Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 45
________________ 70 ऋषिभाषितानि जनितफलम्, आत्मनः मम, उदीर्णाभावेन विषयविरहात्तज्ज्ञानस्याप्यसत्त्वान्न किञ्चिज्जानामि ममोदीर्णतयेति तात्पर्यम् । दुर्धरमेतादृशं माध्यस्थ्यं स्तुत्यादिश्रवण इति चेत् ? सत्यम्, किन्तु परिणतजिनवचनसुधारसानां सुधरमेव, सेयं सुधा-वंदिज्जतो हरिसं निंदिज्जतो करिज्ज न विसायं । न नमिय-निंदियाण सुगई कुगई च बिंति जणा।। अप्पा सुगई साहइ सुप्पउत्तो दुग्गइं च दुप्पउत्तो तुट्ठो रुट्ठो अपरो न साहगो सुईकुगईणं इत्यादि । तया भावितस्य विभक्तिलोप आर्षप्राकृतत्वात् । मम नास्तीदृशम्परापादितगुणदोषादि, इति सङ्ख्याय मत्वा न सवलाम्यहम्। अत्र गुणापादनपक्षे सञ्ज्वलनार्थो दर्पदृप्तचित्तता, दोषापादनपक्षे क्रोधः, अन्वाह च यदि सत्यं कः कोपः ? यद्यलीकं किञ्च कोपेन - इति । यद्वा भावितमिति परपरिकल्पितम्, ईदृशं दोषादि मम तत्त्वतो नास्तीत्यप्यर्थः । ततो द्वा मम सञ्ज्वलनं व्यर्थम्, तथा चाभिदधन्ति रुष्टैर्जनैः किं ? यदि चित्तशान्तिः, तुष्टैर्जनैः किं ? यदि चित्ततापः - इति । तदुक्तम्अपमानादयस्तस्य विक्षेपो यस्य चेतसः । नापमानादयस्तस्य न क्षेपो यस्य चेतस - इति । तदेवं माध्यस्थ्यसुस्थो यत् करोति तदाहअक्खोवंजणमादाय सीलवं सुसमाहिते । अप्पणा चेवमप्पाणं चोदित्ता वहते रहं ।।४-२४।। - ण-द-न-प- माताय घ-छ-झ-त- मादाय जदित्ता । त-ध-छ- चोदित्ता । थ जुदित्ता झ- चोदितो । ४५ १. पुष्पमालायाम् ।।२१३-२१४ ।। २ दीप्त इत्यपि। ३ तत्त्वार्थभाष्ये । । ९-६ ।। सिद्धसेनीवृत्तौ ४ हृदयप्रदीपे । । २६ ।। ५. समाधितन्त्रे ।। ३८ ।। ६. क-ख-ज-ट-ठ-ढ च-थ-फ- माताया। ७ च-ट-ठ-ध-न-फ आर्षोपनिषद् अक्षोपाञ्जनम् - यात्रामात्राशनम्, तदुपमत्वात्तद्व्यपदेशः, अयं भावः, यथा हि शकटादिचक्रे स्नेहाभ्यङ्गनमुचितमात्रयैव क्रियते, तथैव कार्यसिद्धिभावात् तथैव धर्मशरीराधारतयोपादीयमान आहारोऽप्युचितमात्र एव श्रेयान्, अल्पत्वे योगानिर्वाहात्, आधिक्ये जाड्याद्यापत्तेश्चः प्राहुश्च व्रणलेपाक्षोपाङ्गवदसङ्गयोगभरमात्रयात्रार्थम् इति । तदादाय वेदनादिकारणोत्पत्तौ निरासक्तमुपभुज्य, शीलवान्, अष्टादशसहस्रशीलाङ्गसम्पन्नत्वात्, सुसमाहितः, परिशीलितप्रत्याहारत्वात् । आत्मना चैवमात्मानं चोदितः - प्रेरितः, वहते रथम् । आत्मनो रथरूपकं शिवपुरं प्रति प्रस्थितत्वात् । प्रेरयिताऽपि स्वयमेवेत्यात्मना - इत्युदितम् । नन्वेवं चोदनादिप्रतिपादकागमविरोधः, गुरुकृतत्वेन तदनभ्युपगमादिति चेत् ? न, व्यवहारतो गुरुकृतत्वेऽपि निश्चयेन तद्विरहात्, आत्मन एव निश्चयगुरुभूतत्वात्, उक्तं च- स्वस्मिन् सदभिलाषित्वादभीष्टज्ञापकत्वतः । स्वयं हितप्रयोक्तृत्वादात्मैव गुरुरात्मन इति । व्यवहारोपेक्षैवमिति चेत् ? सत्यम्, किन्तु नैष दोषः, स्वेतरोपेक्षायाः सर्वनयसाधारणत्वात्। वस्तुतस्तु गुरोरपि शिष्यात्मरथशिवपुरप्रस्थाने निमित्तमात्रता, साक्षात् तद्रथप्रेरयिता तु स्वयमेव तदात्मा, एतदनभ्युपगमे तु परमतप्रवेशः, यथोदितम् - इश्वरप्रेरितो गच्छेत् ४६ १. प्रशमरती ।।१३५ ।। २ कारणघटक आहाराहृतिः कल्पत इति सिद्धान्तः, यथोक्तम्- वेयण वेबावच्चे इरिवट्ठाए संजमट्ठाए तह पाणवत्तियाए छट्टं पुण धम्मचिंताए इति । (उत्तराध्ययने ।। २६-३२ ।। ) ३. प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः ।। अभिधानचिन्तामणी १-८३ ।। ४ इष्टोपदेशे । । ३४ । ।

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141