________________
Re-ऋषिभाषितानि -
कारवे। चतुत्थं सोयवलक्खणं ४॥१-२।।
प्राणातिपातं त्रिविधं त्रिविधेन नैव कुर्यात् न कारयेत्, इति प्रथम श्रोतव्यलक्षणम्। लक्ष्यतेऽनेन श्रोतव्यमिति श्रोतव्यलक्षणम्। यस्मिञ् शासन एतादृश्यतिसूक्ष्माऽहिंसा वर्ण्यते तदेव श्रोतव्यम्। अन्यत्राभासमात्रत्वादिति हृदयम्। आह च - इदृग्भङ्गशतोपेता हिंसा यत्रोपवर्ण्यते। सर्वांशपरिशुद्धं तन् न्याय्यं हि जिनशासनम्।। अत्र हि - पदमवधारणार्थं भिन्नक्रमं च, तस्माज्जिनशासनमेव न्याय्यमित्यर्थः, ततश्च व्यक्ताऽस्यैव श्रोतव्यता।
अथ द्वितीयलक्षणं लक्षयति- मृषावादं त्रिविधं त्रिविधेन नैव ब्रूयात् न भाषेत, इति द्वितीयं श्रोतव्यलक्षणम्। यथोक्तं - सुहुमं वा बायरं वा नेव सयं मुसं वएज्जा- इत्यादि। न चैवमन्यत्र, पञ्चानृतान्याहुरपातकानि - इत्यादिकलुषितत्वात् ।
अथ तृतीयम् - अदत्तादानं त्रिविधं त्रिविधेन नैव कुर्यात्, न कारयेत्, इति तृतीय श्रोतव्यलक्षणम्। यथा - दंतसोहणमित्तं १. व्याख्यास्यानेकसिद्धान्तप्रसिद्धत्वेनोपेक्षिता । २. अभयं सर्वभूतेभ्यः (प्राणाग्निहोत्रोपनिषदि ।।१-१।।) अहिंसा परमो धर्मः (विष्णुधर्मोत्तरपुराणे ।।३-२६८-१२ ।।) इत्यादिनाऽभ्युपगतत्वेऽपि हेतु-स्वरूपा-ऽनुबन्धशुद्धिविरहात्, षट्कायविज्ञानाभावात्, त्रिविधत्रिविधादिनियमविरहाच्च जनेतरशासनाभिमताऽहिंसाऽऽभासमात्रमेवेति भावः । उपलक्षणमेतत्, तेन नित्यायेकान्तपक्षे हिंसाया एवासम्भवादहिंसोपदेशोपन्यासस्य व्यर्थतेत्याद्यपि द्रष्टव्यम् । ३. अध्यात्मसारे ।।१२-५६।। ४. महाभारते, आदिपर्वणि ।।८२१६।। न नर्मयुक्तं वचनं हिनस्ति, न स्त्रीषु राजन् न विवाहकाले। प्राणात्यये सर्वधनात्यये च, पञ्चानृतान्याहुरपातकानि - इति पूर्णवृत्तम्।
आर्षोपनिषद् - पि - इत्यादि। न तु स्वमेवादत्ते ब्राह्मण इत्याद्यदत्तादानप्रवर्तनदूषितम्।
तुर्यमाह- अब्रह्मपरिग्रहं त्रिविधं त्रिविधेन नैव कुर्यात् न कारयेत्, इति चतुर्थं श्रोतव्यलक्षणम्। चातुर्यामतया श्रीनेमिनाथशासनस्यापरिग्रह एव ब्रह्मान्तर्भावः। नन्वत एवाऽस्य साक्षादभिधानमसङ्गतमिति चेत् ? सत्यम्, तथापि प्रतिपाद्यानुरोधेनादोषः । यद्वा ब्रह्म-शुद्धात्मस्वरूपम्, तत्साधनार्थः परिग्रहो ब्रह्मपरिग्रहः, धर्मोपकरणमित्यर्थः, तदन्यः- अब्रह्मपरिग्रहः, तं न कुर्यात्- धातूनामनेकार्थत्वान्न धारयेदित्यर्थः। एतेन तत्त्वतो मूर्छापरित्यागो विहितः, मूर्छाविषयस्य धर्मोपकारित्वविरहादिति निपुणमालोचनीयम्।
ब्रह्मचर्यमपि जिनशासन एव पारमार्थिकम्। नवगुप्तिशुद्धस्यास्य प्रतिपादनात्। परत्रापुत्रस्य गतिर्नास्ति - न स्त्री दूष्यति जारेण-इत्यादिवचोभिरब्रह्मव्यभिचारादिविधानाच्च। अत एवापरिग्रहोऽप्यत्रैव मुख्यः, शुद्धाहिंसादिप्रतिपादनेन विनिश्चितसार्वज्ञ्यस्य वचोऽनुवृत्त्यैव रागादिप्रहाणसम्भवेन तत्त्वतो मूर्छात्यागसम्भवादिति दिक्।
साम्प्रतमस्यैव प्राणातिपातविरमणादिकलक्षणचतुष्टयस्य विषयादि स्पष्टयति१. सर्व ब्राह्मणस्येदं यत्किञ्चिज्जगति गतम् । श्रेष्ठेनाभिजनेनेदं सर्व ब्राह्मणोऽर्हति । स्वमेव ब्राह्मणो भुङ्क्ते, सर्वस्येदं ददाति च। यच्छेषं स्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः- इति मानवे धर्मशास्त्रे प्रथमाध्याये सृष्टिवादसमुद्देशे । २. मज्झिमा उज्जपन्ना हु - इत्याद्यभिधानस्य (उत्तराध्ययने ।।२३-२६।।) प्रायिकत्वात् । ज्ञापकं चात्र पुष्पिकोपाङ्गे काल्यादिवृत्तं चतुर्थारकालीनम्, दुःपमाकालीनं च श्रीवज्रस्वाम्यादिवृत्तम् ।