________________
४८ -
Re-ऋषिभाषितानि
४७ स्वर्ग वा श्वभ्रमेव वेति । न चेष्टापत्तिः, अप्पा कत्ता विकत्ता य सुहाण य दुहाण य - इत्यागमबाधात्। ___इतश्चैतदभ्युपगन्तव्यम्, व्यापारशतेनाऽपि शुकवद् बकपाठनस्यासम्भवात्, तदाह-नाज्ञो विज्ञत्वमायाति विज्ञो नाज्ञत्वमृच्छति। निमित्तमात्रमन्यस्तु गतेधर्मास्तिकायवत् - इति । अन्यथा तु तीर्थकरादे रागादिदोषाभ्युपगमप्रसङ्गः, तदाश्रितानां चित्रगतिश्रुतेरिति निपुणं निभालनीयम्। अत एव पारमर्षम्- णो णं गोयमा ! गुरुसीसगाण निस्साए संसारमुत्तरिज्जा। णो णं गोयमा परस्स निस्साए संसारमुत्तरिज्जा।अप्पणो निस्साए संसारमुत्तरेज्जा- इति । एवं च
सीलक्खरहमारूढो, णाण-दसणसारथी। अप्पणा चेव अप्पाणं जुदित्ता सुभमेहती।।४-२५।।
शीलमेवाक्षः - चक्रं यत्र स शीलाक्षः, स चासौ रथश्च शीलाक्षरथः शिवपुरप्रस्थितात्मैव, रूपकबीजं मुख्याङ्गत्वसाधर्म्यम्। तमारूढः सततमपि तदर्पितमनोवाक्कायतयोपस्थितः । स्वारोहणासम्भव इति चेत् ? सत्यम्, किन्तु पर्यायविशेषतया भेदविवक्षणाददोषः। तमेव विशेषयति - ज्ञानदर्शने सारथी यस्य सः- ज्ञानदर्शनसारथिः, तदन्तरेणान्धक्रियावद्वैफल्यफलकत्वात्, प्रत्यपायावहत्वाच्च। सोऽयमात्मना चैवात्मानं चोदित्वा शुभम्कल्याणम्, एधते - प्राप्नोति। सदुपायस्योपेयसाधकत्वनियमात् १. महाभारते ।।३०-२८ ।। २. उत्तराध्ययने । ।२०-३७।। ३. इष्टोपदेशे ।।३५ ।। ४. महानिशीथे । ।अ.३ ।। ५. यथा हि शैक्षस्य व्रतेषूपस्थापनाऽभिधीयते, शश्वत्त्वाद्ब्रतानाम्, तथात्रापि द्रष्टव्यम्।
- आर्षोपनिषद् - सिद्धयादिपरम्पराद्वारेण परमपदमवाप्नोतीत्यर्थः। एतदेवाह
एवं से सिद्ध बुद्धे मुत्ते विरए विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि।। एवमित्यादि प्राग्वत्। इति चतुर्थेऽङ्गर्षिनामाध्ययन आर्षोपनिषद्।
॥ अथ पञ्चमाध्यायः।। अनन्तराध्ययनेऽहङ्कारादिदोषापनोदोपायोऽभिहितः, अत्रापि तमेवप्रकारान्तरेणाभिदधन्नाह
"माणा पच्चोतरित्ताणं विणए अप्पाणुवदंसए।" पुष्फसालपुत्तेण अरहता इसिणा बुइयं ।।५-१।।
मानात्- जात्यादिमदलक्षणाद् गजेन्द्रोपमितात्, प्रत्यवतीर्य, दर्पावलिप्ततां विमुच्येति भावः। विनये-ज्ञानादिप्रकारे,
आत्मानमुपदर्शयेत् - व्यवस्थापयेत्। केनैवमुदितमित्याहपुष्पशालपुत्रेणार्हतर्षिणोदितमिति। उपदर्शनोपायमेवाह
पुढविं आगम सिरसा थले किच्चाण अंजलिं। पाण-भोजण से चिच्चा सव्वं च सयणाऽऽसणं।।
॥५-२।। पृथिवीमागम्य, एतेन मानगजात् प्रत्यवतरणेऽन्तरालावस्थाननिषेधमाह, निःशेषतया मदसम्मर्दमर्दनं विधेयमिति तात्पर्यार्थः। ततः शिरसा स्थले कृत्वाऽञ्जलिम्, ललाटसंश्रितमुकुलितहस्तयोर्मुद्रा - अञ्जलिः, तं कृत्वा शिरसा भूमि १. माणगइँदेण इत्थुवमा-इत्विक्तेः (उपदेशमाला-३१२) । २. ख,ज-आगम, क- आगाम | ३. किच्चाण - इति आचार्यादयः (कृतिः- वन्दनम्, तदर्हन्तीति कृत्याः, दण्डादित्वाद् यप्रत्ययः) यथायोगमध्याहारेणात्राप्यर्थयोजनं कार्यम् ।