Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 38
________________ Re-ऋषिभाषितानि - णो संवसितुं सक्का सीलं जाणित्तु माणवा। परमं खलु पडिच्छन्ना मायाए दुट्ठमाणसा।।४-२।। न समुषित्वा शक्ताः समर्थाः शीलं ज्ञातुं मानवाः, परमंउत्कटं यथा स्यात्तथा खलु प्रतिच्छन्ना:-अपह्नतनिजदोषकलुषस्वरूपाः, मायया-निकृत्या दुष्टमानसाः। अविरहितं तत्सान्निध्यसाधकानामपि तद्दुश्चरित्रं ज्ञातुमशक्यम्, आस्तामन्येषाम्, सुप्रयुक्तदम्भत्वादित्याशयः, आह च- दम्भस्य सुप्रयुक्तस्य ब्रह्माऽप्यन्तं न गच्छति - इति । एवं च णियदोसे णिगृहंते, चिरं पी णोवदंसए। किह मं कोई ण ज्जाणे? जाणे णऽत्तहियं सयं।। ॥४-३।। निजदोषान्-क्षुद्रताप्रमुखान् निगूहन्-निपुणनिकृत्या प्रतिपक्षाभासप्रदर्शनेन निढुवानः, चिरमपि - यथासम्भवं यावज्जीवमपि नोपदर्शयति सर्वयलेन परप्रत्यक्षाद्यगोचरीकुरुते। एवं कुर्वाणस्य चित्तवृत्तिमाविष्करोति - कथम् - केनोपायेन, माम्, दोषदुष्टतया, कोऽपि न नैव जानीयात् - इति। किन्त्वसावेवं कुर्वञ् जानाति नात्महितं स्वयम्, यदहं सर्वसुखवञ्चितो भवामि, यतः- जे मुद्धजणं परिवंचयंति, बहु अलियकूडकवडेहिं। अमरनरसिवसुहाणं, अप्पा वि हु वंचिओ तेहिं।। पश्यन्ति लज्जया १. क-ख-च-ज-ट-ठ-ढ-ण-प-थ-ध- णासंवसता सक्कं । ग - णो संवसित्तुं सक्कं, सीह (णासंवसता सक्कं सील)। घ-झ-त- णो संवसितुं सक्का। च - णा संवसत्ता सक्कं । फ-न- णासंवसक्कं । २. त्रिषष्टि० चरित्रे। ३. च- कोपि। झ-ट-क-ज-ख-ढ-ठ-थकोइ। ध-त- कोवि । प-फ-द-ध-न-प- कोयि। ४. पुष्पमालायाम् । ।३०४।। ३२ - आर्षोपनिषद् - नीचैर्दुध्यानं च प्रयुञ्जते। आत्मानं धार्मिकाभासाः क्षिपन्ति नरकावटे॥ एवं स्थितेऽपि यद्यसौ दम्भान्नोपरमति तदाऽसौ नैवात्मीयकल्याणं जानाति, स्वयमित्यभिधानं साभिप्रायम्, परस्तावदनेन वञ्चितत्वादज्ञाततद्दोषतया न ज्ञापयति, प्राज्ञत्वेनावञ्चितोऽपि कश्चिज् ज्ञाततत्स्वरूपतया विरज्यापसरति, यथोक्तम्माया मित्ताणि णासेइ - इति। तस्मादस्य ज्ञापनासम्भवः, कथञ्चित् केनचित् प्रेरितस्यापि कक्षीकारविरहाच्च। स्वयमपि दोषोपरत्युपरतः, ऐहिकमात्रप्रतिबद्धदृष्टित्वात्, आह च- स्वदोषनिह्नवो लोकपूजा स्याद् गौरवं तथा। इयतैव कदर्थ्यन्ते दम्भेन बत बालिशाः - इति । अतो सुदक्षत्वेनात्मानुशासनद्वारेण तं प्रत्युपदेष्टि जेण जाणामि अप्पाणं आवी वा जति वा रहे। अज्जयारिं अणज्जं वा, तं णाणं अयलं धुवं।।४-४।। येन - प्रमितिकरणभूतेन ज्ञानेन जानाम्यात्मानं आविः - परेषां प्रत्यक्षं वा, यदि वा रहसि तेषामेव परोक्षे व्यवस्थितम्। कीदृशमित्याह- आराद्यातं पापेभ्य आर्यम् - मनोवाक्कायसत्कृत्यम्, तं करोतीति - आर्यकारी, तं वा, अनार्य वा - तद्वर्जितम्, तज्ज्ञानमचलम्, तद्विषयस्य बाह्याडम्बरादिमात्रेण चालयितुमशक्यत्वात्, तथा ध्रुवम्, परकृतविपरीतसम्प्रत्ययप्रणेयत्वविरहात्। तस्माद्दोषापह्नवयत्लशतं विमुच्य दोषोद्धारः श्रेयानिति भावः। मयैवैष कार्यः, परेषां परोक्षतया मद्दोषज्ञान१. अध्यात्मसारे ।।५-३०।। २. दशवकालिके ।।८-३८।। ३. अध्यात्मसारे ।।३-७।।

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141