Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 48
________________ ५२ Re-ऋषिभाषितानि - कदाचित् फलानुत्पादः, प्रतिबन्धकसत्त्वात्प्रतिबद्धसामर्थ्यत्वादिति प्रतिबन्धकापगमार्थमुपदिशति- कुणिमम्- कुणपार्थो देश्यशब्दोऽयम्, मृतकमित्यर्थः, तं च न- नैव सेवेत, अयं भावःउक्तफलोत्पादप्रतिबन्धकस्तावत् स्त्री-मनोज्ञभोजनादिपुद्गलप्रवृत्तिरूप एव, स्त्र्यादि सर्वमपि पुद्गलजातं त्रैकालिकैरपि पर्यायैर्विचार्यमाणं मृतकमेवेति तदासेवालक्षणपरिचारपरिहारोपदेशोऽयम्। साभिप्रायश्च कुणिम-व्यपदेशः, विरागातिशयापादकत्वात्। ___यद्वा कुणिमः - नरकः, तथा चागमः - कम्मोवगा कुणिमे आवसंति ति। अत्र वृत्तिः- मांसपेशीरुधिरपूयान्त्रफिफिसकल्मषाकुले सर्वामेध्याधमे बीभत्सदर्शने हाहारवाक्रन्देन कष्टं मा तावदित्यादिशब्दावधीरितदिगन्तराले परमाधमे नरकावासे - इति। अत्र च फले हेतूपचारान्नरक इति पापकर्म। उपचारोऽप्ययमागमिकः, यथाहुः- एस खलु णरए - इति । तच्च न सेवेत - नैव कुर्यात्, नारकयातनाभयात्। कदाचिन्मृतकजुगुप्सया यातनाभयेन वाऽपि तदनासेवनं कश्चिन्न कुर्यादिति परमफलाभिमुख्यतया तत् सुकरं मन्यमानस्तत् प्रत्युत्साहयति समाधिम् - दर्शसमाधिस्थाननिषेवनफलात्मकम्, अभिदर्शयेत् - आत्मानमुपादेयतया तद्दर्शनं कारयेत्, ततः परमानन्दरूपां तां निरीक्ष्य सुकरा तत्प्रतिबन्धकापहतिः। ततश्चावश्यं साध्यसिद्धिरित्याह आर्षोपनिषद् - एवं से बुद्धे विरए विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि।। एवमित्यादि प्राग्वत्। इति पञ्चमपुष्पशालपुत्रनामाध्ययन आर्षोपनिषद् । ।। अथ षष्ठाध्यायः॥ तमेव उवरते मातंगसड्ढे कायभेदाति। आयति तमुदाहरे देवदाणवाणुमतं। तेणेमं खलु भो ! लोकं सणराऽमरं वसीकतमेव मण्णामि। तमहं बेमि त्ति रयं (वियत्त) वागलचीरिणा अरहता इसिणा बुइतं।।१।। तमेव - अनन्तरनिर्दिष्टसिद्धावस्थावस्थितमेव प्रणिधाय, उपरतः - तत्प्रतिबन्धकमनोवाक्कायव्यापारान्निवृत्तः, क इत्याहमातङ्गश्राद्धः, कर्मविदारणे कुञ्जरवच्छौण्डीर्यसम्पन्नत्वान् मातङ्ग एतेनाशेषचरणगुणसङ्ग्रहः, सार्वोपदेशश्रद्धानसमन्वितत्वाच्छ्राद्धः, एतेन ज्ञानदर्शनग्रहः, इतरस्य तदनुगामित्वात्। यद्वा निर्ग्रन्थशासनं परमार्थतया मन्यते इति मातङ्गः, मनेर्मन् मातौ च (उ.१००) इत्यङ्गः। अत एव श्राद्धः। तमेव विशेषयति - कायभेदः - शरीरादात्मनः पृथग्भावः, तमाददाति - उपादेयतयाङ्गीकुरुत इति कायभेदादिः । यद्वा कायभेदः-सिद्धावस्था, स एवादि- प्रधान प्रयोजनं यस्यासौ कायभेदादिः। न चास्य १. क-ख-ग-ज-द-ध-ढ-ण-थ- मतंग। घ-च-छ-झ- मातंग। ट- मतूंग। २. ख-पकायतेदाति । ३. क-ज-ढ-ण-ग-प-न-ठ-ट-ध- नमुदाहरे । ख- नमुदाहरो । फ- नमुदाहारो। ४. क-त्तियरं। प-ध-ढ-फ-ठ-ध-न-ट-ख-ग-ज-झ- त्तिरयं। घ-छ-त- वियत्त । च - विरयं । ५. सूत्रे दकारलोपः, प्राकृतत्वात्, ततश्च तश्रुतिः, आता-इत्यत्र यथा । १. सूत्रकृताङ्गे।।१-५-१।। २. आचाराने षट्कायारम्भविषयं वचनमिदम् ।।१-१४।।३६।। ३. उत्तराध्ययने ।। अध्य.१६ ।। स्थानाङ्गे ।।१०-३।।

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141