________________
Re-ऋषिभाषितानि - ततोऽपि तत्रापि युद्धशीलो जनः। अयं भावः- नाजितेन्द्रियस्य काऽपि कार्यसिद्धिरस्तीति वचनात्ते यत्र तत्रापि यान्ति तत्र नैषामभीष्टविषयावाप्तिः, अपि तु तदुत्कतयोन्मार्गप्रवृत्तानां युद्धशीलजनेभ्यो दुःसहप्रहारवेदना एव। उपलक्षणमेतत्, तेन यत्किञ्चिन्निमित्तादपि दुःखाधिगम एवेत्यपि ज्ञेयम्। तदाह - यां यां करोति चेष्टां तया तया दुःखमादत्ते - इति । ___ यद्वा स्वयमेवाभीष्टानवाप्तेस्तत्प्रतिबन्धकैः सह युद्धकरणस्वभाव इत्यप्यर्थः। ततोऽपि प्राग्वदुःखमेव, तथा चागमः - तत्थावि दुक्खा ण विमुच्चइ से - इति। ततो द्विगुणितसुखाशतया यदसौ विचेष्टते तदाह
णिरंकुसे व मातंगे, छिण्णरस्सी हए विवा। णाणावग्गहपब्भटे विविधं पवते णरे।।६-३।।
निरङ्कुशः, अङ्कुशस्यैवाभावात्, भावेऽपि विफलत्वाद्वा, मातङ्गो गजः, स इव उपमान्तरमाह - छिन्नाऽत्युच्छृङ्खलत्वेन त्रुटिता रश्मिः - वल्गा, अश्वनियन्त्रणसाधनम्, यस्यासौ छिन्नरश्मिः , हयः-अश्वोऽपि वा, तद्वत् नानाप्रकारा अवग्रहाः मनोवाक्कायगुप्तिलक्षणाः, तेभ्यः प्रभ्रष्टः, विविधम्- विपरीतप्रकारेण स्वात्मकल्याणप्रतिकूलतयेत्यर्थः। प्रकर्षणाशुभाध्यवसायैकायनतासचिवतारूपेण वर्तते पापानुष्ठानोद्यतो भवति, नरः - मनुष्यः, उपलक्षणाद्देवादिश्च। उपमान्तरेण स्पष्टयति
आर्षोपनिषद् - णावा अकण्णधारा व सागरे वायुणेरिता। चंचला धावते णावा, सभावाओ अ कोविता।।६-४।।
नौः - तरी, न विद्यते कर्णधारो नियामको यस्याः साऽकर्णधारा, यथा सागरे समुद्रमध्ये वायुणेरिता - पवनेनाभ्रशकलवदितस्ततो विक्षिप्ता, अत एव चञ्चला - गतिस्थानाभ्यां द्विधाऽपि चपला, नौः - पोतः, धावते - आवर्तादौ भ्राम्यति। यद्वाऽगाधसागरतलाभिमुखतयाऽधस्ताद् गतौ त्वरत इत्यर्थः। कथमेवमित्याह - यतः स्वभावात् - अवारपारापरपारावस्थितेप्सितपुरप्रापकतालक्षणात्, चकारो हेत्वर्थः, स च योजित एव, कोपिता - विचालिता, दृश्यत एव चराचरे जगति कोपितस्य प्रकृतिविकार इति। उपमान्तरमुक्त्वोपनयति
मुक्कं पुष्कं व आगासे णिराधारे तु से णरे। दढसुंबणिबद्धे तु, विहरे बलवं विहिं।।६-५।।
मुक्तम्- स्वाधारात् प्रच्यावितम्, पुष्पमिव कुसुममिवाकाशे - गगने, तद्वन् निराधारः सर्वथा प्रभ्रष्टत्वात्। तुः - भिन्नपक्षद्योतकः, प्रच्याव्यमानपुष्पादप्यधिकतरनिराधारोऽयमिति हृदयम्। सः - स्त्र्यादिसक्तो नरः, दृढम्, त्रोटयितुमशक्यत्वात्, शुम्बम् - तृणविशेषनिष्पन्नदवरकः, तेन नितरां बद्धस्तु, कथमपि मोचयितुमशक्यत्वात्, विहरेत् - संसरणं कुर्यात्, बलवन्तं विधिम्१. बृहत्कल्पे । उ.१ ।। २ .मूलस्थ अकारो य - निष्पन्नः, इति सम्भाव्येयमुक्तिः। ३. झ-त-च-ट- मुक्कं । प-हु-ण-फ-ध-न- सुक्क । ख-ज-ठ-थ- सुक्कं । ४. क-ख-ज-थ-पढ-ण-फ-ठ-ध-न-ट- विहंगे। घ-च-छ-झ-त- विहरे । ५. सुपा सुपो भवतीति द्वितीयार्थे
१. नीतीवाक्यामृते ।। २. प्रशमरती ।।४०।। ३. उत्तराध्ययने ।।३२-३०।। ४. ज्ञानावग्रहप्रभ्रष्ट इत्यप्यर्थः ।
प्रथमा।