Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि गुरुकुलवासं न मुञ्चन्ति।। तद्वान् - गुर्वाज्ञावर्तितया तदासेविता।
स एवम्भूतः सर्वदुःखप्रहीणः, विशेषणपरनिपातः प्राकृतत्वात्, ततश्च प्रकर्षण हीनानि-सर्वथाऽपगतानि दुःखानि यस्य स इत्यर्थः, तुः - अवधारणार्थः, श्रोतव्यादानेन प्रनष्टसर्वदुःखो भवत्येव, उपेयव्यभिचारिण उपायत्वायोगादिति भावः। सितं मातं येन सः-सिद्धः, बद्धकर्मनि शयितेत्यर्थः। तादृशो भवति, अत एव नीरजाः-निर्गतकर्मरजस्को भवति। तस्मात् - सच्चं चेवोपसेवंती, दत्तं चेवोपसेवंती, बंभं चेवोपसेवंती। सच्चं चेवोवधाणवं, दत्तं चेवोवहाणवं, बंभं चेवोवधाण
॥१-६॥ सत्यं चैवोपसेवन्ते श्रुतश्रोतव्याः शुभात्मनः, तदाहप्रमाद्यन्ति शुभात्मानो न हि ज्ञात्वा मनागपि इति । दत्तं चैवोपसेवन्ते, सव् से जाइयं होइ नत्थि किंचि अजाइयं - इति वचनात् । ब्रह्म चैवोपसेवन्ते इतरस्याधर्ममूलकत्वात् । ततश्च तदात्मकता, गुण-गुणिनोरभेदाच्चेति दर्शयति - सत्यं चैवोपधानवान् - उक्तस्वरूपः, दत्तं - तात्पर्याद्दत्तादानं चैवोपधानवान्, ब्रह्म चैवोपधानवान्। प्रतिपाद्यानुरोधात् पञ्चमहाव्रतविवदिषया मध्यग्रहणेनाद्यन्तग्रहणमत्र द्रष्टव्यम्। उपसंहरन्नाह
एवं से सिद्ध बुद्धे विरते विपावे दंते दविए अलं ताई णो पुणरवि इच्चत्थं हव्वमागच्छइ त्ति बेमि।।
एवम्- श्रोतव्यसमासेवनेन स - महात्मा, सिद्धः - अणि
आर्षोपनिषद् - मादिसिद्धिसम्पन्नो बुद्धः - आलोकितलोकालोककेवलज्ञानलक्षणबोधविभूषितः, विरत:-यथाख्याताख्यशीलशाली, विपापः - पापहेतुकक्रियाविरहितः, दान्तः - विषयशून्यतायोगात् सर्वथा दमितेन्द्रियः, आह च - रागद्वेषक्षयादेति ज्ञानी विषयशून्यता - मिति'। द्रवितुं - सिद्धपर्यायं गन्तुं योग्यः- द्रव्यः, अत्यन्तमासन्नभव्य इति भावः। अलम्- स्वपरनिस्तारणसमर्थः, अत एव तायी -परित्राणशीलः। स एष सिद्धिसौधाध्यारूढः सन् न पुनरपि इत्यर्थं एवम्भूतं जन्मादिदुःखात्मकं संसाराख्यमर्थं हव्वमिति कदाचिदं, आगच्छति', अपुनरागतिगतत्वात्तस्येति यत् तीर्थकरादिभिरुक्तं तदहं ब्रीवीमीति प्रथमाध्ययन आर्षोपनिषद्।
॥ अथ द्वितीयाध्यायः।। अत्राऽप्यपुनरागतिगतिहेतुरेव प्रतिपाद्यविशेषानुरोधात् प्रकारान्तरेणाऽभिधीयते, "जस्स भीता पलायंति जीवा कम्माणुगामिणो। तमेवादाय गच्छंति किच्चा दिन्ना व वाहिणी ।।२-१।।"
___ वज्जियपुत्तेण अरहता इसिणा बुइतं।
यस्येति यस्मात्, प्राकृतत्वात्, भीताः पलायन्ते जीवाः कर्मानुगामिनः, कर्मवशवर्तिन इति भावः। तमेव- भयनिमित्तमेव, आदाय गच्छन्ति। अयं भावः, इह तावत् सर्वेऽपि सत्त्वा दुःखैकभीरवस्तद्विप्रयोगबद्धलक्षास्ततो दूरं पलायन्ते। किं तत्र १. अध्यात्मसारे ।।१५-४७।। २. त्रायी बा। ३. सम्भाव्यतेऽत्र इत्वत्थं (इत्थंस्थम्) इति पाठः, यथा दशवकालिके - जाइमरणाओ विमुच्चइ इत्वत्थं च चयइ सव्वसो ।।९४-७।। ४. आगमिकोऽयमर्थः, दृश्यतां जम्बूद्वीपप्रज्ञप्तो पत्रम् ।।१२२ ।। ५. पुनः पुनः फलोपदर्शनं प्रेक्षावत्प्रवृत्त्यर्थम् । ६. क-ख-ग-ध-छ-ज-र-ठ-ड-ढ-ण-त-प-फ-दिन्नं । झ-च- दिना।
१. त्रिषष्टिशलाकापुरुषचरित्रे । २. उत्तराध्ययने ।।२-३०।। ३. दशकालिके ।।६१६।। ४. एतच्च प्राक् स्पष्टीकृतम्, दृश्यताम् ।।१-२ ।। पृ.६, द्वितीयं टिप्पनकम् ।

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141