________________
ऋषिभाषितानि
६१
दैवम्, प्रदीर्घभवभ्रान्तिलक्षणभवितव्यतामित्यर्थः । अनुवर्तमान इति शेषः, भवितव्यताया अलङ्घ्यत्वात्।
नन्विदमनुपपन्नतरं यन्निबद्धस्य विहरणमिति चेत् ? न, पराधीनत्वेन यथेच्छविहारविरहात्, एतदेवाह
सुत्तमेत्तगतिं चेव गंतुकामे वि से जहा ।
एवं लद्धा वि सम्मग्गं सभावाओ अकोविते ।। ६-६ ।। सूत्रम् - प्रागुक्तं दृढशुम्बम्, तन्मात्रानधिकगतिर्यस्यासौ सूत्रमात्रगतिः, चैव अवधारणे, अन्यथा तन्निबद्धत्वस्यैवानुपपत्तिरिति भावः। कदाचित्तन्निरोधोद्विग्नतया गन्तुकामोऽपि तन्मात्राधिक सञ्जातस्पृहाविशेषोऽपि स यथा, इतरस्तु महामोहाधीनतया बन्धनप्रियः सुतरां तन्मात्रगतिरित्यपिशब्दार्थः ।
उपनयमाह एवं लब्ध्वाऽपि अधिगम्यापि सन्मार्गम् जिनप्रवचनपीयूषम्, स्वभावात् प्रदीर्घभवसद्भावमालिन्यातिशयगुरुकर्मताजनितप्रकृतेः, अकोविदः - आत्मीयकल्याणेतरविवेकानभिज्ञः । यद्वा स्वभावाच्च ज्ञानगर्भवैराग्यलक्षणाच्च कोपितः - प्रच्यावितः स्त्र्यादिगृद्धिविकारं प्रापित इत्यर्थः । ततश्च कदाचित् सार्वोपदेशसुधाप्राप्तावपि नास्य गृद्धिविषविकारविमुक्तिः, ब्रह्मदत्तचक्रिवत्, यथोदितम् नागो जहा पंकजलावसन्नो, दट्टु थलं नाभिसमेइ तीरं । एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुव्यामो इति'। तदेषा नारीगणप्रसक्तजीववक्तव्यता। साम्प्रतं तदितरं वर्णयति
१. उत्तराध्ययने । ।१३-३०।।
-
--
-
-
६२
जं तु परं णवएहिं, अंबरे वा विहंगमे । दढसुत्तणिबद्धे त्ति० सिलोको ।। ६-७ ।।
यत् - वक्ष्यमाणनिर्देशे, तुः पक्षान्तरद्योतकः, नवकाभ्याम्अष्टादशविधब्रह्मचर्येण यथाभिहितम् दुनवविहं बंभचेरपरिसुद्धं - इति । दुवयणे बहुवयणम् - इत्यनुशासनाद् बहुवचनम्। अष्टादशविधता च ब्रह्मचर्यस्यैवम् दिव्यात् कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम्। औदारिकादपि तथा तद् ब्रह्माष्टादशविकल्पम् इति । तदेवंविधेन सर्वप्रकारशुद्धेन ब्रह्मचर्येण, परम् - उत्कृष्टं ब्रह्मचर्यसमाधिपदमभिसम्प्राप्तः, अत एव सर्वत्र निष्कामतया प्रतिबन्धनिर्मुक्तः । अत्रार्थ उपमामाह अम्बरे - आकाशे, विहङ्गम इव पक्षीव, तद्वन्निस्सङ्गतया विहरणशील इत्याशयः । तमेव विशेषयति- दृढसूत्रनिबद्धःअहीवेगंतदिट्ठीए - इत्याद्यनुसारेणात्यन्तं जिनाज्ञाप्रतिबद्धः, इति श्लोकः, पञ्चमवृत्तानुसारेणात्रापि ज्ञातव्यमित्ययं निर्देशः सम्भाव्यते, ततो विहरेद् बलवन्तं विधिम् सर्वत्र विहितक्रियामेव मुख्यभावमर्पयन् संयमचर्यामनुपालयेदित्यर्थः । तन्मुख्यता च तत्पक्षपातयोगात्, यथोदितम् - विहिसारं चिय सेवइ सद्धालू सत्तिमं अणुट्ठाणं । दव्वाइदोसनिहओ वि पक्खवायं वहइ तम्मि।। नीरुओ भोज्जरसन्नू कंवि अवत्थं गओ असुहमन्नं । भुंजंतंमि रज्जइ सुहभोयणलालसो धणियं । । इय सुद्धचरणरसिओ १. ठ-थ-ट-ज-ख- गवाएहिं क-प-ढ-ण-फ-ध-न- गवाहिए। ग.घ.च. छ. झ.त णवएहिं २. फ-ध-न-प-क-ढ-ण णिबद्धे ति ख-ज-ठ-थ-ट- णिबद्धे तु झ-त- णिबद्धे त्ति । ३. पाक्षिकसूत्रे ४. प्रशमरती । । १७७ ।।
-
आर्षोपनिषद्
-
-
-