________________
Re-ऋषिभाषितानि
कामाः-शब्दादिविषयाः, तान् कामयति स्पृहातिशयविषयीकुरुतेऽसौ कामकामी, न सः- अकामकामी। भोगा भुजङ्गभोगाभा, विषं सांसारिकं सुखम्। श्रियः स्त्रियश्च तन्मूलं कथमाद्रियते बुधः ?|| भुक्तोज्झिता मुहुर्मोहान्मया सर्वेऽपि पुद्गलाः। उच्छिष्टेष्विव तेष्वद्य मम विज्ञस्य का स्पृहा ?' - इत्यादिभावनाभावितान्तरात्मतया नितरां निष्काम इति हृदयम्। कामम् - अत्यन्तम्, तदर्थश्च योजित एव। सोऽयमात्मात्मतया परिव्रजेत् - आत्मन्येवात्मभावनया विहरेत्, इत्थमेव साध्यसिद्धेः, अन्वाहदेहान्तरगते/जं देहेऽस्मिन्नात्मभावना। बीजं विदेहनिष्पत्तेरात्मन्येवात्मभावना - इति । यद्वाऽऽत्मत्वाय- स्वरूपाधिगमार्थमित्यर्थः। न च स्वरूपस्य स्वतः सिद्धतया कथं तदधिगम इति वाच्यम्, शुद्धत्वविशिष्टत्वेन तदुपपत्तेः, तदुक्तम्- योग्योपादानभेदेन दृषदः स्वर्णता मता, द्रव्यादि-स्वादिसम्पत्ता - वात्मनोऽप्यात्मता मता - इति ।
उपदेशसर्वस्वमाह- सावद्यम् - षट्कायारम्भादिपापसमन्वितमनुष्ठानम्, तन्निरवद्येन- पूर्वापरविरोधादिदोषशून्येन प्रवचनेन, निरतिचारचारित्रेण च, ज्ञप्रत्याख्यानोभयरूपया परिज्ञया परिज्ञाय परिव्रजेत् - परिव्रज्यामनुपालयेत्। इति यत्प्रोक्तं तीर्थकरादिभिस्तदहं ब्रवीमि। अत्यन्तदुष्करमिदमनुरूपफलसंशये नैवोपादेयं स्यादित्याशङ्याह
एवं सिद्धे बुद्धे विरए विपावे दंते दविए अलंताई णो १. इप्टोपदेशे ।।३०।। २. समाधितन्त्रे ।।७४ ।। ३. इष्टोपदेशे ।।२।। ४. प्रवचनेन विज्ञाय चारित्रेण च प्रत्याख्यायेत्याशयः ।
७४
- आर्षोपनिषद् - पुणरवि इच्चत्थं हव्वमागच्छइ त्ति बेमि।। एवमित्यादि प्राग्वत्। इति सप्तमे कूर्मापुत्रनामाध्ययन आर्षोपनिषद्।
॥ अथाष्टमाध्यायः।। अनन्तराध्याये दुःखविवेकोपाय उक्तः, अत्राप्येष एव प्रकारान्तरेणोच्यते'आरं दुगुणेणं, पारं एकगुणेणं।' केतलिपुत्तेण इसिणा बुइत।।८-१।।
आरः - अक्तिनः, मुक्तेः पूर्वः, संसार इत्यर्थः, तमुपयाति द्विगुणेन, गुणशब्दोऽत्र भाववाची, ततश्च द्वैतेनेत्यर्थः। तत्रैकः स्वयमात्मा, इतरस्तु ग्रन्थः - अष्टविधकर्मादिः, यथोक्तम्- ग्रन्थः कर्माष्टविधं मिथ्यात्वाविरतिदुष्टयोगाश्च। तज्जयहेतोरशठं संयतते यः स निर्ग्रन्थः - इति । एवं चात्मग्रन्थलक्षणद्वैतेन संसारमुपयाति, संसरत्येवेत्याशयः, कर्मादिनिर्वर्तितत्वात्संसारस्य।
कथं तर्हि तन्निष्ठेत्याह- पारः - भवसागरपरतीरम्, मुक्तिरिति यावत्, तथा चार्षम् - पारं पुणणुत्तरं बुहा बिंति - इति । तमुपयाति, एकगुणेन - एकत्वेन, सर्वोपाधिशून्येन शुद्धात्मस्वरूपेणेत्यर्थः।
किमुपज्ञमिदमित्याह- केतलिपुत्रेण, तमेव विशेषयति - ऋषिणा - अनन्तरोक्तज्ञानानुभावेन संसारपारयायिना, ऋषति गच्छति ज्ञानेन संसारपारम् - ऋषिः, गतौ कि, इति निरुक्तेः।
१. प्रशमरती ।।१४२ ।। २. बृहत्कल्पभाष्ये।।३-४ ।। ३. क-ख-ज - तेतलि। गते (के) तलि।