Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 55
________________ न-ऋषिभाषितानि - - ६५ मण्णती मुक्कमप्पाणं, पडिबद्धे पलायते।।६-१०।। स्त्रियामनुगृद्धः - सततमविमुक्ततत्प्रत्यासक्तिभावः, अत एव वशकः - मोहभूपतिपारतन्त्र्यपराभूतः। अत आत्मनश्चाप्यबान्धवः - प्राग्वत् । यस्मात् विपर्येति - आत्मकल्याणाद्विपर्यासमुपैति पुरुषः-आत्मा, तस्मादपि युद्धशीलो जन इति प्राग्वत् । यद्वा यत्रापि व्रजति पुरुषः - इत्यपि सम्भाव्यते। शेषं प्राग्वत्। विपर्यासमेव व्याचष्टे - मन्यते मुक्तमात्मानम्, प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः। प्राप्यते निर्वृतिर्येन सरागेणापि चेतसेत्यादिवचनतः स्वं तत्सदृशं कल्पयति, ततश्चाभ्यासवशात्तत्रैव स्त्यादौ प्रतिबद्धः-तदनुस्युतमानसः कल्याणनिबन्धनाद् भयमनुभूय पलायते - तत्पराङ्मुखमभिधावति, अन्वाह- मूढात्मा यत्र विश्वस्तस्ततो नान्यद् भयास्पदम्। यतो भीतस्ततो नान्यदभयं स्थानमात्मनः - इति । पुरुषविश्वासाद्वचनविश्वास इति पुनरपि तत्परिचयं प्रदायोपसंहरति। वियत्ते भगवं वक्कलचीरि उग्गतवे ति।। व्यक्तः-गीतार्थः, भगवान् - ज्ञानैश्वर्यादिसमन्वितः, प्रत्येकबुद्धानामुत्कर्षतः किञ्चिन्न्यूनदशपूर्वज्ञानस्य पूर्वभवाधीतस्य स्मृतिविषयीभवनात्, प्रत्येकबुद्धताया एवाश्चर्यावहाभिख्यारूपत्वात्त१. दृश्यताम् ।।६-२ ।। २.||६-२ ।। ३. समाधितन्त्र ।।२९।। ४. पत्तेयबुद्धाणं पुव्वाहीयं सुयं नियमा हवइ, जहण्णेणं एक्कारस अंगा, उक्कोसेणं भिन्नदसपुचीआवश्यकमलयगिरीयवृत्ताकुदरणम् । ५. पत्तेयबुद्धलाभा हवंति अच्छेरयत्भूया ।। उपदेशमाला - १८०।। - आर्षोपनिषद् - त्सम्पत्समन्वितता स्वयमूह्याः। वल्कलचीरी उग्रतपाः - यदन्येन प्राकृतेन पुंसा न शक्यते चिन्तयितुमपि मनसा, एवंविधाप्रधृष्यतीव्रतपोयुक्तः, इति प्रस्तुताध्ययनमुक्तवान्। अत्रोपादेयभावापादनायैतत्परिणतिप्राप्यफलमाह एवं से सिद्धे बुद्धे विरए विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि।। एवमित्यादि प्राग्वत्। इति षष्ठवल्कलचीरिनामाध्ययन आर्षोपनिषद्। ॥ अथ सप्तमाध्यायः।। अनन्तराध्याये स्त्रीगृद्धस्य दुःखमुक्तम्, अत्र तदेव विवेचयतिसव्वं दुक्खावहं दुक्खं, दुक्खं सऊसुयत्तणं। दुक्खी च दुक्करचरियं चरित्ता सव्वदुक्खं खवेति तवसा। तम्हा अदीणमणसो दुक्खी सव्वदुक्खं तितिक्खेज्जासि त्ति कुम्मापुत्तेण अरहता इसिणा बुइयं।।७-१।। सर्वम् - पापानुबन्धानुविद्धाशेषपापोदयात्मकं दुःखं दुःखावहम् - स्वेतरदुःखाकर्षकम्। ___अत्र प्रतितिष्ठति - ननु किमेतद्दुःखं नाम ? न च शीतोष्णादिपरीषहा एव, तेष्वपि महर्षीणां परमानन्दसमुद्भवदर्शनात्। न च यत्किञ्चित् कष्टमात्रम्, तत एव। नाप्यसातोदयः, प्रदेशोदयेऽतिव्याप्तेः, तस्य सुखफलकत्वात्। नापि विपाकोदयः, महर्षिष्वतिव्याप्तेः। न च पीडासंवेदनम्, अतीन्द्रियज्ञानिष्वतिव्याप्तेः, ते ह्यपरसत्त्वपीडां स्वीयज्ञानसामर्थेन संविदन्तोऽपि न दुःखिन इति। न चाहं दुःखीति ज्ञानमेव दुःखम्, एकेन्द्रियादिष्वव्याप्तेः,

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141