Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि - विग्रहगतावपि सम्भवेन सिद्धावस्थायां तन्नियमनमयुक्तमिति वाच्यम्, निरवच्छिन्नकायभेदस्य विवक्षितत्वात्, तस्य च तस्यामेव सम्भवात्, विग्रहगतावपि तैजसादेरविरहितत्वात्। यद्वा कायभेदार्थ आजिः - आन्तरारातिभिः सह युद्धम्, तदेवानुसन्धायोपरत इति योगः। यद्वा कायभेदमुद्दिश्योपरत इति योगः, आई-इत्यत्र सम्बोधनार्थोऽव्ययः, वाक्यालङ्कारार्थो वा। अन्यथा वा बहुश्रुताभिमतार्थ ऊह्यः। आसमन्ताद् यतिः आयतिः - भवहेतुक्रियात्यागलक्षणभावसंवरात्मक आत्मपरिणामः, सोऽयमिति तमुदाहरेत् - अनन्तरनिर्दिष्टं मातङ्गश्राद्धं व्यपदेशयेत्। सम्भाव्यतेऽत्र आयतित्त - इति पाठः, आत्मतृप्तमुदाहरेत् विषयवाञ्छाविरततया कृतकृत्यं व्यपदेशयेत्, यथोक्तं परैरपि - यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यत - इति। कीदृशमित्याह- देवानाम् वैमानिकादिनिकायानाम्, दानवानां च - भवनपतीनाम्, एते च सदृश एव ग्राह्याः, अन्यथा वक्ष्यमाणेन साङ्गत्यानुपपत्तेः। तेषामनुमतम् - तदभिलषितक्रियाशालितया तदभीष्टम्, सिद्धिसाधकतयाऽभिमतं वा। एतेनाऽस्य बाह्याचारमात्रता परिहृता,
आर्षोपनिषद् - विबुधदृशामाव्यभिचारसम्भवात्। तेनेदं खलु भोः ! लोकम्भुवनम्, तमेव विशेषयति - सनरामरम् - मामर्त्यसहितम्, वशीकृतमेव - विजिततया स्वाधीनीकृतमेव, इत्यहं मन्ये, सव्वमप्पे जिए जिअं - इत्यागमात् ।। ___ तमहं ब्रवीमि त्रिलोकीजयितया, अतिशयोक्तिरियमिति चेत् ? न, अपि त्वल्पोक्तिः, यतः- त्रैलोक्यमेतद् बहुभिर्जितं यैर्मनोजये तेऽपि यतो न शक्ताः। मनोजयस्यात्र पुरो हि तस्मात्, तृणं त्रिलोकीविजयं वदन्ति ।। तीर्थकरप्रभृतय इति शेषः। केनैवमुक्तमित्याह- व्यक्तः - वयःश्रुताभ्यां परिणतः, स चासौ वल्कलचीरी व्यक्तवल्कलचीरी, तेनार्हतर्षिणोदितम्। त्तिरयं इति पाठे त्रिरतमित्यर्थः, तमहं ज्ञानादित्रितयाराधनारतं ब्रवीमीति योगः।
कोऽयं वल्कलचीरीति चेत् ? अत्रायं सम्प्रदायः - पोतणपुरे णगरे सोमचन्दो राया; तस्स धारिणी देवी, सा कदाइ तस्स रण्णो ओलोयणगतस्स केसे रएति, पलितं दळूणं भणति- सामि ! दूतो आगतो त्ति, रण्णो दिट्ठी वितारिया ण य पस्सति अपुग्वजणं, ततो भणति- देवि ! दिव्वं ते चक्खु तीए पलियं दंसितं धम्मदूतो एसो त्ति, तं च दळूण दुम्मणसितो राया। तं नाऊण देवी भणतिलज्जह वुड्डभावेण निवारिज्जही जणो, ततो भणति देवि ! - न एवं, कुमारो बालो असमत्थो पयायलणे इति मे मण्णु जातं पुत्वपुरिसाणुचिण्णेण मग्गेण न गतोऽहं ति विचारो पसन्नचंदं तुम १. उत्तराध्ययने ।।९-३६ ।। २. न चायमपि दोष इति वाच्यम्, शाखाचन्द्रन्यायेन प्रतिपाद्यानुरोधेन प्रतिपादने दोषविरहात् । ३. हृदयप्रदीपे ।।२८।। ४. आवश्यकचूर्णी ।।
१.ध- मातङ्ग इति ललितविस्तरग्रन्थतृतीयपरिवर्तानुसारेण कस्यचित् प्रत्येकबुद्धस्य नाम । अस्य च त्वयुद्धक्षेत्रं रिञ्चतस्तेजोधातुं च समापद्योल्कैव परिनिर्वाणस्येहाध्ययनस्य गधे च पद्ये चानुल्लेखित्वान् मातङ्गो गज एवेत्यपरिहार्या व्याख्या । गजो मरणार्थ गहनं वनं यातीति प्रसिद्धम्। मातङ्गवदाचरन् श्राद्धो मातङ्गश्राद्धः । गजो यथा तमसि गहन उपरतो मृतस्तथा श्राद्धोऽपि कायभेदाय-मरणार्यकाकवेव प्रायोपगमं गच्छति । (चिन्त्या चेयं व्याख्या ।) २. भगवद्गीतायाम् ।।३-१७।।
अ.१.।।

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141