Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 34
________________ २४ Re-ऋषिभाषितानि - स्वयमूह्या। क- प्रतौ तु साक्षादभिहिता यथामुसं जो भासए किंचि अप्पं वा जइ वा बहुं । अप्पणट्ठा परट्ठा वा लिप्पए पावकम्मणा ।। अदिण्णं गिण्हए जो उ अप्पं वा जइ वा बहु । अप्पणट्ठा परट्ठा वा लिप्पए पावकम्मणा ।। मेहुन्नं सेवए जो उ तेरिच्छं दिव्वमाणुस । रागदोसाभिभूयप्पा लिप्पए पावकम्मणा ।। सुगमाश्चैता। षष्ठं पापस्थानकमाहकोधं जो उ उंदीरेइ अप्पणो वा परस्स वा। तन्निमित्ताणुबंधेणं लिप्यते पावकम्मुणा ॥३-४।। एवं जाव मिच्छादसणसल्ले। क्रोधं यस्तूदीरयति, आत्मनो वा परस्य वा तन्निमित्तानुबन्धेन - तत्कषायलक्षणनिमित्तेनानुगतेन - स्थितिरससमनुविद्धेन बन्धेनेत्यर्थः, ठिइ अणुभागा कसायाओ-इत्युक्तेः। यद्वा कषायेण सानुबन्धताभावाद् हेतौ फलोपचारानिमित्तमेवानुबन्धः - निमित्तानुबन्धः, तेन, लिप्यते पापकर्मणा एवमष्टादशपापस्थानकानि नेयानि यावन्मिथ्यादर्शनशल्यम्। एतेष्वव्रतकषायैः सर्वसङ्ग्रह इति समासत आह पाणातिवातो लेवो, लेवो अलियवयणं अदत्तं च। मेहुणगमणं लेवो, लेवो परिग्गहं च।।३-५।। - आर्षोपनिषद् - कोधो बहुविधो लेवो, लेवो माणो य बहुविधविधीओ। माया य बहुविधा लेवो, लोभो वा बहुविधविधीओ ॥३-६॥ सुगमौ, नवरं बहुविधा विधयः- विधानविभागा यस्येति बहुविधविधिकः', असङ्ख्येयैरध्यवसायैः क्रियमाणत्वात्, तन्निरुपणप्रवणसूत्रस्यानन्तार्थत्वाद्वा । ततः किमित्याह तम्हा ते तं विकिंचित्ता पावकम्मपवडणं। उत्तमट्ठवरग्गाही वीरिअत्ताए परिव्वए।।३-७।। तस्मात् ते-तान्यष्टादशपापस्थानकानि लेपभूतानीति विदित्वा तं तेषामेव कदम्बकं विविच्य-त्यक्त्वा, कीदृशमित्याहपापकर्मप्रवर्धनम् - प्रकर्षणाशुभकर्मप्रकृत्युपचयप्रयोजकम्, उत्तमः प्रधानोऽर्थो मोक्षलक्षणो यस्मात् स उत्तमार्थ:-जिनाज्ञाऽऽराधनम्, उक्तं च - आज्ञाऽऽराद्धा विराद्धा च शिवाय च भवाय च इति । स एव वरः, अतिचारपरिहारात्, तद्ग्राही-भावसारं तत्प्रतिपत्ता, वीर्यत्वेन - अध्यात्मवीर्यविशेषभूतोद्यमधृतिधैर्यादिभावेन परिव्रजेत् - प्रतिपन्नपदव्यां सर्वात्मना सञ्चरेत्। परिव्रजनपारगमनाय विघ्नविहतिरावश्यका, तदर्थं च विघ्नविज्ञानमित्याह खीरे दूसिं जधा पप्प विणासमुवगच्छति। एवं रागो य दोसो य बंभचेरविणासणा।।३-८।। क्षीरे-पयसि दूषयति कुविकारापादनेनेति दूषिः-तक्राद्यम्लद्रव्यं १. बहुविधवीथिकः, अनेकविधर्मार्गः करणोपायः क्रियमाणत्वादित्यपि। २. अत्रार्थे विधेर्नेष्टसाधनताबोधकत्वमर्थः, असम्भवात्, किन्तु प्ररूपणामात्रम्, न चापूर्वोऽयमर्थः, आवश्यकव्याख्यायां श्रीमलयगिरिसूरिभिरभिहितत्वात् । ३. वीतरागस्तोत्रे । ।१९-४ ।। १. घ-झ-त-च-ग-छ- उदीरेइ। फ- उदीरहि। थ-द-ध-न-प- उदीरेहि। ख-ज-ट-ठउदीरेहि। क-ढ-ण- उदीरेति।

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141