________________
२४
Re-ऋषिभाषितानि - स्वयमूह्या। क- प्रतौ तु साक्षादभिहिता यथामुसं जो भासए किंचि अप्पं वा जइ वा बहुं । अप्पणट्ठा परट्ठा वा लिप्पए पावकम्मणा ।। अदिण्णं गिण्हए जो उ अप्पं वा जइ वा बहु । अप्पणट्ठा परट्ठा वा लिप्पए पावकम्मणा ।। मेहुन्नं सेवए जो उ तेरिच्छं दिव्वमाणुस । रागदोसाभिभूयप्पा लिप्पए पावकम्मणा ।। सुगमाश्चैता। षष्ठं पापस्थानकमाहकोधं जो उ उंदीरेइ अप्पणो वा परस्स वा। तन्निमित्ताणुबंधेणं लिप्यते पावकम्मुणा ॥३-४।।
एवं जाव मिच्छादसणसल्ले। क्रोधं यस्तूदीरयति, आत्मनो वा परस्य वा तन्निमित्तानुबन्धेन - तत्कषायलक्षणनिमित्तेनानुगतेन - स्थितिरससमनुविद्धेन बन्धेनेत्यर्थः, ठिइ अणुभागा कसायाओ-इत्युक्तेः। यद्वा कषायेण सानुबन्धताभावाद् हेतौ फलोपचारानिमित्तमेवानुबन्धः - निमित्तानुबन्धः, तेन, लिप्यते पापकर्मणा एवमष्टादशपापस्थानकानि नेयानि यावन्मिथ्यादर्शनशल्यम्। एतेष्वव्रतकषायैः सर्वसङ्ग्रह इति समासत आह
पाणातिवातो लेवो, लेवो अलियवयणं अदत्तं च। मेहुणगमणं लेवो, लेवो परिग्गहं च।।३-५।।
- आर्षोपनिषद् - कोधो बहुविधो लेवो, लेवो माणो य बहुविधविधीओ। माया य बहुविधा लेवो, लोभो वा बहुविधविधीओ
॥३-६॥ सुगमौ, नवरं बहुविधा विधयः- विधानविभागा यस्येति बहुविधविधिकः', असङ्ख्येयैरध्यवसायैः क्रियमाणत्वात्, तन्निरुपणप्रवणसूत्रस्यानन्तार्थत्वाद्वा । ततः किमित्याह
तम्हा ते तं विकिंचित्ता पावकम्मपवडणं। उत्तमट्ठवरग्गाही वीरिअत्ताए परिव्वए।।३-७।।
तस्मात् ते-तान्यष्टादशपापस्थानकानि लेपभूतानीति विदित्वा तं तेषामेव कदम्बकं विविच्य-त्यक्त्वा, कीदृशमित्याहपापकर्मप्रवर्धनम् - प्रकर्षणाशुभकर्मप्रकृत्युपचयप्रयोजकम्, उत्तमः प्रधानोऽर्थो मोक्षलक्षणो यस्मात् स उत्तमार्थ:-जिनाज्ञाऽऽराधनम्, उक्तं च - आज्ञाऽऽराद्धा विराद्धा च शिवाय च भवाय च इति । स एव वरः, अतिचारपरिहारात्, तद्ग्राही-भावसारं तत्प्रतिपत्ता, वीर्यत्वेन - अध्यात्मवीर्यविशेषभूतोद्यमधृतिधैर्यादिभावेन परिव्रजेत् - प्रतिपन्नपदव्यां सर्वात्मना सञ्चरेत्। परिव्रजनपारगमनाय विघ्नविहतिरावश्यका, तदर्थं च विघ्नविज्ञानमित्याह
खीरे दूसिं जधा पप्प विणासमुवगच्छति। एवं रागो य दोसो य बंभचेरविणासणा।।३-८।। क्षीरे-पयसि दूषयति कुविकारापादनेनेति दूषिः-तक्राद्यम्लद्रव्यं १. बहुविधवीथिकः, अनेकविधर्मार्गः करणोपायः क्रियमाणत्वादित्यपि। २. अत्रार्थे विधेर्नेष्टसाधनताबोधकत्वमर्थः, असम्भवात्, किन्तु प्ररूपणामात्रम्, न चापूर्वोऽयमर्थः, आवश्यकव्याख्यायां श्रीमलयगिरिसूरिभिरभिहितत्वात् । ३. वीतरागस्तोत्रे । ।१९-४ ।।
१. घ-झ-त-च-ग-छ- उदीरेइ। फ- उदीरहि। थ-द-ध-न-प- उदीरेहि। ख-ज-ट-ठउदीरेहि। क-ढ-ण- उदीरेति।