________________
Re-ऋषिभाषितानि
सव्वं च सव्वहिं चेव, सब्बकालं च सव्वहा। निम्ममत्तं विमुत्तिं च, विरतिं चेव सेवते।।१-३।।
सर्वम्- षट्कायविषयम्, न तु ब्राह्मणादिगवादिविषयमात्रमिति भावः, सर्वेऽपि चकाराः समुच्चयार्थाः । सर्वत्र चैव, नियतदेशावच्छिन्नताविरहात्। सर्वकालम्, नियतकालावच्छिन्नताऽभावात्। सर्वथा - रागद्वेषलक्षणसर्वाशुभभावप्रकारैः, न तु रागेण प्रत्याख्यानं द्वेषेण मुत्कलतेति भागाविरतिदूषितमित्याशयः।
निर्गतो ममेति शब्दो यस्मान् निर्ममः, तद्भावः निर्ममत्वम्, विशेषेण-कृत्स्नरूपेण कर्मणां मुक्तिः - विमुक्तिः, देशकर्मक्षयस्य प्रतिसमयभावित्वेन मुक्तिमात्रस्य स्वतः सिद्धत्वात्। निर्ममत्वं विमुक्तिश्च यथा स्यात्तथा विरतिं - प्राणातिपातादिविरमणं चैव सेवते समासन्नसिद्धिको जीवः। अत्र क्रियाविशेषणेन विरतिमात्रस्यासाधकता ज्ञापिता।
यद्वा निर्ममत्वादित्रितयेऽपि सर्वमित्यादि स्वयमूह्यम्। एतदेवातिदेष्टि
सव्वतो विरते दंते, सव्वतो परिनिव्वुडे। सव्वतो विष्पमुक्कप्पा, सव्वत्थेसु समं चरे।।१-४।।
सर्वतो विरतः, उक्तरीत्या, दान्तः- जितेन्द्रियः, सर्वतः परिनिर्वृतः- अत्यन्तं सुखीभूतः, पराशाविनिर्मुक्तत्वात्। सर्वतो
- आर्षोपनिषद् - विप्रमुक्तात्मा, द्रव्यादिप्रतिबन्धविरहात् । सर्वार्थेषु- इन्द्रियनोइन्द्रियविषयेषु, समम्- साम्यानतिक्रमेण चरेत्-विहरेत्। तथा च श्राद्धमनोरथः - शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि। मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा - इति । ततः किमित्याह
सव्वं सोयव्वमादाय, अउयं उवहाणवं। सव्वदुक्खप्पहीणे उ, सिद्धे भवति णीरये।।१-५।।
सर्वं श्रोतव्यं सच्छासनमादाय- परिणततदर्थतया तदात्मकीयभूय, यथोक्तम् - से आया - इति । आदायेति गृहीत्वा-इति चेत् ?, सत्यम्, किन्तु तदात्मकतायामेवानुपचरितं ग्रहणम्। तथा चाह- मज्झ परिग्गहो जइ तोऽहमजीवत्तं तु गच्छेज्ज - इति । कियन्तं कालं यावत्तदात्मकीभूयेत्याह- अयुतम्- लौकिकपरिभाषया वर्षदशसहस्रं यावत्, लोकोत्तरपरिभाषितस्य चतुरशीतिलक्षायुताङ्गरूपस्य तस्य तावदायुरभावेनासम्भवात्। दशसहस्रमपि पूर्वाणामुपलक्षणम्, यथोक्तम् - पुनाइ वासाइ चरऽप्पमत्तो तम्हा मुणी खिप्पमुवेइ मोक्खं - इति । यद्वाऽयुतं - असम्बद्धं यथा स्यात्तथा, क्वापि रागादिकृतसम्बन्धविरहादित्यप्यर्थः । उपदधाति - पुष्णाति श्रुतमित्युपधानम् - कालिकाद्यनुयोगोद्देशादिप्रयोजनं तपः, तद्वान्, इतरादानस्य निषिद्धत्वात्। यद्वोपदधाति ज्ञानादिगुणानित्युपधानम् - गुरुकुलवासः, यतःणाणस्स होइ भागी थिरयरओ दंसणे चरिते य। धन्ना आवकहाए १. न च विमुक्त्यर्थविरोधः, अर्थतोऽभिन्नत्वात्, भावमोक्षरूपत्वादिति भावनीयम् । आह च - भावमोक्षस्तु तदेतु- रात्मा रत्नत्रयान्वयी।। अध्यात्मसारे ।।११-१७९।। २. योगशास्त्रे ।।३-१४५ ।। ३. नन्दीसूत्रे ।।३२ ।। ४. नियमसारे।। ५. उत्तराध्ययने ।। ४-८।। ६. सम्भाव्यतेऽत्र - अउलं (अतुलम्), अउव्वं (अपूर्वम्) बा पाठः ।
१. यावन्तश्चकारास्तावन्तः समुच्चय इति न्यायात् । २. समासन्नताभिधानहेतुर्योगबिन्दा चरमावर्तवर्तिनोऽप्यासन्नसिद्धितोक्तिः। ३. (निर्ममत्वेन) निश्चयशुद्धा विमुक्तियोनिरिति विशिष्टेव विरतिः सिद्धिसाधिकेति भावः।