Book Title: Rushibhashitani Part 1
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 28
________________ १२ Re-ऋषिभाषितानि सुखमाप्नुवन्ति ? नेत्युच्यते। किं तत्र दुःखमधिगच्छन्ति ? नेत्युच्यते। किं तर्हि ? यत्र तत्रापि दुःखमेवादाय गच्छन्ति, दुःखमादायैव गच्छन्ति । न हि गच्छतामपि मार्ग एषां सुखम्, क्व तत्र सुखाशेत्याशयः। सुखयत्नोऽपि दुःखावहः, तत्त्वतोऽफलश्चेत्यस्य प्रतीतिसिद्धत्वात्। तथा च वाचकमुख्यः - दुःखद्विट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः। यां यां करोति चेष्टां तया तया दुःखमादत्ते - इति। अत्रैवार्थे निदर्शनमाह कृत्यात् - निपुणप्रतिपक्षप्रयुक्तात् शकटगरुडचक्रादिव्यूहभेदकृत्यादित्यर्थः, दैन्यमिव-पराभूतिपरम्पराहेतुकग्लानिमिव वाहिनी सेना। यथा हि भिन्नव्यूहा सेना निर्बलतयाऽत्यन्तं पराभूयते, पलायमानाऽपि क्लिश्यत एव, स्वेषां विशीर्णत्वात्, परेषां बद्धव्यूहत्वाद्विजयानन्दप्रौढपराक्रमत्वाच्च। यथा सा यत्र तत्रापि नश्यन्ती दैन्यमेव विन्दति तथा दुःखभीता जीवा अपीत्याधुपनय उक्त एव। यद्वा कृत्या - कर्तनम्, व्यूहभेदनक्रियैव, तया' यथा सेना दैन्यं गच्छति, शेषं प्राग्वत्। यद्वा कृत्या - माया, व्यूहभेदकूटनीतिरित्यर्थः, तयेत्याधुक्तवत्। केनैतदभिहितमित्याह- वज्जिअत्ति वज्रिन्, स्वार्थे कः, तत्पुत्रेण- इन्द्रसुतेनेत्यर्थः, अभिधानमेतत् पितृनामवशात्, उपयाचितकानुभावात्, यादृच्छिकं वा सम्भाव्यते। यद्वा देश्यशब्दोऽयं इष्टशब्दपर्यायः, ततश्च प्रियपुत्रनाम्ना प्रत्येकबुद्धेनेत्यर्थः, अर्ह१. इमरुकमणिन्यायादुभयत्रावधारणयोगः। २. प्रशमरती।।४०।। ३. अत्र मूलम्किच्चादिन्नं - इति समस्तम् । मायादैन्यं मायाप्रयुक्तदैन्यमिति यावत्। आर्षोपनिषद् - तेत्यादि प्राग्वत्। परोक्षनिर्देशानन्तरं साक्षाद् भयनिमित्तं निवेदयन्नाहदुक्खा परिवित्तसंति पाणा मरणा जम्मभया य सव्वसत्ता। तस्सोवसमं गवेसमाणा अप्पे आरंभभीरुए ण सत्ते।। २-२॥ दुःखात् परिवित्रस्यन्ति प्राणाः, सन्चे पाणा परमाहम्मिया - इत्युक्तेः । एतदेव दुःखविशेषत्रासवर्णनेन प्रमाणयति - मरणात्, जन्मभयाच्च सर्वसत्त्वाः परिवित्रस्यन्तीत्यनुवर्तते। ननु मरणभयं तु सुप्रसिद्धम्, न चैवं जन्मभयमिति चेत् ? न, सर्वभयमूलत्वात्, तथाऽऽह श्रुतकेवली - जननं च यथा महद् भयं, तदभावश्च यथोत्तमोऽभयमिति । ततस्तस्योपशमं गवेषमाणा अल्पा' जीवा आरम्भभीरुकाः समुत्पन्नसावधव्यापारसाध्वसाः। दुःखं पापादित्यवगमेन स्यादेव सावद्यसाध्वसः, फलभयस्य तात्त्विकस्य हेतुभयपर्यवसायित्वात्। न सक्ताः - न कामभोगेवासक्ता भवन्ति, नानुपहत्य भूतानि भोगः सम्भवतीति विवेचनात्। अत्रैषामल्पत्वोक्तिर्दुःखोपशमगवेषकत्वेऽपि सर्वेषां तेषु स्तोकानामेव सदुपायप्रवृत्तत्वात्, अत एवोक्तम्- सर्वत्र सर्वस्य सदा प्रवृत्तिः, दुःखस्य नाशाय सुखस्य हेतोः। तथाऽपि दुःखं न विनाशमेति, सुखं न कस्यापि भजेत् स्थिरत्वम् - इति। अत्रात्यन्तमल्पत्वाद्दुःखोपशमकृतामभावविवक्षा। १. दशवकालिके ।।४-९।। २. सिद्धसेनी द्वात्रिंशिका ।।४-३१।। ३. अप्पे = आत्मे = निजे = आत्मीये धनादौ, अप्पे = शरीरे, आरम्भभीरुका न सक्ता भवन्तीति व्याख्याऽप्यूह्या। ४. हृदयप्रदीपे ।।१६।।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141