Book Title: Paniniya Ashtadhyayi Pravachanam Part 04
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
३८
पाणिनीय-अष्टाध्यायी-प्रवचनम् यत्
(२) गोव्यचोऽसंख्यापरिमाणाश्वादेर्यत् ।३८ । प०वि०-गो-द्वयच: ५ ।१ असंख्या-परिमाण-अश्वादे: ५ ।१ यत् १।१।
स०-द्वावचौ यस्मिँस्तत्-व्यच् । गौश्च व्यच् च एतयो: समाहारो गोव्यच, तस्मात्-गोव्यच: (बहुव्रीहिगर्भितसमाहारद्वन्द्वः) । अश्व आदिर्येषां तेऽश्वादयः। संख्या च परिमाणं च अश्वादयश्च एतेषां समाहार: संख्यापरिमाणाश्वादि, न संख्यापरिमाणाश्वादि-असंख्यापरिमाणाश्वादि:, तस्मात्-असंख्यापरिमाणाश्वादे: (बहुव्रीहिसमाहारद्वन्द्वगर्भितनञ्तत्पुरुषः)।
अनु०-तस्य, निमित्तम्, संयोगोत्पातौ इति चानुवर्तते।
अन्वय:-तस्य असंख्यापरिमाणाश्वादेर्गोव्यचो निमित्तं यत्, संयोगोत्पातौ।
अर्थ:-तस्य इति षष्ठीसमर्थात् संख्या-परिमाण-अश्वादिवर्जिताद् गो-शब्दाद् द्वयचश्च प्रातिपदिकाद् निमित्तमित्यस्मिन्नर्थे यत् प्रत्ययो भवति, यन्निमित्तं संयोग उत्पातो वा स भवति ।
उदा०-(गौ:) गोर्निमित्तं संयोग उत्पातो वा-गव्यः। (व्यच्) धनस्य निमित्तं संयोग उत्पातो वा-धन्यम् । स्वर्ग्यम् । यशस्यम् । आयुष्यम्।
अश्व। अश्मन्। गण। ऊर्णा । उमा। वसु। वर्ष। भङ्ग । इत्यश्वादयः ।।
आर्यभाषा: अर्थ-(तस्य) षष्ठी-समर्थ (गोव्यच:) गौ शब्द और द्वि-अच् वाले प्रातिपदिक से (निमित्तम्) निमित्त अर्थ में (यत्) यत् प्रत्यय होता है (संयोगोत्पातौ) जो निमित्त है यदि वह संयोग वा उत्पात हो। अस्वाभाविक निमित्त संयोग और स्वाभाविक निमित्त उत्पात कहाता है।
उदा०-(गौ) गौ का निमित्त (संयोग-उत्पात)-गव्य। (द्वि-अच्) धन का निमित्त-धन्य । स्वर्ग का निमित्त-स्वये। यश का निमित्त-यशस्य। आयुष का निमित्त-आयुष्य।
सिद्धि-गव्यम् । गो+डस्+यत् । गो+य। गव्+य। गव्य+सु। गव्यम्।
यहां षष्ठी-समर्थ गो' शब्द से निमित्त (संयोग-उत्पात) अर्थ में इस सूत्र से यत्' प्रत्यय है। 'वान्तो यि प्रत्यये (६।११७८) से वान्त (अव्) आदेश होता है। ऐसे वि-स्वर्ग्यम् आदि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org