Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 36
________________ - ऋषिभाषितानि - २७ सक्का वण्ही णिवारेतुं वारिणा जलितो बहिं। सव्वोदहिजलेणावि मोहग्गी दुण्णिवारओ।।३-११।। शक्यो वह्निर्निवारयितुं वारिणा ज्वलितः, मा भूदनन्तरोक्तक्रोधाग्नौ सम्प्रत्यय इत्याह- बहिः, बाह्यावच्छेदेन प्रत्यक्षमीक्ष्यमाणोऽनलो जलादिसाध्यविध्यापन इति हृदयम्। किन्तु सर्वोदधिजलेनापि कल्पनया मेलितेन मोह एवाग्निः- मोहाग्निः, विवेकेन्धननिर्दाहकत्वात्, दुर्निवारकः, जिनवचनामृताभिषेकमात्रशक्यनिवारणत्वात्, तथाहुमहोपाध्यायाः- विवेकश्च नैरन्तर्येण भगवद्वचनपरिभावनमिति। विवेको हि मोहप्रतिपक्षः। अत एवाऽऽर्षम्- आणा हि मोहविसपरममंतो- इति । अत एवानया मोहमूलकभवपादपोन्मूलनमित्याह जस्स एते परिण्णाता जाती-मरणबंधणा। से छिण्णजाति-मरणे सिद्धिं गच्छति णीरये।।३-१२।। यस्यैते परिज्ञाता:- ज्ञपरिज्ञा- प्रत्याख्यानपरिज्ञाविषयभूताः, जातिमरणबन्धनाः, स छिन्नजातिमरणः सिद्धिं गच्छति नीरजाः - निर्गतकृत्स्नकर्मरेणुकः। ननु परिज्ञानमात्रेणोच्छेदासम्भव इति चेत् ? न, भगवदागमतस्तज्ज्ञानम्, ततश्च भयोत्पादः, तथोक्तम् - उत्त्रासयन्ति पुरुष भवतो वचांसि, विश्वासयन्ति परवादिसुभाषितानि। दुःखं यथैव हि भवानवदत्तथा तत्तत्सम्भवे च मतिमान् किमिवाभयः स्यादिति । ततश्च मोक्षः, प्रमाणं चात्र १. सक्को इत्यन्यत्र ।। २. क-ट-ड-ह-ण-ध-प- वि हि। ज-न- बहि। त-झ-घ-च-गछ- बहिं । फ- व हिं। ख-ठ-थ- वहि । ३. सामाचारीप्रकरणे ।। ४. पञ्चसूत्रे ।।२।। ५. सिद्धसेनीद्वात्रिंशिकायाम् ।।२-६।। २८ आर्षोपनिषद् - पारमर्षम् - माराभिसंकी मरणा पमुच्चइ - इति । एतदपि प्रत्याख्यानपरिज्ञाद्वारेण ज्ञेयम्। अन्यथा तु ज्ञानस्यैवानुपपत्तिः, ज्ञानस्य विरतिफलकत्वात्, विफलस्य च शुद्धनयाभिप्रायेणासत्त्वात्। स्यादेष मनोरथः सफलो यदि जन्मादिप्रत्याख्यानं सम्भवेत्, तदेवासम्भवितमिति चेत् ? न, तद्धेतुप्रत्याख्यानेन सम्भवात्, यथाऽऽह चरमकेवली- अहं तु नानुतिष्ठामि गर्भसङ्क्रान्तिकारणमिति । निगमयति___ एवं से बुद्धे विरते विपावे दंते दविए अलंताई णो पुणरवि इच्चत्थं हव्वमागच्छइ त्ति बेमि।। एवमित्यादि प्राग्वत्। इति तृतीयदेविलाध्ययन आर्षोपनिषद्। ॥ अथ चतुर्थाध्यायः॥ एवमनेकधा प्रतिपादितेऽपि मुक्त्युपाये तत्प्रवृत्तानामप्यहङ्कार एव बाधकतमः, आरम्भनिवृत्तिसकाशादप्यात्मश्लाघादिपरिहारस्य दुष्करतरत्वात्। अतस्तत्परिहारप्रवीणताऽऽपादकत्वेनाऽहङ्कारकुठारकल्पं तुर्यमध्ययनमनुग्रभाति "आयाणरक्खी पुरिसे परं किंचि ण जाणती। असाहुकम्मकारी खलु अयं पुरिसे, पुणरवि पावेहिं कम्मेहिं चोदिज्जती णिच्चं समेपी' ति। १. आचाराङ्गे।।१-३-१।।१०९ ।। २. प्रशमरतौ ।।७२ ।। ३. परिशिष्टपर्वणि श्रीजम्बूस्वामिवच इदम् । ४. क - समपीति, ख- सोमतीति, ग- समपी (संसारमी)ति, घ- समा पीति, च- संसारंमि । ज-ट-फ-ध-न-ण-प-ढ-ण-थ- सोमपीति । झ- सोमपी"ति । ठ-मोमपीति । त- संसारम्मि। द- समापी (संसारम्मी)ति ।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141