________________
Re-ऋषिभाषितानि भूतत्वात्, दुःखावहत्वाच्च, यतः - सल्लं कामा विसं कामा कामा आसीविसोवमा। कामे पत्थयमाणा य अकामा जंति दुग्गई ।। तस्मात्- छलिया अवइक्खंता निरविक्खा गया अविग्घेणं तम्हा पवयणसारे निरावइक्खेण होअव्वं ।। न चैतत्तत्त्वपरिणत्यैव, अपि त्वसर्वभावकृताप्यौत्सुक्यनिवृत्तिर्गुणायेति दर्शयति
आलस्सेणावि जे केइ उस्सुअत्तं ण गच्छति। तेणावि से सुही होइ, किं तु सद्धी परक्कमे।।
॥७-३॥ यः कश्चिदालस्येनापि - कथमेतावानभियोगो विषयावाप्तये मया कर्तव्य इत्यलमनेनेत्यादिलक्षणनिरुद्यमभावेनाप्युत्सुकत्वं न गच्छति-विषय-विषास्वादाशंसां विमुञ्चति, तेनापि वैराग्याहेतुकविषयाभिलाषविमोक्षेणापि, सः - अलसः, सुखी विषयविषविकारप्रयुक्तदुःखव्यथितापेक्षया तदुन्मुक्ततया तावदंशेन स्वास्थ्यसम्पन्नो भवति।
किन्तु - किं पुनः, यः श्रद्धी - तावत्सुखेच्छाविषयार्थभोगे यावन्मनःस्वास्थ्यसुखं न वेत्ति। लब्धे मनःस्वास्थ्यसुखैकलेशे त्रैलोक्यराज्येऽपि न तस्य वाञ्छा - इत्यादिसंवेदनाविभूतात्मिकसुखाभिलाषलक्षणश्रद्धासम्पन्नः पराक्रमेत्-विषयतृष्णादिनिबन्धनमोहवाहिनीमाक्रम्य पराजयेत् । अमेयं निरूपमं च तत्साध्यफलमिति १. उत्तराध्ययने ।।९-५३ ।। इन्द्रियपराजयशतके ।।२७।। २. इन्द्रियपराजयशतके ।।२९ ।। ३. आवश्यकसूत्रे मलयगिरीयवृत्ती पराक्रमः परपराजय इति व्याख्या। निशीथचूर्णी - वीरियं ति वा बल त्ति वा सामत्थं ति वा परक्कमो त्ति वा थामो त्ति वा एगट्ठाइत्युक्तम्।
आर्षोपनिषद् - हृदयम्। तथा च पारमर्षम् - को निज्जरं तुलिज्जा चरणे य परक्कमंताणं - इति ।
अथेयमस्माकमिष्टापत्तिर्यदालस्यमपि सुखावहम्, सामान्योक्तेः सर्वसङ्ग्रहात्, धर्मकर्मणि चास्य स्वतः सिद्धत्वादिति चेत् ? न, तात्पर्याद्विशेषग्रहात्, अतो धर्मनिरुद्यमतायास्तु दुःखहेतुतैवेति तामधिकृत्याह
आलस्सं तु परिणाए जाती-मरण-बंधणं। उत्तिमट्ठवरग्गाही वीरियातो परिव्वए।।७-४।।
आलस्यम् - प्रेत्य हितावहे प्रमादम्, तत्तु परिज्ञाय - ज्ञप्रत्याख्यानपरिज्ञाभ्याम्, यतो जाति:-जन्म, मरणम् - मृत्युः, त एव बन्धनम्, तद्धेतुभावात्। जातिमरणबन्धनं चालस्यम्, तत एव। ज्ञापकञ्चात्र मुमुक्षुणामाद्यं शिक्षावचः परमगुरूदितम् - अस्सिं च णं अढे णो पमादेयव्वं - इति । अत उत्तमोऽर्थो मोक्षलक्षणो यस्मात् स उत्तमार्थ:- धर्मः, स च वरः, अप्रमत्ततया परिपालनात्, तद्ग्राही- आगमोक्तविधिना तद्गृहीता। न हि ग्रहणमात्रेणार्थसिद्धिरित्याह - वीर्यत्वेन परिव्रजेत् क्षमाद्यध्यात्मवीर्यभावेन भावसारं परिव्रज्यां परिपालयन् विहरेत्। एतच्च प्रत्यूहप्लोषमन्तरेणाशक्यमित्याह
कामं अकामकामी अत्तत्ताए परिव्वए। सावज्जं णिरवज्जेणं परिणाए परिव्वएज्जासि।।७-५।।
त्ति बेमि।।
१. मरणसमाधी । ।१३६ ।। २. ज्ञाताधर्मकथाङ्गे ।।१-१-३०।।