________________
Re-ऋषिभाषितानि - सेवंतो दवओ विरुद्धंपि। सद्धागुणेण एसो न भावचरणं अइक्कमइ - इति । इत्थं च
णाणावग्गहसंबंधे धितिमं पणिहितिदिए। सुत्तमेत्तर्गती चेव तधा साधू णिरंगणे।।६-८।।
नानावग्रहाः - मनआदिगुप्तिलक्षणाः, ज्ञानावग्रहो वा, तेनाविष्वग्भावलक्षणः सम्बन्धो यस्यासौ नानावग्रहसम्बन्धः, रत्नत्रयान्वयितालक्षणात्मपरिणाम इत्यर्थः। तथा धृतिः - व्यसनाशनिसन्निपातेऽप्यविचलितप्रकृतिभावः, तद्वान्। तमेव विशेषयति प्रणिहितानि इन्द्रियाणि यस्यासौ प्रणिहितेन्द्रियः - मनोज्ञामनोज्ञविषयेषु रागद्वेषविरहितचित्तवृत्तिविभूषितः, तथा च पारमर्षम्सद्देसु य रूवेसु य गंधेसु रसेसु तह फासेसु। न वि रज्जइ न वि दुस्सइ, एसा खलु इंदियप्पणिही ।। शेषगुणसन्निपातमतिदेष्टि -
सूत्रमात्रगतिः सर्वत्र विहितक्रियागतावितथभावसम्पन्नः। मूकत्वेनास्य गतिप्रयोजकभावासम्भव इति चेत् ? न, सूत्रग्रहणेनार्थसङ्ग्रहणात्, कथञ्चित्तदभिन्नत्वात्। अत एवोक्तम् - सुत्तस्स मग्गेण चरिज भिक्खू, सुत्तस्स अत्थो जह आणवेइ - इति । चैव - अवधारणे। मात्रग्रहणेनैवोक्तत्वात्पुनरुक्तमिति चेत् ? न, तेनान्ययोगव्यवच्छेदः, अनेन त्वत्यन्तायोगव्यवच्छेद इति विशेषात्। तथा- उक्तप्रकारेण साधुः - कृत्स्नकर्मक्षयात्मकसिद्धिसाधकः, १. धर्मरत्ने।।९१-९३ ।। २. प-क-ख-ण-ट-फ-ठ-ध-न- णाणापग्गह । त- णाणप्पग्गह । च- णाणा-पग्गह। ह-थ- णाणापयह। ज- णाणावग्गह। ३. झ-त-च- गती। पगी। क-ह-ण-फ-ठ-ध-न- गतिं । ट- गति। ४. दशवैकालिकनियुक्तौ ।।२९५ ।। ५. दशवकालिके ।। चूलिका ।।२-११।।
आर्षोपनिषद् - निरङ्गणः - नारीगणप्रसक्तिप्रमुखरागविकारविरहितः।
तथाभिधानं साभिप्रायम्, यथा प्रसक्तस्तथोपरतो द्वावपि सूत्रमात्रगती, किन्तु तदर्थभेदप्रयुक्तफलभेदभाजाविति। उपरतिफलं त्वादावेवोदितं त्रैलोक्यवशीकारलक्षणम्, इतरमाह
सच्छंदगतिपयारा जीवा संसारसागरे। कम्मसंताणसंबद्धा हिंडंति विविहं भवं।।६-९।।
स्वच्छन्दा - निजमतिसमर्पितमुख्यभावतयावगणितप्रवचनोपदेशा गतिः षट्कायारम्भप्रयोजिका या काचित् क्रिया, प्रचारश्च - इन्द्रियाणामुच्छृखलतया विषयप्रवृत्तिः, येषां ते स्वच्छन्दगतिप्रचाराः, जीवाः संसारसागरे, कर्मसन्तानः सङ्क्लेशातिशयानुभावेन सानुबन्धा कर्मपरम्परा, तेन - सुतरां बद्धाः सम्बद्धाः। किल द्विर्बद्धमपि सुबद्धं भवति, किं पुनः सानुबन्धतया यावदनन्तशो बद्धमिति हृदयम्। हिण्डन्ते - परिवर्तन्ते, विविधम् - जन्ममरणाद्यावर्त - क्रोधादिनक्रचक्र - विषयतृष्णावाडवाग्न्याद्यवच्छेदेनानेकप्रकारं भवम् - संसारम्। संसारसागर इत्यनेनैव गतार्थमिदमिति चेत् ? न, अभिप्रायापरिज्ञानात्, तत्र जीवाधिकरणमुक्तमत्र तु हिण्डनफलम्। तथाऽत्र जीवा हिण्डन्ते, यथा संसार एव तक्रियाफलम्, ततस्तद्वृद्धिभावादित्याशयः। पुनरप्येतादृशदुःखहेतूपदर्शनेन तद्विरागमापादयति
इत्थीऽणुगिद्धे वसए अप्पणो य अबंधवे। जतो विवज्जती पुरिसे तत्तो वि जुधिरे जणे।