Book Title: Rushibhashitani Part 1
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि - तओ कण्हवासुदेवेण भणियं - जत्थेव तं पुच्छियं तत्थ एयंपि पुच्छियव्वं हुन्तत्ति खिसिओ। ताहे नारओ भणइ - सच्चं भट्टारओ न पुच्छिओत्ति, चिन्तेउमारद्धो, जाई सरिया, संबुद्धो, पढममज्झयणं 'सोयव्वमेव' इच्चाइयं वदति। तच्चेदम् -
"सोयव्वमेव वदती, सोयव्वमेव पवदति, जेण समयं जीवे सव्वदुक्खाण मुच्चति। तम्हा सोयव्वातो परं णस्थि सोयं" ति देवनारदेणं अरहता इसिणा बुइयं।।१-१।।
श्रोतुं योग्यं श्रोतव्यम्, तच्च धर्मवच एव, धर्मोऽपि सर्वविरतिलक्षणः, इतरस्यापवादभूतत्वात्, एतच्चाध्ययनप्रवक्तुरपि सम्मतमित्यग्रे स्फुटीभविष्यति। तदेव वदति तीर्थकरगणधरप्रभृतिः। एवकारेणान्यदभिधानव्यवच्छेदः, परार्थसारत्वात् तद्गिराम्। एवकारमेव दृढयति श्रोतव्यमेव प्रकर्षणेतरहेयत्वदुर्विपाकादिप्रतिपादनपुरस्सरं प्रस्तुतोपादेयतादिविधानलक्षणेन वदति तीर्थकरादिः।
येन- श्रोतव्यश्रवणेन समयं-सिद्धान्तमवगम्य जीव:श्रोतृलक्षणः सर्वदुःखेभ्यः मुच्यते। यद्वा समय इत्याचारः श्रोतव्यवचनानुष्ठाम्, तं विधाय मुच्यत इत्यर्थः, ज्ञानमात्रेण सिद्धिविरहात्। यद्वा सम्यगयः समय:- सम्यग् दयापूर्वकं जीवेषु गमनं - प्रवर्तनमित्यर्थः। अहिंसायामेव श्रोतव्यतात्पर्यात् । शेषं १. न चापवादपदेनापि देशविरतिदेशनाविरहप्रतिपत्तिप्रसङ्ग इति वाच्यम्, परार्थ इत्याद्यनन्तरग्रन्थेन हिंसादिव्यवच्छेदतात्पर्यस्य गम्यमानत्वात् । २. पञ्चम्यर्थे पष्ठी, सुपा सुपो भवन्तीति न्यायात् । ३. आगमिकोऽयमर्थः, दृश्यताम्-आचाराङ्गे पृ.१५३, राजप्रश्नीये पृ.११३। ४. शेषव्रतानामप्यहिंसावृत्तिरूपत्वेन तदर्थत्वात् ।
आर्षोपनिषद् -60 प्राग्वत्। ततः किमित्याह
तस्मात्- अनन्तरोक्ताद्धेतोः श्रोतव्यात् परं प्रकृष्टं नास्ति शौचम्, शुचीकुरुते कर्ममलमलिनमात्मानमिति निरुक्तियोगात्। यद्वा शौचमिति सत्यम् , तदपि श्रोतव्यमेव परमार्थतः, सद्भ्यो हितत्वात्, मुक्तिहेतुभूतज्ञानक्रियानिबन्धनत्वात्, यदाहुः-सोच्चा जाणइ कल्लाणं सोच्चा जाणइ पावगं। उभयं पि जाणइ सोच्चा जं सेयं तं समायरे - इति । इति - अनन्तरोक्तं वाक्यम्, देवनारदेण अध्ययनपीठिकोक्तस्वरूपेण, देवोपपदं देवानुकम्पितत्वेन तद्वद् गगनगामितया च सम्भाव्यते। तमेव विशेषयति- अर्हताप्रत्येकबुद्धतया देवादिपूजनीयेन, यद्वा न विद्यते रहः शौचादिविषयगुह्यता, तदज्ञानमिति यावत्, यस्येत्यरहा, तेन ऋषिणा-श्रोतव्यमेव परं शौचमितितत्त्वज्ञेन , उदितम् - भाषितम्। एतच्च वक्ष्यमाणेनापि योज्यम्।
नन्वनेकतीर्थिका अस्माकमेव शासनं श्रोतव्यमित्यभिदधन्ति, परस्परं विरुद्धानि च तानीति न ज्ञायते किं श्रोतव्यमित्यत्राह
पाणातिवातं तिविहं तिविहेणं णेव कुज्जा ण कारवे। पढमं सोयव्वलक्खणं १। मुसावादं तिविहं तिविहेणं णेव बूया ण भासए। बितियं सोयव्वलक्खणं २। अदत्तादाणं तिविहं तिविहेणं णेव कुज्जा ण कारवे। ततियं सोयव्वलक्खणं ३।
अब्बंभ-परिग्गहं तिविहं तिविहेणं णेव कुज्जा ण १. एतदर्थः प्रागुक्तसम्प्रदायानुरोधेनोक्तः । २. दशवैकालिके ।।४-३४ ।। ३. ऋषति जानाति तत्त्वमिति ऋषिः।

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141