वस्यापि शीघ्रमनुभवनमुच्यते, अनुभागवेदनं तु न भवत्यपीति भावः। तथा चार्षम्- सव्वं च पएसतया भुज्जइ कम्ममणुभावओ भइयं। तेणावस्साणुभवे के कयनासादयो तस्स - इति । तदेषोपक्रमवक्तव्यता, सामान्यतस्त्वाह संततं बंधए कम्म, निज्जरेइ य संततं। संसारगोयरो जीवो, विसेसो उ तवो मओ।।९-१३।। सन्ततम्- निरन्तरम्, बधाति कर्म - जं जं समये जीवो इत्याधुक्तेः, निर्जरयति च, कर्मैव, सन्ततम्, देशकर्ममोचनायाः प्रायशः सर्वेषामेवासुमतां प्रतिक्षणमुपजायमानत्वात् । प्रायशश्च मुक्तजीव-व्यवच्छेदार्थमित्याह - संसारः - जन्मान्तरे संसरणम्, स गोचरः विषयो यस्यासौ संसारगोचरो जीवः - सशरीर आत्मा। विशेषस्तु, सन्ततबन्धनिर्जरापेक्षया, तपो मतः - अन्तर्मुहूर्तमात्रेणाशेषकर्मक्षयसामर्थ्यसमन्विततयाऽभिमतः, तीर्थकरगणधरादीनामिति शेषः। ननु बन्धनिर्जरामात्रसक्रियेणालं कर्मणा चिन्तितेनेति चेत् ? न, अचिन्त्यकार्यसम्पादनवीर्ययुक्तत्वादित्याह१. विशेषावश्यकभाष्ये ।।२०४९ ।। २. उपदेशमालायाम् ।।२४ ।। ३. सूत्रकृताङ्गवृत्तौ । पृ.२३६ ।।

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141