________________
ऋषिभाषितानि
अंगरिसिंणा भारद्दाएणं अरहता इसिणा बुझतं । ॥ १ ॥ आदीयतेऽनेन स्वोत्कर्ष इत्यादानम् - यत्किञ्चिदपि स्वोत्कर्ष - निमित्तम्, तमेव रक्षयति येन केनापि निकृतिप्रकारेणेत्यादानरक्षी, पुरुषः- आत्मा, परं तदन्यत् किञ्चिदपि न जानाति, उपादेयतया ।
२९
किमेतत्स्तुतिवचनमितरं वेति मुग्धप्रश्न उत्तरयति असाधु - असम्यक्, तत्कर्मकारी, खलुः - वाक्यालङ्कारे, अयम्अनन्तरोक्तः पुरुषः । पुनरपि पापैः कर्मभिश्चोद्यते - प्रेर्यते बलादप्यहितानुबन्धिप्रवृत्तौ, बुद्धिर्कर्मानुसारिणी - इत्युक्तेः, किं कदाचिदेवेत्याह- नित्यम्, क्लिष्टसत्त्वानां सदापि पापानुबन्धिकर्मणामेवोदय भावात् । तथापि यत्किञ्चिद्देशावच्छिन्नोऽसौ भविष्यतीत्याह- समेऽपि निखिलेऽपि क्षेत्रे, काका हि सर्वत्र कृष्णा एव भवन्तीति । इति अङ्गर्षिणा भारद्वाजेनाऽर्हतर्षिणोदितम्, अत्र सम्प्रदायः -
उज्जुय वंके पत्तेयवुद्ध रु य कोसियज्जे य । उज्झाए तब्भज्जा, जयंति चउरो वि सिद्धाई इति । अत्र व्याख्या- 'ऋजुकः' सरलप्रकृतिः स चाऽङ्गर्षिनाम्ना ख्यातः, 'वक्रः ' दुष्टस्वभावः रुद्राख्यः, स प्रत्येकबुद्धोऽभूदिति योजना कार्या । 'च' - पुनः कौशिकार्याख्य उपाध्यायः 'तद्भार्या' उपाध्यायानी । जयन्ति चत्वार्यपि सिद्धानि । प्रव्रज्येति शेषः । इति
१. च- अंगिरिसिणा । ट- अंगरेसिणा । शेषेषु अंगरिसिणा । २. समग्र सकलं समम्इत्यभिधानचिन्तामणी ||१४३३ ।। ३ ऋषिमण्डलप्रकरणे । ।१२४ । ।
आर्षोपनिषद्
३०
गाथार्थः । भावार्थोऽप्ययम्
चम्पायां कौशिकार्याख्य उपाध्यायोऽभवद् द्विजः । तस्याऽङ्गर्षिस्तथा रुद्रः, शिष्यावेतौ बभूवतुः ।। १ ।। अङ्गको भद्रकस्तेनाऽङ्गर्षिस्तस्याभिधाऽभवत् । रुद्रको रौद्रहृद् ग्रन्थिच्छेदकस्तत्तथाऽस्य सा।।२।। एधोऽर्थमन्यदा प्रैषि, गुरुणा तावुभौ वने । सायमङ्गर्षिः काष्ठान्यादायाऽऽयाद् ऋजुवर्त्मना । | ३ || रन्त्वा सर्वदिनं स्मृत्वा, तमर्थं रुद्रकोऽचलत् । दध्यौ वीक्ष्य तमायान्तमद्य निस्सारितोऽस्मि हा ! ||४|| इतश्च वत्सपालस्य, पन्थकस्य शिशोः प्रसूः। दत्त्वा ज्योतिर्यशा भक्तं दारुभारार्दितैति च ।। ५ ।। तां हत्वैकत्र गर्त्तायां, लात्वाऽस्या दारुभारकम् । एत्यन्यवर्त्मना रुद्रो, धुन्वन् हस्तावदोऽवदत् || ६ || गुरो ! सुन्दरशिष्येण तव ज्योतिर्यशा हता । स आगतो बहिर्निष्कासितः क्रोधाद् ययौ वनम् ||७|| चिन्तयंस्तत्र सद्ध्यानाद्, जातजातिस्मृतिर्व्रतम् । प्रपद्य केवलं लेभे, महिमाममरा व्यधुः ||८|| अभ्याख्यानं ददौ रुद्रोऽस्मै जनेभ्योऽभ्यधुः सुराः । निन्द्यमानो जनैर्दध्यौ, रुद्रोऽदः शुभकर्मतः || ९ || अभ्याख्यानं मयाऽसत्यं, प्रदत्तमिति चिन्तयन् । सम्बुद्धः सोऽभवत् प्रत्येकबुद्धश्चाग्रहीद् व्रतम् ।। १० ।। उपाध्यायः सभार्योऽपि, वैराग्याद् व्रतमग्रहीत् । उत्पाद्य केवलज्ञानं, चत्वारोऽपि ययुः शिवम् ॥। ११ ।। इति । ननु किमिदं नामाऽऽदानरक्षणं यतो देशकालानवच्छिन्ना पापप्रेरणेत्याह