________________
-६७
Re-ऋषिभाषितानि - भ्रमेऽतिव्याप्तेश्च। न च तादृशयथार्थज्ञानं दुःखम्, उक्ताव्याप्तितादवस्थ्यादिति चेत् ?
अत्रोच्यते- दुःखं सोत्सुकत्वम्। एवं च नाव्याप्त्यादिदोषावकाशः। न चैकेन्द्रियादिष्वव्याप्त्यपरिहारः, तस्य चारित्रमोहोदयत्वेन वक्ष्यमाणत्वात्, तस्य च तेषु सिद्धत्वात्। स्वास्थ्यात्मकसुखप्रतिपक्षभूतं ह्यकालोत्सुकत्वं परमार्थत आर्तध्यानरूपतया दुःखमेवेति। न चैवं सकालस्यास्य सुखत्वप्रसङ्ग इति वाच्यम्, स्वरूपविशेषणत्वात्। इष्टावाप्तये कालक्षेपासहिष्णुः खलुत्सुकः। तत औत्सुक्यमेवाभीष्टफलविरहपिशुनः, तद्विरहश्च कालापरिपाकस्य ज्ञापक इति सिद्धाऽस्य स्वरूपविशेषणता। उत्सुकतापरिहाराय परेऽपीदमाहुः- कर्तव्येष्वधिकारस्ते मा फलेषु कदाचन - इति। अनौत्सुक्यावहतया कथञ्चिदिदमपि युक्तमेव।
वस्तुतस्तु तत्तत्क्रियाजनितशुभकर्मबन्धाशुभतन्निर्जरणलक्षणानन्तरफलस्य तत्तत्समय एव प्राप्तत्वात्, परम्परफलस्य तु परम्परयैव प्राप्यत्वान्न किञ्चिदुत्सुकत्वेन, नापि क्रियावैफल्यमिति। अतस्त्याज्यैवाकालफललिप्सा परमानन्दान्वेषिणा, तदाह - नैरपेक्ष्यादनौत्सुक्य- मनौत्सुक्याच्च सुस्थता। सुस्थता च परानन्दस्तदपेक्षा क्षयेन्मुनिः - इति।
दुःखी - अनुभूतापेक्षाविपाकः, भवभ्रान्तिजनितखेदानुभवितृतया तदुद्विग्न इति यावत्। स च दुष्करम् - इहलोकसुखैकप्रतिबद्धानां परलोकनिष्पिपासानां कातरसत्त्वानां
६८
- आर्षोपनिषद् - दुरनुष्ठेयम्, चरितम् - चारित्रम्, चरित्वा - निरतिचारतया परिपाल्य, सर्वदुःखम् - अनन्तरोक्तम्, निःशेषचारित्रमोहनीयं वा, फले हेतूपचारात्, यदागमः - गोयमा ! जण्णं जीवा चरित्तमोहणिज्जकम्मस्स उदएणं हसंति वा उस्सुयायंति वा - इति । तत् क्षपयति - प्रकृत्यन्तरसङ्क्रमितं प्रदेशोदयेन निर्जरयति । तपसा - शुक्लध्याननिःश्रेण्या क्षपकश्रेण्यारोहणेन।
यतश्चैवं तस्मात्, दीनम् - कष्टकल्पनामात्रजनितक्लीबपरिणामम्, मनः-चित्तम्, यस्य स दीनमनाः, तदितरोऽदीनमनाः, दुःखी दुःखात्मक-संसारसंयोगी, सर्वदुःखं तितिक्षेत्-निषहेत, तितिक्षासाध्ये दुःखहाने दैन्यस्यानुपायत्वात्, विपदभावस्यैव संसार आश्चर्यरूपत्वाच्च। यतः-संसारवर्त्यपि समुद्विजते विपद्भ्यो, यो नाम मूढमनसां प्रथमः स नूनम्। अम्भोनिधौ निपतितेन शरीरभाजा, संसृज्यतां किमपरं सलिलं विहाय - इति । ततः स्ववशतया तितिक्षैव भवसागरतरणोपायः, इतरथाऽतितिक्षितविरहात् । आह च- सह कलेवर ! खेदमचिन्तयन् स्ववशता हि पुनस्तव दुर्लभा। घनतरं च सहिष्यसि जीव हे ! परवशो न च तेन गुणोऽस्ति ते - इति ।
केनैवमुक्तमित्याह - इति कूर्मापुत्रेण जघन्यावगाहनया सिद्धत्वेनागमादौ निर्दिष्टेन, यथा दोरयणिपमाणतणू जहन्नउगाहणाए जो सिद्धो। तमहं तिगुत्तिगुत्तं, कुम्मापुत्तं नमसामि - इति । १. व्याख्याप्रज्ञप्तौ ।।५-४ ।। २. विशेषावश्यकभाष्ये। ३. वसन्ततिलकावृत्तम् । ४. नरकयातनानामप्यनन्तशः सोढत्वादनादौ संसारे परवशतया तु सर्वमपि तितिक्षितमेवेत्यभिप्रायः। ५. दुतविलम्बितवृत्तम्। ६. ऋषिमण्डलप्रकरणे ।।१२६।।
१. योगसारे ।।५-१९।।