________________
Re-ऋषिभाषितानि - स्पृशेदेतावदवनमनं कुर्यादिति भावः, इत्थमेव विनयोन्नययोगात्। अत एव सर्वत्र शय्यादौ नीचैर्वृत्तिरभिहिताऽऽगमे, यथा-नीयं सेज्जं गई ठाणं, नीयं च आसणाणि य। नीयं च पाए वंदिज्जा, नीयं कुज्जा य अंजलिं - इति। तथा पानभोजने तस्य विनयार्हधर्माचार्यस्य भोगाय त्यक्त्वा - सारयोस्तयोर्निवेदनं कृत्वा, सर्वं च शयनासनम्, त्यक्त्वेत्यनुवर्तते, अन्यत्र तदनुचितात् । इत्थमेव शोधितकोटिशुद्धिरपीति भावनीयम्, तदुदितम्- सोहिय गुरुदत्तसेसभोयणाओ - इति । उपलक्षणमेतत् कालाधुचितसर्वसमर्पणस्य, तथा चार्षम् - कालं छंदोवयारं च पडिलेहित्ताण हेउहिं। तेण तेण उवाएण तं तं संपडिवायए - इति । किमस्य विनयस्य फलमित्याह
णमंसमाणस्स सदा संती आगम वट्टती। कोध-माणप्पहीणस्स आता जाणइ पज्जवे।।५-३।।
नमस्यमानस्य - विनयावनम्रगात्रस्य सदा शान्तिः - मदादिकषायोपशमः, आगमः - ज्ञानं च वर्तते, अप्रतिपातितयाऽऽविर्भवतीत्यर्थः। विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् - इत्युक्तेः । उपलक्षणमेतच्छेषनिःशेषगुणानाम्, अन्वाह- कल्याणानां सर्वेषां भाजनं विनयः- इति । विणओ गुणाण मूलं - इति च । एवमुत्तरोत्तरविशुद्ध्या क्षायिकज्ञानाविर्भावेन यद्भवति तदाह१. दशवकालिके ।।९-२-१७।। २. साराणां च यथाशक्ति वस्त्रादीनां निवेदनम् । योगविन्दौ । ।११३ ।। ३. धर्मविन्दौ ।।१-३२ ।। ४. प्रत्याख्यानभाष्ये ।।४५ ।। ५. दशवैकालिके ।।९-२-२०।। ६. घ, झ - आगम्म। ७-८. प्रशमरतो । ७२, ७४ ।। ९. पुष्पमालायाम् ।।३००।।
- आर्षोपनिषद् - क्रोधमानप्रहीणस्य, प्राकृतत्वाद्विशेषणपरनिपातः, ततश्च प्रकर्षण हीनौ-क्षयमुपगतौ क्रोधमानौ यस्य सः - प्रहीणक्रोधमानः स्वात्मैव, तस्यात्मा - स्वयमेव जानाति पर्यवान् - पर्यायान्, स्वपरयोस्त्रैकालिक-निःशेषविशेषज्ञानज्ञेयान् सत्त्वादिधर्मानित्यर्थः, जो एगं जाणे सो सव्वं जाणे, जो सव्वं जाणे सो एणं जाणे - इत्यागमात्। क्रोधेत्यादिविशेषणेनेदं ज्ञापितम् - न हि वीतरागतामन्तरेण सर्वज्ञतेति। उभयमपीदं विनयफलमिति वृत्तार्थः।
तत्फलकताऽपि विनयस्य सामग्रीसमवधानेनेति तदुपायमाचष्टे
ण पाणे अतिपातेज्जा, अलियाऽदिण्णं च वज्जए। ण मेहुणं च सेवेज्जा, भवेज्जा अपरिग्गहे।।५-४।।
सुगमम्। न च चारित्रविनयरूपतयाऽस्य विनय एव सामग्र्यमिति वाच्यम्, प्रकरणायातस्य प्रतिरूपविनयस्य विवक्षितत्वात्तत्र च सामग्रीविरहेऽविगानात्। अतः सामग्र्ये यतितव्यमित्युपदेशमुपेक्ष्य पुनरपि फलमेव निगदति, फलश्रवणस्य प्रवृत्ती बलवत्तरप्रयोजकत्वात्
कोध-माणपरिणस्स आता जाणति पज्जवे। कुणिमं च ण सेवेज्जा, समाधिमभिदंसए।।५-५।।
क्रोधमानौ ज्ञ-परिज्ञया प्रत्याख्यानपरिज्ञया च परिजानातीति क्रोधमानपरिज्ञः, तस्येत्यादि प्राग्वत्। सामग्रीसमवधानेऽपि
१. मनोवाक्कार्यः परानुवृत्तिः प्रतिरूपविनयः। तदाह- पडिरूवो खलु विणओ पराणुअत्तिमइओ मुणेअब्दो- दशवैकालिकनियुक्ती । ।३२३ ।।