________________
770 ऋषिभाषितानि
विषविशेषो वा, तं यथा प्राप्य दुग्धं विनाशमुपगच्छति माधुर्य- पुष्टिकृत्त्वदर्शनीयत्वादिपर्यायाद् भ्रश्यति, एवं रागश्च द्वेषश्च ब्रह्मचर्यविनाशकाः । ब्रह्म-कुशलानुष्ठानम्, तच्च तच्चर्यं च ब्रह्मचर्यम् - जिनाज्ञाऽऽराधनमेव । यद्वा ब्रह्मचर्यम् - मैथुन - विरमणम्, अत्र मुख्यग्रहणेन शेषनिःशेषव्रतग्रहणं द्रष्टव्यम्, तन्मुख्यता च - वयाण बंभवयं पवरमित्यादिना सिद्धा । न चैवमा वीतरागताप्तिं ब्रह्मचर्यं दुर्लभमिति वाच्यम्, प्रशस्तरागादेस्तदुपष्टम्भकत्वात्, अप्रशस्तयोः कषायरूपयोस्तदर्वागपि निग्रहसम्भवात्, तथा चार्षम् अहो ते निज्जिओ कोहो अहो माणो पराजिओ । अहो निरक्किया माया अहो लोहो वसीकओइति ।। नन्वेतदप्युदयविफलीकरणापेक्षया सत्तापेक्षया तु तदाप सद्भाव एवेति चेत् ? सत्यम्, किन्त्वर्थक्रियामकुर्वतोऽसत्कल्पत्वेन स्वजन्यविकारमजनयन्तस्तेऽसत्कल्पा एव, व्यवहारतोऽपि श्रमणः सञ्ज्ञादशकविप्रमुक्त इत्यागमविदः । यावदंशेनोदयः तावदंशविनाशस्त्वभ्युपगम्यत एवेति सूक्तम् एवं रागो य दोसो य बम्भचेरविणासगा इति । एतदेव स्पष्टयति
जहा खीरं पधाणं तु मुच्छणा जायते दधिं । एवं गेहिप्पदोसेणं पावकम्मं पवडती ।।३ - ९।।
यथा क्षीरं प्रधानं पाकादिविशेषावाप्तोत्तमभावं तु मूर्च्छनात् - अम्लादिद्रव्यसंयोगेन पूर्वोक्तस्वभावाऽपनयनात् जायते दधि । एवं गृद्धिप्रद्वेषेण - तीव्ररागगर्भितद्वेषप्रकर्षेण, द्वेषस्य रागाविना
१. पुष्पमाला । । १५४ ।। २. उत्तराध्ययने ।।९-५६ ।। ३ जीवाभिगमवृत्तौ श्रीमलयगिरिचरणाः ।
२५
आर्षोपनिषद्
भावित्वात्, पापकर्म - मोहनीयलक्षणं प्रवर्द्धते, जे वेयइ ते बंधइ – इति वचनात्, बीजाङ्कुरन्यायेनान्योऽन्यजनकत्वात्, तथा च पारमर्षम् - एमेव मोहाययणं खु तण्हा, मोहं च तण्हाययणं वयंति - इति ।
अत्रेदमवधेयम्, द्विविधो रागः- माया लोभश्चं, द्वेषोऽपि द्विविधः - क्रोधो मानश्च । तदेवं कषाय-चतुष्टये रागद्वेषपर्यवसानमिति तद्दारुणत्वोपदर्शनायाद्यविपाकमाह
२६
रण्णे दवग्गिणा दड्डा रोहंते वणपादवा । कोहग्गिणा तु दड्डाणं दुक्खा दुक्खाण णिव्वुती ।। ।।३-१०।। अरण्ये दवाग्निना दग्धा रोहन्ते वनपादपाः, सुरक्षितमूलत्वेन जलादिसामग्रीसमवधानेन पुनरपि संरोहणसम्भवात् । क्रोध एवाग्निः क्रोधाग्निः, साधर्म्यात्, तथा च वाचकमुख्य:- क्रोधः परितापकरः - इति । तेन तु दग्धानाम् तदुदयसमुषितात्मगुणानाम्, दुःखात् - कृच्छ्रेण, दुःखानाम्- तदुदयार्जितसानुबन्धदुष्कर्मविपाकानाम्, निवृत्तिः, असङ्ख्येनापि कालेन निष्ठाविरहात् । श्रूयते चाग्निशर्मतापसक्रोधदुर्विपाकः - बीयस्स अणंतसंसारो इति । उपलक्षणमेतच्छेषकषायविपाकानाम्। कस्मात्तर्हि ततो नोपरम्यत इत्याह
१. उत्तराध्ययने ।। ३२-६ ।। २ प्रज्ञापनायाम् ।।२३ पदम् ।। ३ घ-च-झ-ण-तदड्ढाणं । ४. प्रशमरतौ ।। २६ ।। ५. समरादित्यकथायाम् ।। पीठिका ।।