________________
ऋषिभाषितानि
३९
प्रकटैवेति किं दोषापह्नवेन ? कश्च तत्परिहारोपदेशविषय इति चेत् ? अत्राह
सुकडं दुक्कडं वा वि अप्पणो यावि जाणति । ण य णं अण्णो विजाणाति सुक्कडं, णेव दुक्कडं । ।
।।४-१३।।
सुकृतम् - सत्कृत्यम्, दुष्कृतम् - असत्कृत्यं वाऽपि, आत्मनश्चापि जानाति, अपिना दोषादिपरिणतस्वरूपग्रहः । न च, णं - वाक्यालङ्कारे, अन्यः कश्चिदप्यर्वाग्दृग् विजानाति, किमित्याह- तस्य सुकृतम्, इतरं तर्हि ज्ञास्यतीत्याह - नैव दुष्कृतम्, अर्वाग्दृक्त्वादेव यावदसङ्ख्येयकालान्तरिततद्विपाकदर्शने सामर्थ्यविरहात्। ततः पापिनां तदपह्नवप्रवृत्तिः कारुणिकानां तत्परिहारोक्तिश्चोपपन्नैव । किमत्र प्रमाणं यदन्ये तत्सुकृतादि न विदन्तीत्यत्राह -
परं कल्लाणकारि पि 'पावकारिं त्ति बाहिरा । पावकारि पि ते 'बूया सीलमंतो' त्ति बाहिरा । । ४ - १४ ।। नरं कल्याणकारिणमपि एष पापकारीति बाह्याः - अतीन्द्रियज्ञानसम्पन्नानन्तर्भूताः प्राकृतजना व्यपदिशन्ति । पापकारिणमपि ते ब्रूयात् शीलमान् अयं सच्चारित्री इति बाह्याः सद्वृत्तत्वेन
किञ्चिदनुशास्तिवचः कथयतु
१. च कारिंति, ध-त कारिं ति ख पावकारिपि पावकारित्ति। ण णवकारिपि ग कारिन्ति, क-ज-ट-ठ-ढ-ध-ध-न-प-फ कारिति । २. कण पावप्पि तेण बूया । ख-ज-प- पावकारिप्पि ते। ग-च-झ- पावकार्रिपि ते ट-ठ-थ-ध- पावकारिप्पि ते पूया ढ पावपि तेण रे वूया न-फ- पावकारिपि ते वूया घ-त कारिं ति णं ।
ܕ
-
आर्षोपनिषद्
व्यपदिशन्ति । यद्वा बूया त्ति ब्रूयुः, आर्षत्वाद्वचनव्यत्ययः । ततश्च – ते बाह्याः पापकारिणमपि शीलमानिति ब्रूयुरित्यर्थः । अहो सुन्दरम् ! क्रियन्तां पापानि, पीयन्तां शीलशालियशांसीत्यस्माकमिष्टोक्तिरियमित्यत्राह
४०
चोरं पिता पसंसंति, मुणी वि गरहिज्जति ।
ण से इत्तावताऽचोरे, ण से इत्तावताऽमुणी ।।४-१५ ।। चौरमपि तावद् बाह्याः प्रशंसन्ति, आस्तामन्यमित्यपिशब्दार्थः । मुनिरपि - पुद्गलाप्रवृत्तिलक्षणमौनसम्पन्नोऽपि गर्ह्यते, अज्ञानादिवशीभूतैर्बाह्यैरेव। पुनरुक्तमिदमिति चेत् ? न,
-
साभिप्रायत्वादुपन्यासस्य। तमेवाह - न सः - चौरः एतावता - मुग्धप्रशंसामात्रेण, अचौर: चौरभिन्नः प्रशस्तकार्यकृत्, नापि सः भावमुनिः, एतावता - अज्ञगर्हामात्रेण, अमुनिः मुनिभिन्नो गर्ह्यकार्यकारी । यतः -
णऽण्णस्स वयणाऽचोरे, णऽण्णस्स वयणाऽमुणी । अप्पं अप्पा वियाणाति जे वा उत्तमणाणिणो ।। ।।४-१६।। नान्यस्य वचनादचौरः, नान्यस्य वचनादमुनिः, वस्तुस्वरूपस्य परव्यपदेशानधीनत्वात् । किं तर्हि तत्स्वरूपमित्याह - आत्मानमात्मा स्वयं विजानाति, अन्वाह च - अप्पा जाणइ अप्पा जहडिओ - इति । ज्ञात्रन्तरमाह - ये वोत्तमज्ञानिनः उद्गतं तमः - अज्ञानं येषां ते उत्तमाः - ज्ञानावरणीयक्षय
१. उपदेशमालायाम् ।। २३ ।।
-