________________
Re-ऋषिभाषितानि - एतेनाऽस्य निश्चयतोऽपि भ्रष्टतोदिता। तदेवमुभयभ्रष्टत्वे सत्यप्यसावादानरक्षीत्यादि प्राग्वत्। यदधमतामुपगतस्याप्युत्तमयशःपिपासया तत्प्राप्तियत्नकरणं तन्नाल्पनिकृतिविकार इत्याशयः। किमेतस्यौषधमित्याह
अदुवा परिसामझे अदुवा विरहे कडं। ततो णिरिक्ख अप्पाणं पावकम्मा णिरुंभति।।४-९।।
अथवा पर्षन्मध्ये, अथवा विरहे कृतं निजं यत्किञ्चिदप्यप्रकाश्यं कर्म प्रथमं मध्यस्थतया पर्यालोच्यम्, ततो निरीक्ष्यात्मानं दोषसन्दोहदूषिततया यथावस्थितम्, पापकर्मणो निरुन्धति - आत्मश्लाघादिवृजिनवर्जनव्याप्तो भवति, यथावस्थितात्मस्वरूपदर्शनेन मदोन्मादत्यागेन स्वास्थ्यसम्पादनात्, यथाऽऽह - मां प्रत्यहमिति गर्वः स्वस्थस्य न युक्त इह पुंसः - इति । तदेतदौषधं साध्यरोगापेक्षयोक्तम्, असाध्ये तु तदपि विफलमित्याह
दुष्पचिण्णं सपेहाए अणायारं च अप्पणो। अणुवट्ठितो सदा धम्मे, सो पच्छा परितप्पति।।४-१०।।
दुष्टं यथा स्यात्तथा प्रकर्षणऽशुभाध्यवसायैकायनतारूपेण चीर्णम्- दुष्प्रचीर्णम्- सङ्क्लेशविशेषार्जितं पापकर्म। चीर्णता चास्य सन्ततासदभ्यासेन मेलितत्वाज्ञेया। तत् सम्प्रेक्ष्य, अनाचारं च - कुत्सिदाचरणं च तद्धेतुभूतमात्मनः, अन्यतद्दर्शनं तु
- आर्षोपनिषद् - प्रत्युतापथ्यमित्यात्मनः - इत्युक्तम्। एवं गृहीतेऽप्यौषधे नास्य पापकर्मलक्षणरोगनिरोध इति दर्शयन्नाह- अनुपस्थितः भावसारमनन्यशरणतयाऽनुद्यतः सदा यावज्जीवमपि, धर्मे - आत्मनिन्दादिरूपे, सः - गुरुकर्मा पश्चात्- मरणकाले नरकादिदुर्गतिगतो वा परितप्यति, यथा
तओ पुट्ठो आयंकेण गिलाणो परितप्पई। पभीओ परलोयस्स, कम्माणुपेही अप्पणो।। सुया मे नरए ठाणा, असीलाणं च जा गई। बालाणं कूरकम्माणं पगाढा जत्थ वेयणा।। तत्थोववाइयं ठाणं, जहा मे तमणुस्सुयं। आहाकम्मेहिं गच्छंतो, सो पच्छा परितप्पइ।। जहा सागडिओ जाणं, समं हिच्चा महापह। विसमं मग्गमोइण्णो, अक्खे भग्गम्मि सोयइ।। एवं धम्मं विउक्कम्म, अहम्म पडिवज्जिया। बाले मच्चुमुहं पत्ते, अक्खे भग्गे व सोयइ।।
शोकश्चैवम्- इक्कंपि नत्थि जं सुट्ठ सुचरियं जह इमं बलं मज्झ। को नाम दढ्ढकारी मरणंते मंदपुण्णस्स ? || सम्भवत्येषोऽनाचारौघमेवोत्पश्यतः सुकृतलेशवर्जितस्य पापात्मनः पाश्चात्यकाले। इतरवक्तव्यतामाह१. यथाऽभिहितम् - स्वकृतं दुष्कृतं गर्हन् सुकृतं चानुमोदयन् । नाथ ! त्वच्चरणौ यामि शरणं शरणोजिझतः - इति (चीतरागस्तोत्रे ।।१७-१।।) २. उत्तराध्ययने ।।५/१११५।। ३. उपदेशमालायाम् ।।४६८।।
१. ऋषि० ।।४-१।। २. ग-च- विरहे । घ-झ-त- वि रहे। ३. सिद्धसेनीद्वात्रिंशिकायाम् ।।८२६ ।। ४. तत् - पापकर्म ।