Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ऋषिभाषितानि
-
उदितम् – निगदितम्। संसारपारप्रापकतामेवास्य प्रमाणयतिइय उत्तमगंथवेयए ममिया लुप्पति गच्छति सयं वा । वोच्छिंद (दि)य कम्मसंचयं, कोसारकीडे व जहाड़ बंधणं ।। ।।८-२।। इति अनन्तरोक्तः, उत्तमग्रन्थः श्रेष्ठसिद्धान्तः, सर्वेषां मोक्षशास्त्राणां तत्रैव तात्पर्यात् । तं वेदयति - भावनाज्ञानविषयीकुरुत इत्युत्तमग्रन्थवेदकः, ममिकाम् ममेदमित्याका चित्तवृत्तिम्, द्वितीयार्थे प्रथमा, सुपां सुपो भवतीति । लुप्यतिविनाशयति, विध्यादौ यत्नवदिति हि भावनाज्ञानलक्षणम् । ततः - लोभं संतोसओ जिणे इत्यादिविहितयनसम्पादनमन्तरेण तत्स्वरूपस्यैवानवस्थितिरिति । एतदेव स्पष्टतरमाचष्टे - गच्छति स्वयं वा ममिका, उत्क्तोत्तमग्रन्थज्ञानोदयस्यैव तद्विलयरूपत्वात्, प्रकाशान्धकारवत्तयोरितरेतरपरिहारेण स्थितत्वात् ।
-
७५
ततोऽसौ कर्म-ज्ञानावरणीयादि, तस्य सञ्चयः अनुसमयबध्यमानकर्मभिरुपचयमुपयातः समूहः, तं व्युच्छित्त्वा - क्षपक श्रेण्यादिक्रमेण क्षपयित्वा कोशकारकीट इव जहाति - त्यजति बन्धनम् - कर्मजालात्मकमेव। उपमौचित्यमुभयत्र बन्धनस्य तद्धानस्य च स्वकृतत्वसाधर्म्यात् । यत एवम्
तम्हा एयं वियाणिय गंथजालं दुक्खं दुहावहं छिंदिय ठाइ संजमे, से हु मुणी दुक्खा विमुच्चइ । धुवं सिवं गई उवेड़ इति पाठ (पाठान्तरम्) ।।८-३।।
१. पोडशके । ।११-९ ।। धर्मविन्दौ । । ६-२४ ।। २. दशचैकालिके ।।८-३९ ।। ३. तद्
= ममिका । ४. कुम्भकारः- कुम्भार इतिवद्वयञ्जनलोपादेतदूपनिष्पत्तिर्मूले ।
आर्षोपनिषद्
तस्मात् ग्रन्थो बाह्याभ्यन्तरभेदेन द्विविधः, तज्जाल: भेदभेदै-र्निष्पन्नः सङ्घातः, तदाह- सो वि य गंथो दुविहो बज्झो अब्भिंतरओ य बोधव्वो । अंतो अ चोद्दसविहो, दसहा पुण बाहिरो गंथो । खेत्तं वत्युं धण-धन्न - संचओ मित्तणाइसंजोगो । जाण सयणासणाणि च दासीदासं च कुवियं च ।। कोहे माणे माया लोभ पेज्जं तहेव दोसो अ। मिच्छत्तं चेव अरई रई हास सोगो भय दुगंछा - इति । तदेषग्रन्थजालो दुःखम्, तद्धेतुभावात्। एतदेवाह दुःखावहम्, संजोगमूला जीवेण पत्ता दुक्खपरंपरा इति वचनात् । एतद् विज्ञाय छित्त्वा च तदेव शक्यच्छेदम्, संयमेतृष्णादिनियन्त्रणलक्षणे, तिष्ठति प्रतिष्ठानं लभते । स खलु मुनिर्दुःखाद्विमुच्यते, तत्कारणमोक्षस्यैव निश्चयेन तन्मोक्षरूपत्वात्। मा भूत् कस्यचित् कारणमुक्तिमात्रे प्रत्यय इति व्यवहारतोऽपि तामाह - ध्रुवाम्, साद्यनन्तत्वात्, शिवाम्, एकान्तिकात्यन्तिकाशिवोच्छेदात्, गतिम् सिद्ध्यभिधानाम्, उपैति - समानाकाशप्रदेशवर्त्तितया तत्सामीप्यं गच्छति । पर्यवसितमाह -
७६
-
-
एवं सिद्धे बुद्धे विरए विपावे दंते दविए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छड़ त्ति बेमि ।।
एवमित्यादि प्राग्वत् । इत्यष्टमकेतलिपुत्राध्ययन आर्षोपनिषद् ।
।। अथ नवमाध्यायः ।।
आम्रेडितोऽपि सिद्ध्युपायो भवभयाद्यन्तरेण दुरनुष्ठेय इति
१. बृहत्कल्पे । । उ.१ ।। २. महाप्रत्याख्याने । ।१७।।

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141