Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 59
________________ Re-ऋषिभाषितानि कामाः-शब्दादिविषयाः, तान् कामयति स्पृहातिशयविषयीकुरुतेऽसौ कामकामी, न सः- अकामकामी। भोगा भुजङ्गभोगाभा, विषं सांसारिकं सुखम्। श्रियः स्त्रियश्च तन्मूलं कथमाद्रियते बुधः ?|| भुक्तोज्झिता मुहुर्मोहान्मया सर्वेऽपि पुद्गलाः। उच्छिष्टेष्विव तेष्वद्य मम विज्ञस्य का स्पृहा ?' - इत्यादिभावनाभावितान्तरात्मतया नितरां निष्काम इति हृदयम्। कामम् - अत्यन्तम्, तदर्थश्च योजित एव। सोऽयमात्मात्मतया परिव्रजेत् - आत्मन्येवात्मभावनया विहरेत्, इत्थमेव साध्यसिद्धेः, अन्वाहदेहान्तरगते/जं देहेऽस्मिन्नात्मभावना। बीजं विदेहनिष्पत्तेरात्मन्येवात्मभावना - इति । यद्वाऽऽत्मत्वाय- स्वरूपाधिगमार्थमित्यर्थः। न च स्वरूपस्य स्वतः सिद्धतया कथं तदधिगम इति वाच्यम्, शुद्धत्वविशिष्टत्वेन तदुपपत्तेः, तदुक्तम्- योग्योपादानभेदेन दृषदः स्वर्णता मता, द्रव्यादि-स्वादिसम्पत्ता - वात्मनोऽप्यात्मता मता - इति । उपदेशसर्वस्वमाह- सावद्यम् - षट्कायारम्भादिपापसमन्वितमनुष्ठानम्, तन्निरवद्येन- पूर्वापरविरोधादिदोषशून्येन प्रवचनेन, निरतिचारचारित्रेण च, ज्ञप्रत्याख्यानोभयरूपया परिज्ञया परिज्ञाय परिव्रजेत् - परिव्रज्यामनुपालयेत्। इति यत्प्रोक्तं तीर्थकरादिभिस्तदहं ब्रवीमि। अत्यन्तदुष्करमिदमनुरूपफलसंशये नैवोपादेयं स्यादित्याशङ्याह एवं सिद्धे बुद्धे विरए विपावे दंते दविए अलंताई णो १. इप्टोपदेशे ।।३०।। २. समाधितन्त्रे ।।७४ ।। ३. इष्टोपदेशे ।।२।। ४. प्रवचनेन विज्ञाय चारित्रेण च प्रत्याख्यायेत्याशयः । ७४ - आर्षोपनिषद् - पुणरवि इच्चत्थं हव्वमागच्छइ त्ति बेमि।। एवमित्यादि प्राग्वत्। इति सप्तमे कूर्मापुत्रनामाध्ययन आर्षोपनिषद्। ॥ अथाष्टमाध्यायः।। अनन्तराध्याये दुःखविवेकोपाय उक्तः, अत्राप्येष एव प्रकारान्तरेणोच्यते'आरं दुगुणेणं, पारं एकगुणेणं।' केतलिपुत्तेण इसिणा बुइत।।८-१।। आरः - अक्तिनः, मुक्तेः पूर्वः, संसार इत्यर्थः, तमुपयाति द्विगुणेन, गुणशब्दोऽत्र भाववाची, ततश्च द्वैतेनेत्यर्थः। तत्रैकः स्वयमात्मा, इतरस्तु ग्रन्थः - अष्टविधकर्मादिः, यथोक्तम्- ग्रन्थः कर्माष्टविधं मिथ्यात्वाविरतिदुष्टयोगाश्च। तज्जयहेतोरशठं संयतते यः स निर्ग्रन्थः - इति । एवं चात्मग्रन्थलक्षणद्वैतेन संसारमुपयाति, संसरत्येवेत्याशयः, कर्मादिनिर्वर्तितत्वात्संसारस्य। कथं तर्हि तन्निष्ठेत्याह- पारः - भवसागरपरतीरम्, मुक्तिरिति यावत्, तथा चार्षम् - पारं पुणणुत्तरं बुहा बिंति - इति । तमुपयाति, एकगुणेन - एकत्वेन, सर्वोपाधिशून्येन शुद्धात्मस्वरूपेणेत्यर्थः। किमुपज्ञमिदमित्याह- केतलिपुत्रेण, तमेव विशेषयति - ऋषिणा - अनन्तरोक्तज्ञानानुभावेन संसारपारयायिना, ऋषति गच्छति ज्ञानेन संसारपारम् - ऋषिः, गतौ कि, इति निरुक्तेः। १. प्रशमरती ।।१४२ ।। २. बृहत्कल्पभाष्ये।।३-४ ।। ३. क-ख-ज - तेतलि। गते (के) तलि।

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141