________________
न-ऋषिभाषितानि -
- ६५ मण्णती मुक्कमप्पाणं, पडिबद्धे पलायते।।६-१०।।
स्त्रियामनुगृद्धः - सततमविमुक्ततत्प्रत्यासक्तिभावः, अत एव वशकः - मोहभूपतिपारतन्त्र्यपराभूतः। अत आत्मनश्चाप्यबान्धवः - प्राग्वत् । यस्मात् विपर्येति - आत्मकल्याणाद्विपर्यासमुपैति पुरुषः-आत्मा, तस्मादपि युद्धशीलो जन इति प्राग्वत् । यद्वा यत्रापि व्रजति पुरुषः - इत्यपि सम्भाव्यते। शेषं प्राग्वत्।
विपर्यासमेव व्याचष्टे - मन्यते मुक्तमात्मानम्, प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः। प्राप्यते निर्वृतिर्येन सरागेणापि चेतसेत्यादिवचनतः स्वं तत्सदृशं कल्पयति, ततश्चाभ्यासवशात्तत्रैव स्त्यादौ प्रतिबद्धः-तदनुस्युतमानसः कल्याणनिबन्धनाद् भयमनुभूय पलायते - तत्पराङ्मुखमभिधावति, अन्वाह- मूढात्मा यत्र विश्वस्तस्ततो नान्यद् भयास्पदम्। यतो भीतस्ततो नान्यदभयं स्थानमात्मनः - इति ।
पुरुषविश्वासाद्वचनविश्वास इति पुनरपि तत्परिचयं प्रदायोपसंहरति।
वियत्ते भगवं वक्कलचीरि उग्गतवे ति।।
व्यक्तः-गीतार्थः, भगवान् - ज्ञानैश्वर्यादिसमन्वितः, प्रत्येकबुद्धानामुत्कर्षतः किञ्चिन्न्यूनदशपूर्वज्ञानस्य पूर्वभवाधीतस्य स्मृतिविषयीभवनात्, प्रत्येकबुद्धताया एवाश्चर्यावहाभिख्यारूपत्वात्त१. दृश्यताम् ।।६-२ ।। २.||६-२ ।। ३. समाधितन्त्र ।।२९।। ४. पत्तेयबुद्धाणं पुव्वाहीयं सुयं नियमा हवइ, जहण्णेणं एक्कारस अंगा, उक्कोसेणं भिन्नदसपुचीआवश्यकमलयगिरीयवृत्ताकुदरणम् । ५. पत्तेयबुद्धलाभा हवंति अच्छेरयत्भूया ।। उपदेशमाला - १८०।।
- आर्षोपनिषद् - त्सम्पत्समन्वितता स्वयमूह्याः। वल्कलचीरी उग्रतपाः - यदन्येन प्राकृतेन पुंसा न शक्यते चिन्तयितुमपि मनसा, एवंविधाप्रधृष्यतीव्रतपोयुक्तः, इति प्रस्तुताध्ययनमुक्तवान्। अत्रोपादेयभावापादनायैतत्परिणतिप्राप्यफलमाह
एवं से सिद्धे बुद्धे विरए विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि।। एवमित्यादि प्राग्वत्। इति षष्ठवल्कलचीरिनामाध्ययन आर्षोपनिषद्।
॥ अथ सप्तमाध्यायः।। अनन्तराध्याये स्त्रीगृद्धस्य दुःखमुक्तम्, अत्र तदेव विवेचयतिसव्वं दुक्खावहं दुक्खं, दुक्खं सऊसुयत्तणं। दुक्खी च दुक्करचरियं चरित्ता सव्वदुक्खं खवेति तवसा। तम्हा अदीणमणसो दुक्खी सव्वदुक्खं तितिक्खेज्जासि त्ति कुम्मापुत्तेण अरहता इसिणा बुइयं।।७-१।।
सर्वम् - पापानुबन्धानुविद्धाशेषपापोदयात्मकं दुःखं दुःखावहम् - स्वेतरदुःखाकर्षकम्। ___अत्र प्रतितिष्ठति - ननु किमेतद्दुःखं नाम ? न च शीतोष्णादिपरीषहा एव, तेष्वपि महर्षीणां परमानन्दसमुद्भवदर्शनात्। न च यत्किञ्चित् कष्टमात्रम्, तत एव। नाप्यसातोदयः, प्रदेशोदयेऽतिव्याप्तेः, तस्य सुखफलकत्वात्। नापि विपाकोदयः, महर्षिष्वतिव्याप्तेः। न च पीडासंवेदनम्, अतीन्द्रियज्ञानिष्वतिव्याप्तेः, ते ह्यपरसत्त्वपीडां स्वीयज्ञानसामर्थेन संविदन्तोऽपि न दुःखिन इति। न चाहं दुःखीति ज्ञानमेव दुःखम्, एकेन्द्रियादिष्वव्याप्तेः,