________________
५२
Re-ऋषिभाषितानि - कदाचित् फलानुत्पादः, प्रतिबन्धकसत्त्वात्प्रतिबद्धसामर्थ्यत्वादिति प्रतिबन्धकापगमार्थमुपदिशति- कुणिमम्- कुणपार्थो देश्यशब्दोऽयम्, मृतकमित्यर्थः, तं च न- नैव सेवेत, अयं भावःउक्तफलोत्पादप्रतिबन्धकस्तावत् स्त्री-मनोज्ञभोजनादिपुद्गलप्रवृत्तिरूप एव, स्त्र्यादि सर्वमपि पुद्गलजातं त्रैकालिकैरपि पर्यायैर्विचार्यमाणं मृतकमेवेति तदासेवालक्षणपरिचारपरिहारोपदेशोऽयम्। साभिप्रायश्च कुणिम-व्यपदेशः, विरागातिशयापादकत्वात्। ___यद्वा कुणिमः - नरकः, तथा चागमः - कम्मोवगा कुणिमे आवसंति ति। अत्र वृत्तिः- मांसपेशीरुधिरपूयान्त्रफिफिसकल्मषाकुले सर्वामेध्याधमे बीभत्सदर्शने हाहारवाक्रन्देन कष्टं मा तावदित्यादिशब्दावधीरितदिगन्तराले परमाधमे नरकावासे - इति। अत्र च फले हेतूपचारान्नरक इति पापकर्म। उपचारोऽप्ययमागमिकः, यथाहुः- एस खलु णरए - इति । तच्च न सेवेत - नैव कुर्यात्, नारकयातनाभयात्। कदाचिन्मृतकजुगुप्सया यातनाभयेन वाऽपि तदनासेवनं कश्चिन्न कुर्यादिति परमफलाभिमुख्यतया तत् सुकरं मन्यमानस्तत् प्रत्युत्साहयति समाधिम् - दर्शसमाधिस्थाननिषेवनफलात्मकम्, अभिदर्शयेत् - आत्मानमुपादेयतया तद्दर्शनं कारयेत्, ततः परमानन्दरूपां तां निरीक्ष्य सुकरा तत्प्रतिबन्धकापहतिः। ततश्चावश्यं साध्यसिद्धिरित्याह
आर्षोपनिषद् - एवं से बुद्धे विरए विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि।।
एवमित्यादि प्राग्वत्। इति पञ्चमपुष्पशालपुत्रनामाध्ययन आर्षोपनिषद् ।
।। अथ षष्ठाध्यायः॥ तमेव उवरते मातंगसड्ढे कायभेदाति। आयति तमुदाहरे देवदाणवाणुमतं। तेणेमं खलु भो ! लोकं सणराऽमरं वसीकतमेव मण्णामि। तमहं बेमि त्ति रयं (वियत्त) वागलचीरिणा अरहता इसिणा बुइतं।।१।।
तमेव - अनन्तरनिर्दिष्टसिद्धावस्थावस्थितमेव प्रणिधाय, उपरतः - तत्प्रतिबन्धकमनोवाक्कायव्यापारान्निवृत्तः, क इत्याहमातङ्गश्राद्धः, कर्मविदारणे कुञ्जरवच्छौण्डीर्यसम्पन्नत्वान् मातङ्ग एतेनाशेषचरणगुणसङ्ग्रहः, सार्वोपदेशश्रद्धानसमन्वितत्वाच्छ्राद्धः, एतेन ज्ञानदर्शनग्रहः, इतरस्य तदनुगामित्वात्। यद्वा निर्ग्रन्थशासनं परमार्थतया मन्यते इति मातङ्गः, मनेर्मन् मातौ च (उ.१००) इत्यङ्गः। अत एव श्राद्धः। तमेव विशेषयति -
कायभेदः - शरीरादात्मनः पृथग्भावः, तमाददाति - उपादेयतयाङ्गीकुरुत इति कायभेदादिः । यद्वा कायभेदः-सिद्धावस्था, स एवादि- प्रधान प्रयोजनं यस्यासौ कायभेदादिः। न चास्य १. क-ख-ग-ज-द-ध-ढ-ण-थ- मतंग। घ-च-छ-झ- मातंग। ट- मतूंग। २. ख-पकायतेदाति । ३. क-ज-ढ-ण-ग-प-न-ठ-ट-ध- नमुदाहरे । ख- नमुदाहरो । फ- नमुदाहारो। ४. क-त्तियरं। प-ध-ढ-फ-ठ-ध-न-ट-ख-ग-ज-झ- त्तिरयं। घ-छ-त- वियत्त । च - विरयं । ५. सूत्रे दकारलोपः, प्राकृतत्वात्, ततश्च तश्रुतिः, आता-इत्यत्र यथा ।
१. सूत्रकृताङ्गे।।१-५-१।। २. आचाराने षट्कायारम्भविषयं वचनमिदम् ।।१-१४।।३६।। ३. उत्तराध्ययने ।। अध्य.१६ ।। स्थानाङ्गे ।।१०-३।।