________________
Re-ऋषिभाषितानि -
णो संवसितुं सक्का सीलं जाणित्तु माणवा। परमं खलु पडिच्छन्ना मायाए दुट्ठमाणसा।।४-२।।
न समुषित्वा शक्ताः समर्थाः शीलं ज्ञातुं मानवाः, परमंउत्कटं यथा स्यात्तथा खलु प्रतिच्छन्ना:-अपह्नतनिजदोषकलुषस्वरूपाः, मायया-निकृत्या दुष्टमानसाः। अविरहितं तत्सान्निध्यसाधकानामपि तद्दुश्चरित्रं ज्ञातुमशक्यम्, आस्तामन्येषाम्, सुप्रयुक्तदम्भत्वादित्याशयः, आह च- दम्भस्य सुप्रयुक्तस्य ब्रह्माऽप्यन्तं न गच्छति - इति । एवं च
णियदोसे णिगृहंते, चिरं पी णोवदंसए। किह मं कोई ण ज्जाणे? जाणे णऽत्तहियं सयं।।
॥४-३।। निजदोषान्-क्षुद्रताप्रमुखान् निगूहन्-निपुणनिकृत्या प्रतिपक्षाभासप्रदर्शनेन निढुवानः, चिरमपि - यथासम्भवं यावज्जीवमपि नोपदर्शयति सर्वयलेन परप्रत्यक्षाद्यगोचरीकुरुते। एवं कुर्वाणस्य चित्तवृत्तिमाविष्करोति - कथम् - केनोपायेन, माम्, दोषदुष्टतया, कोऽपि न नैव जानीयात् - इति। किन्त्वसावेवं कुर्वञ् जानाति नात्महितं स्वयम्, यदहं सर्वसुखवञ्चितो भवामि, यतः- जे मुद्धजणं परिवंचयंति, बहु अलियकूडकवडेहिं। अमरनरसिवसुहाणं, अप्पा वि हु वंचिओ तेहिं।। पश्यन्ति लज्जया १. क-ख-च-ज-ट-ठ-ढ-ण-प-थ-ध- णासंवसता सक्कं । ग - णो संवसित्तुं सक्कं, सीह (णासंवसता सक्कं सील)। घ-झ-त- णो संवसितुं सक्का। च - णा संवसत्ता सक्कं । फ-न- णासंवसक्कं । २. त्रिषष्टि० चरित्रे। ३. च- कोपि। झ-ट-क-ज-ख-ढ-ठ-थकोइ। ध-त- कोवि । प-फ-द-ध-न-प- कोयि। ४. पुष्पमालायाम् । ।३०४।।
३२
- आर्षोपनिषद् - नीचैर्दुध्यानं च प्रयुञ्जते। आत्मानं धार्मिकाभासाः क्षिपन्ति नरकावटे॥ एवं स्थितेऽपि यद्यसौ दम्भान्नोपरमति तदाऽसौ नैवात्मीयकल्याणं जानाति, स्वयमित्यभिधानं साभिप्रायम्, परस्तावदनेन वञ्चितत्वादज्ञाततद्दोषतया न ज्ञापयति, प्राज्ञत्वेनावञ्चितोऽपि कश्चिज् ज्ञाततत्स्वरूपतया विरज्यापसरति, यथोक्तम्माया मित्ताणि णासेइ - इति। तस्मादस्य ज्ञापनासम्भवः, कथञ्चित् केनचित् प्रेरितस्यापि कक्षीकारविरहाच्च। स्वयमपि दोषोपरत्युपरतः, ऐहिकमात्रप्रतिबद्धदृष्टित्वात्, आह च- स्वदोषनिह्नवो लोकपूजा स्याद् गौरवं तथा। इयतैव कदर्थ्यन्ते दम्भेन बत बालिशाः - इति । अतो सुदक्षत्वेनात्मानुशासनद्वारेण तं प्रत्युपदेष्टि
जेण जाणामि अप्पाणं आवी वा जति वा रहे। अज्जयारिं अणज्जं वा, तं णाणं अयलं धुवं।।४-४।।
येन - प्रमितिकरणभूतेन ज्ञानेन जानाम्यात्मानं आविः - परेषां प्रत्यक्षं वा, यदि वा रहसि तेषामेव परोक्षे व्यवस्थितम्। कीदृशमित्याह- आराद्यातं पापेभ्य आर्यम् - मनोवाक्कायसत्कृत्यम्, तं करोतीति - आर्यकारी, तं वा, अनार्य वा - तद्वर्जितम्, तज्ज्ञानमचलम्, तद्विषयस्य बाह्याडम्बरादिमात्रेण चालयितुमशक्यत्वात्, तथा ध्रुवम्, परकृतविपरीतसम्प्रत्ययप्रणेयत्वविरहात्। तस्माद्दोषापह्नवयत्लशतं विमुच्य दोषोद्धारः श्रेयानिति भावः। मयैवैष कार्यः, परेषां परोक्षतया मद्दोषज्ञान१. अध्यात्मसारे ।।५-३०।। २. दशवकालिके ।।८-३८।। ३. अध्यात्मसारे ।।३-७।।