________________
Re-ऋषिभाषितानि - स्यैवाभावात् तदुद्धारप्रयोजकत्वासम्भवादित्याह
सुयाणि भित्तिए चित्तं कटे वा सुणिवेसितं। मणुस्सहिदयं पुणिणं गहणं दुब्बियाणकं।।४-५।।
श्रुतानि - श्रोत्रेन्द्रियविषयीभूततया ज्ञातानि, विषयद्वित्वेऽपि बहुवचनं प्राकृतत्वात्, बिवयणे बहुवयणं - इत्युक्तेः। भित्तिके चित्रं काष्ठे वा सुनिवेशितम्, छद्माभावेन यथास्वरूपं प्रतिभासनात्। मनुष्यहृदयं पुनरेतत्- बुद्धिप्रत्यक्षम्, गहनमिव गहनम्, उपमाबीजमाह- यतो दुर्विज्ञानकम्, तद्विज्ञानस्य विज्ञैरपि दुःखेनोपलभ्यमानत्वात् । स्यादेतत्, आकारादिभिरनुमास्यते, यथोक्तम्- आकारैरिङ्गितैर्गत्या, चेष्टया भाषितेन च। नेत्रवक्त्रविकारैश्च, गृह्यतेऽन्तर्गतं मनः - इति। तदपि न, व्यभिचारादित्याह
अन्नहा स मणे होइ, अणण्णं कुणंति कम्मणा। अण्णमण्णाणि भासते, मणुस्सगहणे हु से।।४-६।।
अन्यथा स मनसि भवति, कथञ्चित्तदनन्यत्वेन मनोयोगपरिणतस्वपर्यायो मनुष्यो वाक्कायपरिणतस्वपर्यायाभ्यामन्य एव भवति, तद्विसंवादादिति तात्पर्यम्। एतदेव स्पष्टयति- यतोऽन्यम्मनोवागगोचरं करोति कर्मणा, अन्यान्यानि - मनश्चिन्तितादन्यानि कायचेष्टिताच्चान्यानीत्यभिप्रायः, वचांसि तेन मनुष्येन भाष्यन्ते। अतोऽनुमातुमप्यशक्यत्वेन मनुष्यगहनम्, वनस्पतिगहनात्
आर्षोपनिषद् - किमपि गुपिलतरमेतदिति व्यपदेशहृदयम्, खलु तत् - दाम्भिकान्तःकरणम्। गुपिलतरतामेव व्याचष्टेतण-खाणु-कंडक-लताघणाणि
वल्लीघणाणि गहणाणि। सढ-णियडिसंकुलाई
मणुस्सहिदयाई गहणाणि।।४-७।। तृण-स्थाणु-कण्टक-लताभिर्घनानि निबिडानि वल्लीघनानि च गहनानि लोके दुर्गमतया प्रसिद्धानि, किन्तु ततोऽपि दुर्गमानि, यतः शठः - धूर्तः, तत्सम्बन्धि योत्कटा निकृतिस्तया सङ्कुलानि सुनिचितं व्याप्तानि मनुष्यहृदयानि गहनानि कान्यप्यपूर्वाणि गहनानीत्याशयः। नैषातिशयोक्तिरिति सत्यापयति
भुंजित्तुच्चावए भोए संकप्पे कडमाणसे। आदाणरक्खी पुरिसे परं किंचि ण जाणति।।४-८।।
भुक्त्वोच्चावचान् भोगान्, उपलक्षणमेतन्मध्यमानाम्, ततश्चोत्तममध्यमजघन्यान् भोगान् स्वकर्मानुभावप्राप्तान् भोगोपभोगविषयीकृत्वेत्यर्थः। एतेनावचभोगात् त्वग्भक्षकघुणज्ञातेनोग्रतपसः, उच्चावचकुर्लचरणलक्षणश्रमणवृत्त्या वाऽभिधानप्रसङ्ग इत्यपास्तम्, औदयिकभावानामेव तत्र प्रयोजकत्वात्। किञ्च तत्र यात्रामात्राशनम्, अत्र तु भोगतत्त्वतेति महान् विशेषः। तथा सङ्कल्पे - काममूले कृतमानसः-विहितमनोयोगान्त-र्भावः,
१. प्रत्यक्षं च दुर्विज्ञानं चेति व्याहतमिति चेत् ? न, नामादिना ज्ञातत्वेऽपि दोषादिपरिणतत्वेनाज्ञानसम्भवात् । यद्वा प्रत्येकबुद्धप्रत्यक्षत्वेऽप्यर्वाग्दृगपेक्षयाऽज्ञानसम्भवात् ।
१.उपलक्षणादुपभोगग्रहणं द्रष्टव्यम् । २.स्थानाङ्गे ।।४-१।। ३.दशबैकालिके । ।५-२२५।। ४. योगदृष्टिसमुच्चये । ।१६७।।