Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 52
________________ Re-ऋषिभाषितानि - ततोऽपि तत्रापि युद्धशीलो जनः। अयं भावः- नाजितेन्द्रियस्य काऽपि कार्यसिद्धिरस्तीति वचनात्ते यत्र तत्रापि यान्ति तत्र नैषामभीष्टविषयावाप्तिः, अपि तु तदुत्कतयोन्मार्गप्रवृत्तानां युद्धशीलजनेभ्यो दुःसहप्रहारवेदना एव। उपलक्षणमेतत्, तेन यत्किञ्चिन्निमित्तादपि दुःखाधिगम एवेत्यपि ज्ञेयम्। तदाह - यां यां करोति चेष्टां तया तया दुःखमादत्ते - इति । ___ यद्वा स्वयमेवाभीष्टानवाप्तेस्तत्प्रतिबन्धकैः सह युद्धकरणस्वभाव इत्यप्यर्थः। ततोऽपि प्राग्वदुःखमेव, तथा चागमः - तत्थावि दुक्खा ण विमुच्चइ से - इति। ततो द्विगुणितसुखाशतया यदसौ विचेष्टते तदाह णिरंकुसे व मातंगे, छिण्णरस्सी हए विवा। णाणावग्गहपब्भटे विविधं पवते णरे।।६-३।। निरङ्कुशः, अङ्कुशस्यैवाभावात्, भावेऽपि विफलत्वाद्वा, मातङ्गो गजः, स इव उपमान्तरमाह - छिन्नाऽत्युच्छृङ्खलत्वेन त्रुटिता रश्मिः - वल्गा, अश्वनियन्त्रणसाधनम्, यस्यासौ छिन्नरश्मिः , हयः-अश्वोऽपि वा, तद्वत् नानाप्रकारा अवग्रहाः मनोवाक्कायगुप्तिलक्षणाः, तेभ्यः प्रभ्रष्टः, विविधम्- विपरीतप्रकारेण स्वात्मकल्याणप्रतिकूलतयेत्यर्थः। प्रकर्षणाशुभाध्यवसायैकायनतासचिवतारूपेण वर्तते पापानुष्ठानोद्यतो भवति, नरः - मनुष्यः, उपलक्षणाद्देवादिश्च। उपमान्तरेण स्पष्टयति आर्षोपनिषद् - णावा अकण्णधारा व सागरे वायुणेरिता। चंचला धावते णावा, सभावाओ अ कोविता।।६-४।। नौः - तरी, न विद्यते कर्णधारो नियामको यस्याः साऽकर्णधारा, यथा सागरे समुद्रमध्ये वायुणेरिता - पवनेनाभ्रशकलवदितस्ततो विक्षिप्ता, अत एव चञ्चला - गतिस्थानाभ्यां द्विधाऽपि चपला, नौः - पोतः, धावते - आवर्तादौ भ्राम्यति। यद्वाऽगाधसागरतलाभिमुखतयाऽधस्ताद् गतौ त्वरत इत्यर्थः। कथमेवमित्याह - यतः स्वभावात् - अवारपारापरपारावस्थितेप्सितपुरप्रापकतालक्षणात्, चकारो हेत्वर्थः, स च योजित एव, कोपिता - विचालिता, दृश्यत एव चराचरे जगति कोपितस्य प्रकृतिविकार इति। उपमान्तरमुक्त्वोपनयति मुक्कं पुष्कं व आगासे णिराधारे तु से णरे। दढसुंबणिबद्धे तु, विहरे बलवं विहिं।।६-५।। मुक्तम्- स्वाधारात् प्रच्यावितम्, पुष्पमिव कुसुममिवाकाशे - गगने, तद्वन् निराधारः सर्वथा प्रभ्रष्टत्वात्। तुः - भिन्नपक्षद्योतकः, प्रच्याव्यमानपुष्पादप्यधिकतरनिराधारोऽयमिति हृदयम्। सः - स्त्र्यादिसक्तो नरः, दृढम्, त्रोटयितुमशक्यत्वात्, शुम्बम् - तृणविशेषनिष्पन्नदवरकः, तेन नितरां बद्धस्तु, कथमपि मोचयितुमशक्यत्वात्, विहरेत् - संसरणं कुर्यात्, बलवन्तं विधिम्१. बृहत्कल्पे । उ.१ ।। २ .मूलस्थ अकारो य - निष्पन्नः, इति सम्भाव्येयमुक्तिः। ३. झ-त-च-ट- मुक्कं । प-हु-ण-फ-ध-न- सुक्क । ख-ज-ठ-थ- सुक्कं । ४. क-ख-ज-थ-पढ-ण-फ-ठ-ध-न-ट- विहंगे। घ-च-छ-झ-त- विहरे । ५. सुपा सुपो भवतीति द्वितीयार्थे १. नीतीवाक्यामृते ।। २. प्रशमरती ।।४०।। ३. उत्तराध्ययने ।।३२-३०।। ४. ज्ञानावग्रहप्रभ्रष्ट इत्यप्यर्थः । प्रथमा।

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141