Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि - हतमेव फलम्, कथञ्चित्तदभिन्नत्वात्तस्य। तस्माद्यः फलार्थी स एव सिञ्चति मूलम्, फलघाती तु नैव सिञ्चति। ___ मूलं च संसाराख्यफलस्य मोहनीयमेव, नन्वेवमनादिकर्मसंयोगनिर्वर्तित इति प्लवते इति चेत् ? न, तद्धेतोरेवास्तु किं तेनेति न्यायेन मोहमूलकत्वाद् भवस्य, शेषकर्मणामपि तदधीनत्वात्, तदाह- कम्मं च मोहप्पभवं वयंति - इति, तथा- गर्भसूच्यां विनष्टायां यथा तालो विनश्यति। तथा कर्म क्षयं याति मोहनीये क्षयं गते - इति । अत एवाह साक्षादपि - संसारबीजं कात्र्येन मोहनीयं प्रहीयत इति। तस्माज्जन्मादिदुःखात्मकस्य संसारस्य मोह एव मूलमित्याह
मोहमूलमणिव्वाणं, संसारे सव्वदेहिणं। मोहमूलाणि दुक्खाणि, मोहमूलं च जम्मणं।।२-७।।
मोहमूलमनिर्वाणं संसारे सर्वदेहिनाम्, तस्यैव तत्प्रतिबन्धकत्वात्। तस्मान् मोहमूलानि दुःखानि, आह च- भवे दुक्खरूवे दुक्खफले दुक्खाणुबंधे - इति । ततस्तल्लक्षणसंसारमूलस्य दुःखमूलकता युक्तैव। अत एवागमः - दुक्खं हयं जस्स न होइ मोहो- इति । च- तथा मोहमूलं जन्म, वीतरागजन्मादर्शनात्। यत एवं तस्मात्
दुक्खमूलं च संसारे, अण्णाणेण समज्जितं। मिगारि व्व सरुप्पत्ती, हणे कम्माणि मूलतो।।२-८।।
दुःखमूलं च, अनन्तरनिर्दिष्टम्, संसारे अज्ञानेन १. उत्तराध्यवने । ।३२-७।। २. तत्त्वार्थभाष्यसम्बन्धकारिकायाम् ।।२-४ ।। ३. तत्त्वार्थभाष्ये ।।२-४।। ४. पञ्चसुत्रे । 19 ।। ५. उत्तराध्ययने ।।३२-८ ।।
- आर्थोपनिषद् - समर्जितम्, ततो हिताहिताविवेचनात्, उक्तं च - अज्ञानं खलु कष्टं रागादिभ्योऽपि सर्वपापेभ्यः। हितमहितं वाऽर्थं न वेत्ति येनावृतो लोक:- इति।
किमतः कर्तव्यमित्याह- मृगारिरिव सिंह इव शरोत्पत्तिम्, सिंहो हि न श्ववत् शिलाशकलदशनप्रवृत्तो भवति, स तु शरेण कृतप्रहारः कुत एष शर आगत इति तदुत्पत्तिमन्वेषयति। तथा चार्षम् - पत्थरेणाहओ कीवो पत्थरं डक्कुमिच्छइ। मिगारि उ सरं पप्प सरुप्पत्तिं विमग्गइ - इति । त्वमपि सिंहवत् घातय कर्माणि मूलतः - अज्ञानलक्षणमोहोन्मूलनेन। कर्मघातफलोपदर्शनेनोपसंहरति
एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि।।
एवम्- कर्ममूलोन्मूलनेन, शेषं पूर्ववत्। इति द्वितीये वज्जियपुत्राध्ययन आर्षोपनिषद्।
॥ अथ तृतीयाध्यायः॥ अत्रापि प्रकारान्तरेण सिद्धताविर्भावोपाय उपदर्श्यते - भवितव्वं खलु भो ! सव्वलेवोवरतेणं। लेवोवलित्ता खलु भो! जीवा अणेगजम्मजोणीभयावत्तं अणादीयं अणवदग्गं दीहमद्धं चातुरंतं संसारसागरं (अणुपरियटॅति। लेवोवरता पुण अणेगजम्मजोणीभयावत्तं जाव संसारसागरं) वीतीकंता सिवमतुलमयलमव्वाबाहमपुणब्भवमपुणरावत्तं सासतं १. उपदेशमालायाम् ।।१३९ ।। २. त-घ-च-ग- भविदच्वं । क-ख-ज-झ-ठ-ढ-ण-थ-ध-पभवितव्वं । ट- भविदुब्बं ।

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141