________________
- ऋषिभाषितानि
- २७ सक्का वण्ही णिवारेतुं वारिणा जलितो बहिं। सव्वोदहिजलेणावि मोहग्गी दुण्णिवारओ।।३-११।।
शक्यो वह्निर्निवारयितुं वारिणा ज्वलितः, मा भूदनन्तरोक्तक्रोधाग्नौ सम्प्रत्यय इत्याह- बहिः, बाह्यावच्छेदेन प्रत्यक्षमीक्ष्यमाणोऽनलो जलादिसाध्यविध्यापन इति हृदयम्। किन्तु सर्वोदधिजलेनापि कल्पनया मेलितेन मोह एवाग्निः- मोहाग्निः, विवेकेन्धननिर्दाहकत्वात्, दुर्निवारकः, जिनवचनामृताभिषेकमात्रशक्यनिवारणत्वात्, तथाहुमहोपाध्यायाः- विवेकश्च नैरन्तर्येण भगवद्वचनपरिभावनमिति। विवेको हि मोहप्रतिपक्षः। अत एवाऽऽर्षम्- आणा हि मोहविसपरममंतो- इति । अत एवानया मोहमूलकभवपादपोन्मूलनमित्याह
जस्स एते परिण्णाता जाती-मरणबंधणा। से छिण्णजाति-मरणे सिद्धिं गच्छति णीरये।।३-१२।।
यस्यैते परिज्ञाता:- ज्ञपरिज्ञा- प्रत्याख्यानपरिज्ञाविषयभूताः, जातिमरणबन्धनाः, स छिन्नजातिमरणः सिद्धिं गच्छति नीरजाः - निर्गतकृत्स्नकर्मरेणुकः। ननु परिज्ञानमात्रेणोच्छेदासम्भव इति चेत् ? न, भगवदागमतस्तज्ज्ञानम्, ततश्च भयोत्पादः, तथोक्तम् - उत्त्रासयन्ति पुरुष भवतो वचांसि, विश्वासयन्ति परवादिसुभाषितानि। दुःखं यथैव हि भवानवदत्तथा तत्तत्सम्भवे च मतिमान् किमिवाभयः स्यादिति । ततश्च मोक्षः, प्रमाणं चात्र १. सक्को इत्यन्यत्र ।। २. क-ट-ड-ह-ण-ध-प- वि हि। ज-न- बहि। त-झ-घ-च-गछ- बहिं । फ- व हिं। ख-ठ-थ- वहि । ३. सामाचारीप्रकरणे ।। ४. पञ्चसूत्रे ।।२।। ५. सिद्धसेनीद्वात्रिंशिकायाम् ।।२-६।।
२८
आर्षोपनिषद् - पारमर्षम् - माराभिसंकी मरणा पमुच्चइ - इति । एतदपि प्रत्याख्यानपरिज्ञाद्वारेण ज्ञेयम्। अन्यथा तु ज्ञानस्यैवानुपपत्तिः, ज्ञानस्य विरतिफलकत्वात्, विफलस्य च शुद्धनयाभिप्रायेणासत्त्वात्। स्यादेष मनोरथः सफलो यदि जन्मादिप्रत्याख्यानं सम्भवेत्, तदेवासम्भवितमिति चेत् ? न, तद्धेतुप्रत्याख्यानेन सम्भवात्, यथाऽऽह चरमकेवली- अहं तु नानुतिष्ठामि गर्भसङ्क्रान्तिकारणमिति । निगमयति___ एवं से बुद्धे विरते विपावे दंते दविए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छइ त्ति बेमि।। एवमित्यादि प्राग्वत्। इति तृतीयदेविलाध्ययन आर्षोपनिषद्।
॥ अथ चतुर्थाध्यायः॥ एवमनेकधा प्रतिपादितेऽपि मुक्त्युपाये तत्प्रवृत्तानामप्यहङ्कार एव बाधकतमः, आरम्भनिवृत्तिसकाशादप्यात्मश्लाघादिपरिहारस्य दुष्करतरत्वात्। अतस्तत्परिहारप्रवीणताऽऽपादकत्वेनाऽहङ्कारकुठारकल्पं तुर्यमध्ययनमनुग्रभाति
"आयाणरक्खी पुरिसे परं किंचि ण जाणती। असाहुकम्मकारी खलु अयं पुरिसे, पुणरवि पावेहिं कम्मेहिं चोदिज्जती णिच्चं समेपी' ति।
१. आचाराङ्गे।।१-३-१।।१०९ ।। २. प्रशमरतौ ।।७२ ।। ३. परिशिष्टपर्वणि श्रीजम्बूस्वामिवच इदम् । ४. क - समपीति, ख- सोमतीति, ग- समपी (संसारमी)ति, घ- समा पीति, च- संसारंमि । ज-ट-फ-ध-न-ण-प-ढ-ण-थ- सोमपीति । झ- सोमपी"ति । ठ-मोमपीति । त- संसारम्मि। द- समापी (संसारम्मी)ति ।