Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 56
________________ -६७ Re-ऋषिभाषितानि - भ्रमेऽतिव्याप्तेश्च। न च तादृशयथार्थज्ञानं दुःखम्, उक्ताव्याप्तितादवस्थ्यादिति चेत् ? अत्रोच्यते- दुःखं सोत्सुकत्वम्। एवं च नाव्याप्त्यादिदोषावकाशः। न चैकेन्द्रियादिष्वव्याप्त्यपरिहारः, तस्य चारित्रमोहोदयत्वेन वक्ष्यमाणत्वात्, तस्य च तेषु सिद्धत्वात्। स्वास्थ्यात्मकसुखप्रतिपक्षभूतं ह्यकालोत्सुकत्वं परमार्थत आर्तध्यानरूपतया दुःखमेवेति। न चैवं सकालस्यास्य सुखत्वप्रसङ्ग इति वाच्यम्, स्वरूपविशेषणत्वात्। इष्टावाप्तये कालक्षेपासहिष्णुः खलुत्सुकः। तत औत्सुक्यमेवाभीष्टफलविरहपिशुनः, तद्विरहश्च कालापरिपाकस्य ज्ञापक इति सिद्धाऽस्य स्वरूपविशेषणता। उत्सुकतापरिहाराय परेऽपीदमाहुः- कर्तव्येष्वधिकारस्ते मा फलेषु कदाचन - इति। अनौत्सुक्यावहतया कथञ्चिदिदमपि युक्तमेव। वस्तुतस्तु तत्तत्क्रियाजनितशुभकर्मबन्धाशुभतन्निर्जरणलक्षणानन्तरफलस्य तत्तत्समय एव प्राप्तत्वात्, परम्परफलस्य तु परम्परयैव प्राप्यत्वान्न किञ्चिदुत्सुकत्वेन, नापि क्रियावैफल्यमिति। अतस्त्याज्यैवाकालफललिप्सा परमानन्दान्वेषिणा, तदाह - नैरपेक्ष्यादनौत्सुक्य- मनौत्सुक्याच्च सुस्थता। सुस्थता च परानन्दस्तदपेक्षा क्षयेन्मुनिः - इति। दुःखी - अनुभूतापेक्षाविपाकः, भवभ्रान्तिजनितखेदानुभवितृतया तदुद्विग्न इति यावत्। स च दुष्करम् - इहलोकसुखैकप्रतिबद्धानां परलोकनिष्पिपासानां कातरसत्त्वानां ६८ - आर्षोपनिषद् - दुरनुष्ठेयम्, चरितम् - चारित्रम्, चरित्वा - निरतिचारतया परिपाल्य, सर्वदुःखम् - अनन्तरोक्तम्, निःशेषचारित्रमोहनीयं वा, फले हेतूपचारात्, यदागमः - गोयमा ! जण्णं जीवा चरित्तमोहणिज्जकम्मस्स उदएणं हसंति वा उस्सुयायंति वा - इति । तत् क्षपयति - प्रकृत्यन्तरसङ्क्रमितं प्रदेशोदयेन निर्जरयति । तपसा - शुक्लध्याननिःश्रेण्या क्षपकश्रेण्यारोहणेन। यतश्चैवं तस्मात्, दीनम् - कष्टकल्पनामात्रजनितक्लीबपरिणामम्, मनः-चित्तम्, यस्य स दीनमनाः, तदितरोऽदीनमनाः, दुःखी दुःखात्मक-संसारसंयोगी, सर्वदुःखं तितिक्षेत्-निषहेत, तितिक्षासाध्ये दुःखहाने दैन्यस्यानुपायत्वात्, विपदभावस्यैव संसार आश्चर्यरूपत्वाच्च। यतः-संसारवर्त्यपि समुद्विजते विपद्भ्यो, यो नाम मूढमनसां प्रथमः स नूनम्। अम्भोनिधौ निपतितेन शरीरभाजा, संसृज्यतां किमपरं सलिलं विहाय - इति । ततः स्ववशतया तितिक्षैव भवसागरतरणोपायः, इतरथाऽतितिक्षितविरहात् । आह च- सह कलेवर ! खेदमचिन्तयन् स्ववशता हि पुनस्तव दुर्लभा। घनतरं च सहिष्यसि जीव हे ! परवशो न च तेन गुणोऽस्ति ते - इति । केनैवमुक्तमित्याह - इति कूर्मापुत्रेण जघन्यावगाहनया सिद्धत्वेनागमादौ निर्दिष्टेन, यथा दोरयणिपमाणतणू जहन्नउगाहणाए जो सिद्धो। तमहं तिगुत्तिगुत्तं, कुम्मापुत्तं नमसामि - इति । १. व्याख्याप्रज्ञप्तौ ।।५-४ ।। २. विशेषावश्यकभाष्ये। ३. वसन्ततिलकावृत्तम् । ४. नरकयातनानामप्यनन्तशः सोढत्वादनादौ संसारे परवशतया तु सर्वमपि तितिक्षितमेवेत्यभिप्रायः। ५. दुतविलम्बितवृत्तम्। ६. ऋषिमण्डलप्रकरणे ।।१२६।। १. योगसारे ।।५-१९।।

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141