________________
70 ऋषिभाषितानि
जनितफलम्, आत्मनः मम, उदीर्णाभावेन विषयविरहात्तज्ज्ञानस्याप्यसत्त्वान्न किञ्चिज्जानामि ममोदीर्णतयेति तात्पर्यम् । दुर्धरमेतादृशं माध्यस्थ्यं स्तुत्यादिश्रवण इति चेत् ? सत्यम्, किन्तु परिणतजिनवचनसुधारसानां सुधरमेव, सेयं सुधा-वंदिज्जतो हरिसं निंदिज्जतो करिज्ज न विसायं । न नमिय-निंदियाण सुगई कुगई च बिंति जणा।। अप्पा सुगई साहइ सुप्पउत्तो दुग्गइं च दुप्पउत्तो तुट्ठो रुट्ठो अपरो न साहगो सुईकुगईणं इत्यादि । तया भावितस्य विभक्तिलोप आर्षप्राकृतत्वात् । मम नास्तीदृशम्परापादितगुणदोषादि, इति सङ्ख्याय मत्वा न सवलाम्यहम्। अत्र गुणापादनपक्षे सञ्ज्वलनार्थो दर्पदृप्तचित्तता, दोषापादनपक्षे क्रोधः, अन्वाह च यदि सत्यं कः कोपः ? यद्यलीकं किञ्च कोपेन - इति । यद्वा भावितमिति परपरिकल्पितम्, ईदृशं दोषादि मम तत्त्वतो नास्तीत्यप्यर्थः । ततो द्वा मम सञ्ज्वलनं व्यर्थम्, तथा चाभिदधन्ति रुष्टैर्जनैः किं ? यदि चित्तशान्तिः, तुष्टैर्जनैः किं ? यदि चित्ततापः - इति । तदुक्तम्अपमानादयस्तस्य विक्षेपो यस्य चेतसः । नापमानादयस्तस्य न क्षेपो यस्य चेतस - इति । तदेवं माध्यस्थ्यसुस्थो यत् करोति तदाहअक्खोवंजणमादाय सीलवं सुसमाहिते ।
अप्पणा चेवमप्पाणं चोदित्ता वहते रहं ।।४-२४।।
-
ण-द-न-प- माताय घ-छ-झ-त- मादाय
जदित्ता । त-ध-छ- चोदित्ता । थ जुदित्ता झ- चोदितो ।
४५
१. पुष्पमालायाम् ।।२१३-२१४ ।। २ दीप्त इत्यपि। ३ तत्त्वार्थभाष्ये । । ९-६ ।। सिद्धसेनीवृत्तौ ४ हृदयप्रदीपे । । २६ ।। ५. समाधितन्त्रे ।। ३८ ।। ६. क-ख-ज-ट-ठ-ढ
च-थ-फ- माताया। ७ च-ट-ठ-ध-न-फ
आर्षोपनिषद्
अक्षोपाञ्जनम् - यात्रामात्राशनम्, तदुपमत्वात्तद्व्यपदेशः, अयं भावः, यथा हि शकटादिचक्रे स्नेहाभ्यङ्गनमुचितमात्रयैव क्रियते, तथैव कार्यसिद्धिभावात् तथैव धर्मशरीराधारतयोपादीयमान आहारोऽप्युचितमात्र एव श्रेयान्, अल्पत्वे योगानिर्वाहात्, आधिक्ये जाड्याद्यापत्तेश्चः प्राहुश्च व्रणलेपाक्षोपाङ्गवदसङ्गयोगभरमात्रयात्रार्थम् इति । तदादाय वेदनादिकारणोत्पत्तौ निरासक्तमुपभुज्य, शीलवान्, अष्टादशसहस्रशीलाङ्गसम्पन्नत्वात्, सुसमाहितः, परिशीलितप्रत्याहारत्वात् ।
आत्मना चैवमात्मानं चोदितः - प्रेरितः, वहते रथम् । आत्मनो रथरूपकं शिवपुरं प्रति प्रस्थितत्वात् । प्रेरयिताऽपि स्वयमेवेत्यात्मना - इत्युदितम् । नन्वेवं चोदनादिप्रतिपादकागमविरोधः, गुरुकृतत्वेन तदनभ्युपगमादिति चेत् ? न, व्यवहारतो गुरुकृतत्वेऽपि निश्चयेन तद्विरहात्, आत्मन एव निश्चयगुरुभूतत्वात्, उक्तं च- स्वस्मिन् सदभिलाषित्वादभीष्टज्ञापकत्वतः । स्वयं हितप्रयोक्तृत्वादात्मैव गुरुरात्मन इति । व्यवहारोपेक्षैवमिति चेत् ? सत्यम्, किन्तु नैष दोषः, स्वेतरोपेक्षायाः सर्वनयसाधारणत्वात्। वस्तुतस्तु गुरोरपि शिष्यात्मरथशिवपुरप्रस्थाने निमित्तमात्रता, साक्षात् तद्रथप्रेरयिता तु स्वयमेव तदात्मा, एतदनभ्युपगमे तु परमतप्रवेशः, यथोदितम् - इश्वरप्रेरितो गच्छेत्
४६
१. प्रशमरती ।।१३५ ।। २ कारणघटक आहाराहृतिः कल्पत इति सिद्धान्तः, यथोक्तम्- वेयण वेबावच्चे इरिवट्ठाए संजमट्ठाए तह पाणवत्तियाए छट्टं पुण धम्मचिंताए इति । (उत्तराध्ययने ।। २६-३२ ।। ) ३. प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः ।। अभिधानचिन्तामणी १-८३ ।। ४ इष्टोपदेशे । । ३४ । ।