________________
ऋषिभाषितानि
वायुसमूहवत् तन्निन्दा प्रशंसा वा गच्छति, असद्भूतत्वेन निःसारतयाऽत्यन्तं लाघवमुपगतत्वेन तद्वदसौ दिक्षु निर्याति नश्यति चेति भावः ।
यद्वा जाल इतीक्षुपर्यायो देश्यः शब्दः, ततः पदैकदेशे पदसमुदायोपचारात् सा निन्दा प्रशंसा वेक्षुपुष्पसङ्घातवद्वैफल्यं गच्छतीत्यर्थः । यद्वा 'जल घातने' इति धातुपाठानुसारेण वायुघातवत् - वायौ प्रहारायासवद्वैफल्यं गच्छतीत्यर्थः । तस्मात्
४३
जं च बाला पसंसंति, जं वा णिंदंति कोविदा । शिंदा वा सा पसंसा वा पप्पाति कुरुए जगे ।।४-२० ।। यच्च बालाः- अज्ञाः प्रशंसन्ति, यद्वा निन्दन्ति कोविदाःगूढहृदयाः, को वेत्त्यभिप्रायमस्येति तन्निरुक्तेः । उभयमपीदमसद्भूतम्, एकेषामज्ञानोपहतत्वादन्येषां रागादिसङ्क्लिष्टत्वाच्च । नात्र किञ्चिदपि चित्रम्, यतो निन्दा वा सा प्रशंसा वा प्राप्यत एव कुरुके ै मायाबहुलत्वेन तदात्मके जगति, नात्र किञ्चनाप्राप्तपूर्वमिति कृतं शोकेनालं च हर्षेणेत्यभिप्रायः । शुभाशुभफलाप्त्या हि हर्षशोकौ दृश्येते, अत्र तु तयोरभाव एवेत्याप्रेडितमपि प्रकारान्तरेणाह
जो जत्थ विज्जती भावो, जो वा जत्थ ण विज्जती । सो सभावेण सव्वो वि लोकम्मि तु पवत्तती । । ४ - २१ । । १. पाइयसद्दमहण्णवे ।। पृ. ७५५ ।। २. अभिधानचिन्तामणिस्वोपज्ञवृत्ती । । ३-५ ।। * क पप्पीवि, ख पंपाति, ग- पप्पाति, घ-च-झ-पप्पा ति छ पप्पाति (प्राप्यते) ३. मायापर्यायो देश्यः कुरुय शब्दः तत एतद्रूपनिष्पत्तिरिति ज्ञेयम् । ४. प्रतिपाद्यानुरोधेन आ प्रतिपत्तिं प्रतिपादनस्यादुष्टत्वात् ।
आर्षोपनिषद्
यो यत्र विद्यते भाव:, यो वा यत्र न विद्यते सः विद्यमानतेतरताबुद्धिविषयो भाव एव, स्वभावेन सर्वोऽपि लोके तु प्रवर्तते। अत्र प्रवृत्तौ परापेक्षापरिहारार्थं स्वभावेनेत्युक्तम्। देशापेक्षाप्रत्ययनिरासाय निःशेषपदार्थसार्थसङ्ग्रहार्थं च सर्व इत्युक्तम्। एवमात्मनोऽपि स्वत एव स्वकृतकर्मानुरोधेन प्रवृत्तिः, न त्वज्ञादिकृतप्रशंसादिप्रयोज्या सेत्याशयः ।
स्वरूपस्थितिमेव निदर्शनेन निगदति
४४
विसं वा अमतं वा वि सभावेण उवट्टितं । चंद-सूरा मणी जोती तमो अग्गी दिवं खिती । ।
।।४-२२।।
विषं वाऽमृतं वाऽपि स्वभावेनोपस्थितम्, चन्द्र-सूर्यौ मणिर्ज्योतिस्तमोऽग्निद्यः क्षितिः । सर्वमप्येतत् स्वस्थितौ नान्यानपेक्षते। अन्यत्रेश्वरादित्यध्याहार्यमिति चेत् ? निरस्तैषामीश्वरकर्तृकताऽन्यत्रेति नात्र प्रतन्यते । एवं मदात्मनोऽपि स्वत एव स्थितिः, न परोदितजन्यविशेषाधिकरणं सेत्युपनयतिवदतु जणे जं से इच्छियं, किं णु कलेमि उदिण्णमप्पणो । भावित मम णत्थि एलिसे, इति संखाए ण संजलामऽहं ।।
।।४-२३।।
वदतु जनो यत्तस्येच्छितम् - मत्स्तुत्यादिप्रवृत्तस्य विवक्षितम्, किं नु कलयामि- जानामि, उदीर्णम्- तद्वचनोच्चार
१. दृश्यन्तां लोकतत्त्वनिर्णय - शास्त्रवार्तासमुच्चय वीतरागस्तोत्र - सन्मतिप्रकरण - स्याद्वादरत्नाकरप्रभृतिग्रन्थाः २ क-ख-ज-ट-ठ-ढ-ण-ध-ध-फ- कालेमि ग का (क) लेमि घ-च-झ-त-न- कलेमि छ कलेमि-करोमि ।