Book Title: Paniniya Ashtadhyayi Pravachanam Part 04
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
२४८
पाणिनीय-अष्टाध्यायी-प्रवचनम् निपातनम्
(३३) स्वामिन्नैश्वर्ये ।१२६ । प०वि०-स्वामिन् (सु-लुक्) ऐश्वर्ये ७।१। अनु०-तत्, अस्य, अस्मिन्, इति, इति चानुवर्तते। अन्वय:-तत् स्वामिन् अस्य, अस्मिन्निति निपात्यते, ऐश्वर्ये, अस्ति।
अर्थ:-तद् इति प्रथमासमर्थम् ‘स्वामिन्' इति प्रातिपदिकम् अस्येति षष्ठ्यर्थे अस्मिन्निति च सप्तम्यर्थे आमिन्प्रत्ययान्तं निपात्यते, ऐश्वर्ये गम्यमाने, यत् प्रथमासमर्थमस्ति चेत् तद् भवति ।
उदा०-स्वम् ऐश्वर्यमस्य, अस्मिन् वाऽस्ति-स्वामी।। स्वामी। स्वामिनौ। स्वामिनः।
आर्यभाषा: अर्थ-(तत्) प्रथमा-समर्थ (स्वामिन्) स्वामिन् प्रातिपदिक (अस्य) षष्ठी-विभक्ति वा (अस्मिन्निति) सप्तमी-विभक्ति के अर्थ में आमिन्-प्रत्ययान्त निपातित है (ऐश्वर्ये) यदि वहां ऐश्वर्य अर्थ की प्रतीति हो (अस्ति) जो प्रथमा-समर्थ है यदि वह 'अस्ति ' हो।
उदा०-स्व ऐश्वर्य इसका है वा इसमें है यह-स्वामी।
सिद्धि-स्वामी । स्व+सु+आमिन्। स्व्+आमिन्। स्वामिन्+सु। स्वामीन्+सु। स्वामीन्+ । स्वामी।
यहां प्रथमा-समर्थ 'स्व' शब्द से अस्य (षष्ठी) वा अस्मिन् (सप्तमी) अर्थ में तथा ऐश्वर्य अर्थ की प्रतीति में इस सूत्र से 'आमिन्' प्रत्यय निपातित है। 'यस्येति च' (६।४।१४८) से अंग के अकार का लोप होता है। शेष कार्य 'तपस्वी' (५।२।१०२) के समान है।
अच्
(३४) अर्शआदिभ्योऽच् । १२७ । प०वि०-अर्शस्-आदिभ्य: ५ ।३ अच् १।१। स०-अर्शस् आदिर्येषां ते-अर्शआदय:, तेभ्य:-अर्शआदिभ्यः (बहुव्रीहिः)। अनु०-तत्, अस्य, अस्ति, अस्मिन्, इति, इति चानुवर्तते। अन्वय:-तद् अर्शआदिभ्योऽस्य, अस्मिन्निति अच्, अस्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org