________________
78 ऋषिभाषितानि
४१
२
क्षयोपशमसामर्थ्याविर्भूतलब्धिविशेषसम्पन्नाः, ते च ज्ञानिनः - उत्तमज्ञानिनः । विशेषणवैयर्थ्यमिति चेत् ? न, ज्ञानमात्रस्य सर्वजीवसाधारण्यात् । प्रशंसार्थमतुबा विवक्षितार्थलाभाद्वैयर्थ्यमेवेति चेत् ? न, विशिष्टप्रतिपत्तिसाधकतया विशेषणसार्थक्यादिति कृतं प्रसङ्गेन, प्रस्तुतं प्रस्तुमः । इत्थं च
जड़ मे परो पसंसाति असाधुं साधु माणिया । न मे सा तायए भासा अप्पाणं असमाहितं । । ४ - १७ । । यदि मां परः प्रशंसते, कीदृशम् ? असाधु, साधुरयमिति मत्वा । न मां सा त्रायते भाषा - असद्भूत प्रशंसा लक्षणा, आत्मानमसमाहितम्, समाधेरेव दुर्गतिनिरोधलक्षणत्राणप्रयोज - कत्वेन प्रशंसादेरन्यथासिद्धिरिति भावः । अत एव
जति मे परो व गरहाति साधुं संतं णिरंगणं ।
सक्कोस भासा अप्पाणं सुसमाहितं । ।४-१८ ।। यदि वा मां परो गर्हति कीदृशमित्याह साधुम्, सच नामादिनाऽपि स्यादिति भावसाधुप्रतिपत्तय आह- शान्तम् - उपशमामृताऽऽप्लावितात्मप्रदेशम्, एतेनाशेषगुणाक्षेपः, उवसमसारं खु सामण्णं इति वचनात् । मा भूत् कस्यचित् क्रोधोपशममात्रसम्प्रत्यय इत्येनमेव विशेषयन्नाह - निरङ्गनम्
१. सम्भवव्यभिचाराभ्यां स्वाद्विशेषणमर्थवदितिन्यायेनात्रोत्तमत्वस्य ज्ञानित्वाव्यभिचाराद् व्यर्थतापादनं द्रष्टव्यम् । २. भूम-निन्दा - प्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुवादयः इत्युक्तेः । ३. ख-ज-ट-ठ-ड-ढ-ण-थ-ध-न-प- णमे साकोसए। गघ- झत ण मे सऽक्कोसए। च ण मे सक्कोसए फ ण मे सोकोसए। ४. कल्पसूत्रे ।। नवमक्षणे ।।
आर्षोपनिषद् रागरहितम्, ततः किमित्याह- न मां साऽऽक्रोशते भाषा, विशेषणद्वारेणात्रैव हेतुमाह- आत्मानं सुसमाहितम्। असद्भूतविषयत्वेनासत्तया निष्क्रियत्वादाक्रोशनस्यैवाऽसम्भव इति हृदयम् । आक्रोशः पूर्वार्धे स्वयमभ्युपगम्योत्तरार्धे निषिद्धः, तन्न ज्ञायते किमत्र तत्त्वमित्यत्राह
४२
जं उलूका पसंसंति, जं वा णिंदंति वायसा । णिंदा वा सा पसंसा वा वायू जाले व्व गच्छती ।। ।।४-१९।।
यदुलूका: घूकाः, तामसत्वेनैषामज्ञजीवोपलक्षणमिदम्। प्रशंसन्ति- असद्भूतविषयवर्णनां विदधति । यद्वा निन्दन्ति वायसाः - काका, ते हि विष्टादिविलोडनादिकृत्त्वेन विवेकविकला इति निर्विवेकजनोपलक्षणमिदम् । विधेयमाह - सा निन्दा वा सा प्रशंसा वा वायुज्वालवत्, पवनमिव वह्निशिखेव च वैफल्यं गच्छति । यथा हि तयोरन्वयद्वारेण विकारविरहाद् विशीर्णतामात्रम्, नान्यत् किञ्चित् फलम्, तथैवासद्भूतप्रशंसाद्यपि प्रशंसाविषयसद्भावाप्रयोजकत्वेन मुधैव गच्छति, तद्भाषावर्गणापुद्गलानां दिक्षु विशीर्णतामन्तरेण फलाभाव इति हृदयम् ।
यद्वा समूहार्थो जालशब्दः, लिङ्गव्यत्यय आर्षत्वात् । ततश्च
-
१. आगमिकोऽयमर्थः, औपपातिक प्रज्ञापना- राजप्रश्नीय-उत्तराध्ययनागमाभिहितत्वात्, वृत्त्यादेस्तदङ्गतया कथञ्चित्तदभिन्नत्वात् । २. विषयविरहस्त्वाक्रोशहेतुत्वेन कल्पितानां क्रोधादिदोषाणामभावात्, तदभावोऽप्युपशमादिप्रयुक्तसमाधियोगात् । ३. क-ख-ज-ट-ठढ-ण-द-ध-न-प-फ वायू जालेव्व घ वायु जाले व्व गच वायुजालेव्व झ- वायू जाले । ४. इदं च व्यवहारापेक्षया एकान्तविनाशायोगात् ।