Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 47
________________ Re-ऋषिभाषितानि - स्पृशेदेतावदवनमनं कुर्यादिति भावः, इत्थमेव विनयोन्नययोगात्। अत एव सर्वत्र शय्यादौ नीचैर्वृत्तिरभिहिताऽऽगमे, यथा-नीयं सेज्जं गई ठाणं, नीयं च आसणाणि य। नीयं च पाए वंदिज्जा, नीयं कुज्जा य अंजलिं - इति। तथा पानभोजने तस्य विनयार्हधर्माचार्यस्य भोगाय त्यक्त्वा - सारयोस्तयोर्निवेदनं कृत्वा, सर्वं च शयनासनम्, त्यक्त्वेत्यनुवर्तते, अन्यत्र तदनुचितात् । इत्थमेव शोधितकोटिशुद्धिरपीति भावनीयम्, तदुदितम्- सोहिय गुरुदत्तसेसभोयणाओ - इति । उपलक्षणमेतत् कालाधुचितसर्वसमर्पणस्य, तथा चार्षम् - कालं छंदोवयारं च पडिलेहित्ताण हेउहिं। तेण तेण उवाएण तं तं संपडिवायए - इति । किमस्य विनयस्य फलमित्याह णमंसमाणस्स सदा संती आगम वट्टती। कोध-माणप्पहीणस्स आता जाणइ पज्जवे।।५-३।। नमस्यमानस्य - विनयावनम्रगात्रस्य सदा शान्तिः - मदादिकषायोपशमः, आगमः - ज्ञानं च वर्तते, अप्रतिपातितयाऽऽविर्भवतीत्यर्थः। विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् - इत्युक्तेः । उपलक्षणमेतच्छेषनिःशेषगुणानाम्, अन्वाह- कल्याणानां सर्वेषां भाजनं विनयः- इति । विणओ गुणाण मूलं - इति च । एवमुत्तरोत्तरविशुद्ध्या क्षायिकज्ञानाविर्भावेन यद्भवति तदाह१. दशवकालिके ।।९-२-१७।। २. साराणां च यथाशक्ति वस्त्रादीनां निवेदनम् । योगविन्दौ । ।११३ ।। ३. धर्मविन्दौ ।।१-३२ ।। ४. प्रत्याख्यानभाष्ये ।।४५ ।। ५. दशवैकालिके ।।९-२-२०।। ६. घ, झ - आगम्म। ७-८. प्रशमरतो । ७२, ७४ ।। ९. पुष्पमालायाम् ।।३००।। - आर्षोपनिषद् - क्रोधमानप्रहीणस्य, प्राकृतत्वाद्विशेषणपरनिपातः, ततश्च प्रकर्षण हीनौ-क्षयमुपगतौ क्रोधमानौ यस्य सः - प्रहीणक्रोधमानः स्वात्मैव, तस्यात्मा - स्वयमेव जानाति पर्यवान् - पर्यायान्, स्वपरयोस्त्रैकालिक-निःशेषविशेषज्ञानज्ञेयान् सत्त्वादिधर्मानित्यर्थः, जो एगं जाणे सो सव्वं जाणे, जो सव्वं जाणे सो एणं जाणे - इत्यागमात्। क्रोधेत्यादिविशेषणेनेदं ज्ञापितम् - न हि वीतरागतामन्तरेण सर्वज्ञतेति। उभयमपीदं विनयफलमिति वृत्तार्थः। तत्फलकताऽपि विनयस्य सामग्रीसमवधानेनेति तदुपायमाचष्टे ण पाणे अतिपातेज्जा, अलियाऽदिण्णं च वज्जए। ण मेहुणं च सेवेज्जा, भवेज्जा अपरिग्गहे।।५-४।। सुगमम्। न च चारित्रविनयरूपतयाऽस्य विनय एव सामग्र्यमिति वाच्यम्, प्रकरणायातस्य प्रतिरूपविनयस्य विवक्षितत्वात्तत्र च सामग्रीविरहेऽविगानात्। अतः सामग्र्ये यतितव्यमित्युपदेशमुपेक्ष्य पुनरपि फलमेव निगदति, फलश्रवणस्य प्रवृत्ती बलवत्तरप्रयोजकत्वात् कोध-माणपरिणस्स आता जाणति पज्जवे। कुणिमं च ण सेवेज्जा, समाधिमभिदंसए।।५-५।। क्रोधमानौ ज्ञ-परिज्ञया प्रत्याख्यानपरिज्ञया च परिजानातीति क्रोधमानपरिज्ञः, तस्येत्यादि प्राग्वत्। सामग्रीसमवधानेऽपि १. मनोवाक्कार्यः परानुवृत्तिः प्रतिरूपविनयः। तदाह- पडिरूवो खलु विणओ पराणुअत्तिमइओ मुणेअब्दो- दशवैकालिकनियुक्ती । ।३२३ ।।

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141