________________
७०
Re-ऋषिभाषितानि
तद्वृत्तं चेदम्- राजगृहे नगरे महेन्द्रसिंहो राजा, कूर्मादेवी राज्ञी। तत्पुत्रो धर्मदेवः कूर्मापुत्रापरनामा। स हि पूर्वभवकृतचेटबन्धनोच्छालनकर्मवशाद् द्विहस्तमात्रशरीरः सञ्जातः। पूर्वभवाभ्यस्तशुभचारित्रानुभावेन रूपसौभाग्यादिगुणगणालङ्कृतं यौवनमभिसम्प्राप्तोऽपि स विषयविरक्तमना बभूव। सकृन् मुनीश्वरगुण्यमानश्रुतं शृण्वतोऽस्य समुत्पन्नं जातिस्मरणम्। ततो भववैगुण्यं विभावयतः सम्प्राप्तशुक्लध्यानस्य क्षपकश्रेणिमुपगतस्य ध्यानानलेन घातिकर्मेन्धनप्लोषादाविर्भूतं केवलज्ञानम्। एवं च गृहस्थावस्थायामेव केवलज्ञान्यसौ मत्प्रव्रज्ययाऽवश्यं सुतवियोगदुःखितयोः पित्रोर्मरणं भावीति विज्ञाय तदुपरोधेनाऽस्थाद् गृह एव भावचरणाऽलङ्कृतः, उक्तं च - कुम्मापुत्तसरिच्छो को पुत्तो मायतायपयभत्तो ?। जो केवलीवि सघरे ठिओ चिरं तयणुकंपाए।। कुम्मापुत्ता अन्नो को धन्नो जो समायतायाणं। बोहत्थं नाणी वि हु घरे ठिओऽनायवित्तीए ? इति । ततोऽसौ कूर्मापुत्रकेवली सकृदवसरं ज्ञात्वा प्रतिपेदे द्रव्यचरणमपि। सुरविहिते कनककमले निषण्णोऽसौ वितेने धर्मदेशनाम्, प्रतिबुद्धौ पितरावपि, अन्यैरनेकभव्यजनैः सहितौ प्रतिपन्नौ चारित्रम्, समाराध्य च तद् गतौ सद्गतिम्। कूर्मापुत्रोऽपि केवली सुचिरं परिपाल्य केवलिपर्यायमपवर्गमवापेति। अर्हतेत्यादि प्राग्वत्।
स्यादेतत्, सहामहे दुःखं यदि सुखसम्भव एव संसारे न स्यात्, स तु प्रत्यक्ष एव केषुचिदुपलभ्यत इति कथं न तदर्थमाशंसामह इति १. कुम्मापुत्तचरिये ।।१२७।। २. कुम्मापुत्तचरिये । ।१२८।।
आर्षोपनिषद् - चेत् ? अत्राह
जणवादो ण ताएज्जा अत्थितं तव-संजमे। समाधिं च विराहेति जे रिट्टचरियं चरे।।७-२।।
तपः - कर्मसन्तापनानुष्ठानमनशनादि, तत्संयुक्ते संयमेसावद्ययोगात्सम्यगुपरमणात्मकेऽस्थितम्- अव्यवस्थितम्, तदप्रतिपत्तारमिति यावत्। जनानां मुग्धलोकानाम्, धन्योऽयमभीष्टभोगोपभोगदुर्ललित इत्यादिवचनविसरात्मको वादो जनवादः, स न त्रायेत् - असंयमादिदोषा(र्गतौ प्रपतन्तं न रक्षेत्।
अतो वध्यमण्डनस्थानीयतयाऽऽपातसुखमप्यनाशंसनीयमेव तत्। एतेनास्य दुःखहेतुतोक्ता, तामेव सुखप्रतिपक्षताभिधानेन व्यतिरेकेण व्याचष्टे - सम्यगाधीयते व्यवस्थाप्यते मोक्षं तन्मार्ग वा प्रति येनात्मा, स समाधिः - धर्मध्यानादिकः, तं च विराध्यति - शुभनिमित्तसंयोगाज्जायमानमपि व्यापादयति। क इत्याह यः कश्चिद् रिष्टमिति देश्यशब्दो-ऽरिष्टपर्यायः, दुरितमिति तदर्थः, तद्युतं चरितं रिष्टचरितम्, तच्चरेत् - आचरणविषयीकुर्यात्। यद्वाऽरिष्टः - काकः, तच्चरितमरिष्टचरितम्। यथा हि काक उपलब्धेष्वपि पायसादिभोज्येषु कृमिकुलाकुलकरङ्काद्यमेध्याधमे रतिं बभाति, तद्वदसावपि परमानन्दप्रदसमाधिमुपेक्ष्य विषयविष्टायां कीटायत इति व्यक्तैवास्य वायसवृत्तता।
अतो हेयैव विषयाशंसा, तस्या अप्यौत्सुक्यरूपतया दुःख
१. क. ख. ज.झ - अत्थितं । च. ग - अत्थित्तं । घ. छ. त - अच्छित्तं । २. ग-रदृचारियं चरे।